संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकोनषष्टिः पटलः ॥

श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनषष्टिः पटलः ॥

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
कालीयोगरहस्यं च रहस्यातिरहस्यकम् ॥१॥
कथ्यते तव देवेशि शृणु सावहिता भव ।
स्त्रीनामा कालिकारूपा महाकालस्तु पुं भवेत् ॥२॥
शिवशक्त्यात्मकं ब्रह्म यकिञ्चिज्जगतीगतम् ।
त्रयोsग्नयस्त्रयो ग्रामाः गुणवेदाख्यतत्त्वकैः ॥३॥
नाडीत्रयं च त्रैलोक्यं त्रितयं व्योमपञ्चकम् ।
षट्चक्रषोडशाधारं शक्तयो रसयोस्तथा ॥४॥
त्रितारस्त्रीविशेषत्वं यत्किञ्चिज्जगतीगतम् ।
सर्वं शक्तिमयं विद्धि x x x  च तिष्ठति ॥५॥
पर्जन्यः सकलो देवो लक्षणं शृणु पार्वति ।
धूम्रवर्णो वायुकरः करभाकारसन्निभः ॥६॥
कृष्णवर्णो धूसरश्च वात्यापादः पृथुः स्मृतः ।
अग्नि वक्त्रोsग्निनेत्रश्च वडवाहृदयः स्मृतः ॥७॥
जलशाम्भवशक्त्या तु यन्त्रितः क्षणभङ्गुरः ।
संयोगशब्दाद्देवेशि मेघगर्जनमीरितम् ॥८॥
शद्बशक्त्या सन्निपत्य ध्वनिवाग्विनियोजितः ।
कृष्णपीतरक्तश्वेतधूम्रपिङ्गलवर्णतः ॥९॥
यथाकाशो भवेद्देवि तथा तारुण्यभूमिका ।
x x x योगकालान्तं विपरीतं प्रकीर्त्तितम् ॥१०॥
विद्युत्पातो हि बीजान्ताद्विदलामुपलत्वके (?)।
जलपूर्णमहीत्वं च विपरीतं प्रकीर्तितम् ॥११॥
स्त्रीरूपो वायुवेगी च सर्वदेवमयः स्मृतः ।
अदृश्यजलशक्त्या तु संयुतः पुरुषार्थदः ॥१२॥
सर्वदेवमयत्वं च सर्वशक्तित्वमेव च ।
पर्जन्ये देवदेवेशि सदा तिष्ठति निश्चितम् ॥१३॥
स पर्जन्यः x x x x माश्रित्य तिष्ठति ।
x x त्रितयमाश्रित्य नाडीरूपेण तिष्ठति ॥१४॥
अधोवह्निर्दक्षिणे तु सूर्यस्तिष्ठति पार्वति ।
वामे चन्द्रो मध्यभागे समस्तं पद्मगोलकम् ॥१५॥
परितः सकला देवाः सिद्धयः किन्नरादयः ।
x x समासाद्यं सर्वे तिष्ठन्ति पार्वति ॥१६॥
जलं शक्तिर्मध्यभागे वाडावः कुरुरूपधृक् ।
वायूर्ध्वजगतः प्रोक्तः परितः कृष्णवर्णकः ॥१७॥
x x महेशानि पर्जन्यः सर्वदास्ति च ।
अविनाशी सदा स्थायी विनाशी व्योमगोचरः ॥१८॥
पर्जन्यः x x च भूमिमध्ये प्रतिष्ठति ।
अन्यत्र व्योमगः प्रोक्तो भूमिरन्यत्र पार्वति ॥१९॥
x x पुरुषगं प्रोक्तं x x शक्तिगतं प्रिये ।
फलं तत्र स्वेच्छ्या तु स्वशक्त्या परिनिष्ठितम् ॥२०॥
तत्र वर्षति पर्जन्यः शक्तिसङ्गमतोद्भुतः ।
ब्रह्मानन्दस्वरूपोsयमsस्मृतत्वप्रदायकः ॥२१॥
अमृतं च विषं देवि शक्तौ सर्वं च तिष्ठति ।
योगाभ्यासेन पुरुषे सर्वं तिष्ठति पार्वति ॥२२॥
x x योगक्षणे देवि सर्वं तिष्ठति पार्वति ।
अञ्जनं खङ्गवेतालयक्षिणीपादुकागणम् ॥२३॥
गुटिका तिलको गुप्तिरदृश्यत्वं च खेगतिः ।
परकायप्रवेशश्च चराचरपुरी गतिः ॥२४॥
समस्ताः सिद्धयो देवि देहनाडीप्रयोगतः ।
पुरुषाणां भवेद्देवि योगाभ्यासप्रकारतः ॥२५॥
x x योगेन देवेशि परस्यापि प्रजायते ।
चित्रमेतन्महेशानि रहस्यातिरहस्यकम् ॥२६॥
अत एव भवेत् कालीयोगरूपाः स्त्रियः स्मृताः ।
कालीरूपाः स्त्रियः सर्वाः समस्तं कालिकामयम् ॥२७॥
अज्ञानादपि देवेशि फलमेव प्रयच्छति ।
फलपाकविधानेन किं तद्यन्न करे स्थितम् ॥२८॥
x x तत्त्वसंस्पर्शाच्छक्तिपातकरो भवेत् ।
कौमारवयमारभ्य यौवनान्तं महेश्वरि ॥२९॥
आमूलान्तं च विज्ञाय साधयेत्सिद्धिसाधनम् ।
अभावे तु कुमारीं च पूजयेत् परमेश्वरि ॥३०॥
कुमार्यै मज्जलं दत्तं तज्जलं सागरोपमम् ।
कुमार्यै चार्पितं पुष्पं मलयाद्रिसमं भवेत् ॥३१॥
यद्यद्दत्तं कुमार्यै तु तदनन्तफलप्रदम् ।
न कुमारीसमं भाग्यं न कुमारीसमं तपः ॥३२॥
न कुमारीसमा विद्या न कुमारीसमं धनम् ।
न कुमारीसमं भाग्यं न राज्यमपि पार्वति ॥३३॥
न कुमारीसमं तीर्थं न कुमारीसमः ऋतुः ।
न कुमारीसमो योगो न भूतो न भविष्यति ॥३४॥
यदन्नमर्पितं तस्यै भवेद् ब्रह्माण्डसन्निभम् ।
अहो धन्यवतां मध्ये कुमारीपूजकः कलौ ॥३५॥
कुमारी देवता प्रोक्ता कुमारी प्राणरूपिणी ।
कुमारी भूषणं भूषा कुमारी स्पर्शरूपिणी ॥३६॥
तद्धस्तसम्भवं पुष्पं तद्धस्तसम्भवं जलम् ।
तद्धस्तरचितं भोज्यं देवताभ्यो निवेदयेत् ॥३७॥
तासां प्रहारद्वेषं च सर्वथा परिवर्जयेत् ।
स शक्तिशिवसम्पूज्यो गाणपः सर्वसात्कृतिः ॥३८॥
स योगी स च संन्यासी स मेधाषट्कसंयुतः ।
स वेदवित् सर्ववित् स्यात् कुमारीपूजकः स्मृतः ॥३९॥
अहो धन्यवतां मध्ये कुमारीपूजकः कलौ ।
तत्रापि धन्यो देवेशि शक्तिपूजापरायणः ॥४०॥
तत्रापि धन्यो देवेशि x x पूजापरायणः ।
x x वंशसमुद्भूतां कुमारीं भोज्य यत्नतः ॥४१॥
त्रैलोक्यविजयी भूयात्कालीरूपः कलौ सुखी ।
तस्यां तिष्ठति सा काली या कलौ शीघ्रसिद्धिदा ॥४२॥
दर्शनात्स्पर्शनाद्भोज्याद्दानाद् ध्यानादपि प्रिये ।
सिद्धिर्भवति देवेशि नात्र कार्या विचारणा ॥४३॥
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ।
गोपनीयं गोपनीयं स्वयोनिरपरा यथा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे योगनिर्णयो नामैकोनषष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP