संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
विंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - विंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
दशविद्यादिकं देव दश वै शक्तयः प्रभो ।
पुरैव कथिताः स्वामिन् तत्क्रमान् वद साम्प्रतम् ॥१॥
श्रीशिव उवाच ।
रहस्यातिरहस्यं च कथ्यते तव भक्तितः ।
महानीलक्रमेणैव कालिका सिद्धिदायिनी ॥२॥
महानीलक्रमो देवि द्विविधः परिकीर्तितः ।
सकलो निष्कलश्चेति तत्क्रमं श्रृणु पार्वति ॥३॥
खङ्गहस्तः शिरोन्यस्तः सर्वदा मुक्तकुन्तलः ।
सदा मांसासवोल्लासहृदयाघूर्णलोचनः ॥४॥
सिन्दूरतिलकं भाले पाणौ तु मदिरारसः ।
न करोति नरो यस्तु स कथं मम पूजकः ॥५॥
रात्रौ पर्यटनं चैव रात्रावेव प्रपूजनम् ।
न करोति नरो यस्तु स कथं मम पूजकः ॥६॥
x x x x कर्म शक्तेरालिङ्गनं तथा ।
न करोति नरो यस्तु स कथं मम पूजकः ॥७॥
सिन्दूरबिन्दुं भ्रूयुग्मे स्वयम्भूमुनिपत्रकम् ।
रक्तचन्दनजं चापि त्रिपुण्डञ्च ततोपरि ॥८॥
कुचन्दने कज्जलस्य बिन्दुर्देयो महेश्वरि ।
धूपाङ्गारत्रिपुण्ड्रस्य सत्त्वस्थाने प्रदापयेत् ॥९॥
महानीलक्रमे देवि तिलकः परिकीर्तितः ।
श्मशानशायी मांसाशी संविदानन्ममानसः ॥१०॥
x x पश्यन् स्पृशन् गच्छन् सर्वकालं जपं चरेत् ।
x x रमन् श्मशानस्थो मृदुचूडकसंयुतः ॥११॥
दन्तक्षमालया देवि राजदन्तेन मेरुणा ।
मालां कृत्वा जपेद्देवि सदा ताम्बोलचर्वकः ॥१२॥
कपालपात्रं सम्पूज्य सदा ताम्बूलचर्वकः ।
कपालपात्रं सम्पूज्यवीरसाधनतत्परः ॥१३॥
कपालमालाभरणो x x x तत्परः ।
सिन्दूरतिलकं भाले पाणौ तु मदिरारसः ॥१४॥
शक्तयानन्दो नेत्रकञ्जे मुखे हालां गृहाङ्गने ।
x x बाला करे माला शक्तिदोला हृदम्बुजे ॥१५॥
रक्तचन्दनजा वापि स्वयम्भूकुसुमोद्भवा ।
रक्तश्वेता द्विधा प्रोक्ता मुण्डास्थिदन्तजा प्रिये ॥१६॥
x x x x x कृत्वा सर्वकालं जपेच्छिवे ।
शक्तिद्रव्यं न संस्कार्यं सर्वमेतच्चराचरम् ॥१७॥
अविकारी प्रहृष्टान्मा स्त्रीभक्तो विजितेन्द्रियः ।
ईदृग्विधो नरो देवि महानीलक्रमे मतः ॥१८॥
राजदन्तमयी माला खरोष्ट्राश्वसमुद्भवा ।
असक्तानां निष्कलः स्यात्तत्क्रमं श्रृणु पार्वति ॥१९॥
विजयादुग्धकं पीत्वा सच्चिदानन्दमानसः ।
स्फाटिकीं मालिकां कृत्वा विहग्न् जपमाचरेत् ॥२०॥
दिक्कालनियमो नात्र स्थित्यादिनियमो न च ।
न जपे कालनियमो महामन्त्रस्य साधने ॥२१॥
यस्मिन्मन्त्रे य आचारस्तत्र धर्मस्तुं तादृशः ।
भ्रान्तिस्तत्र न कर्तव्या स्वर्गो वा मोक्ष एव च ॥२२॥
पञ्चचक्रक्रमः कार्यो गुरोराज्ञाक्रमेण च ।
मृदुकोमलकं देवि चूडकं वाप्यचूडकम् ॥२३॥
शवं वीरासनं वापि योनित्वगासनं च वै ।
कामरूपासनं देवि सुरतासनमेव च ॥२४॥
सिन्दूरासनकं देवि पर्वतासनमेव च ।
सरोरुहासनं देवि तिलपुष्पं च खञ्जनम् ॥२५॥
चन्द्रबिम्बं सर्पिणी च कम्बलासनमेव च ।
प्रयागासनकं देवि महाप्रयागासनं तथा ॥२६॥
मुनिचूडासनं वश्ये स्पर्शषट्कासनं तथा ।
जिह्वास्पर्शासनं देवि वायुस्पर्शासनं च वा ॥२७॥
आश्लेषासनकं देवि तथा मुण्डासनं तथा ।
श्रीमुण्डसुरतं वापि श्रीवीरसुरतं च वा ॥२८॥
पञ्चवीरासनं देवि सुरेन्द्रादिदिशाक्रमात् ।
आवन्ती मथुरा काशी प्रयागाद्यासनं तथा ॥२९॥
लेहस्पर्शासनं चैव प्रयागत्रितयासनम् ।
प्रत्येकमासनासक्तजघनासक्तमासनम् ॥३०॥
तरुणं सुन्दरं शूरं सम्मुखे रणवर्तिनम्
पलायनविशून्यञ्च चापलाद्यभिभूतकम् ॥३१॥
शनिभौमदिने वापि पञ्चरात्रिदिने च वा ।
सद्यःप्राप्तान् त्रिरात्रस्थान् शवानानीय पार्वति ॥३२॥
दिग्विदिक्क्रमयोगेन स्थापयेद्यत्नतः शिवे ।
शून्यागारे पर्वते वा एकलिङ्गे चतुष्पथे ॥३३॥
पश्चिमाभिमुखं लिङ्गं वृषशून्यं च यत्र वै ।
ईदृक् स्थानं समासाद्य वीरवेषं समाचरेत् ॥३४॥
श्मशानदेवताभ्यश्च महाकालाय पार्वति ।
बलिं दत्त्वा प्रयत्नेन दिक्पालेभ्यो वलिं हरेत् ॥३५॥
शवान् संक्षाल्य यत्नेन पूर्वोक्तेन तु वर्त्मना ।
सर्वोपस्करसम्पन्नो दूरे चोत्तरसाधकान् ॥३६॥
अभिषेकविधिज्ञांश्च साधिकान् साधकान्प्रिये ।
र्ददृग्विधान् समानीय सशस्त्रान् दूरदेशके ॥३७॥
संस्थाप्य दश कीलन्वै दशदिक्षु निखानयेत् ।
वीरार्गलेन मन्त्रेण त्वघोरास्त्रेण वा प्रिये ॥३८॥
जयदुर्वाख्यमनुना विद्यामण्डलकेन वा ।
दिग्बन्धनमथाचर्य्य मद्यमांसादिसंयुतः ॥३९॥
मत्स्यं मुद्रां x x x तत्र सर्वं समाचरेत् ।
स्वस्वकल्पोक्तविधिना बलिसम्भारसंयुतः ॥४०॥
गोनरेभाश्वमहिषछागमेषसमूषकान् ।
मार्जारादीन् समानीय पिष्टजानथवा प्रिये ॥४१॥
स्वकण्ठसमरासीन्वै (?) कृत्वा यत्नेन पार्वति ।
सर्वं श्मशानवत्कृत्वा जूटिकाबन्धनादिकम् ॥४२॥
अश्वारोहक्रमेणैव तत्र स्यित्वा जपं चरेत् ।
प्रथमं प्रहरं त्यक्त्वा तृतीयप्रहरावधि ॥४३॥
एकद्वित्र्यादिवर्णानां मालामन्त्रादिकाः प्रिये ।
उक्तमार्गेण देवेशि शक्तियोनौ शिवं यजेत् ॥४४॥
जपं कुर्यान्महेशानि देवता वरदा भवेत् ।
कोटिकोटिप्रकारैश्च भयं तत्र प्रजायते ॥४५॥
सर्वं मिथ्यैव कृत्वा तु जपं कुर्यान्महेश्वरि ।
यदि भाग्यवशाद्देवि स्त्रीरूपा संस्कृताक्षरम् ॥४६॥
मधुरं वक्ति या देवि सैव प्रोक्ता महेश्वरी ।
मध्यभागान्महेशानि ब्राह्मणः संस्कृतं वदेत् ॥४७॥
समायाति महेशानि भरवः परिकीर्तितः ।
तथा यद्याच्यते देवि तद्देयं तत्र पार्वति ॥४८॥
स्वस्य वाञ्छावरो ग्राह्यो वरं ब्रूहीति सा वदेत् ।
तत्तयैव महेशानि भविष्यति न संशयः ॥४९॥
तच्छक्तियोनितत्त्वस्य x x प्रत्यक्षमाचरेत् ।
सर्वसिद्धीश्वरो भूत्वा कालीरूपो नरो भवेत् ॥५०॥
ब्रह्माण्डगोलके या च या काचिज्जगतीतले ।
समस्ताः सिद्धयो देवि तस्य हस्ते व्यवस्थिताः ॥५१॥
सैव काली भवेद्देवि नात्र कार्या विचारणा ।
भ्रान्तिं त्यत्त्क्का महेशानि सर्वं कार्यं महेश्वरि ॥५२॥
शुद्धो चाशुद्धताभ्रान्तिः स कथं मम पूजकः ।
पाने भ्रान्तिर्भवेद्यस्य घृणा स्या x x x ॥५३॥
र्ददृग्विधो नरो यस्तु स कथं मम पूजकः ।
यद्यत्प्राप्तं महेशानि तत्सर्वं विनिवेदयेत् ॥५४॥
निष्कले नीलमार्गे च तिलकाद्यं च पूर्ववत् ।
ताम्बूलभक्षणं कृत्वा संविद्दुग्धं सदा भजेत् ॥५५॥
स्त्रियं दृष्ट्वा जपेद्देवि शवभस्मान्समाहरेत् ।
इत्याचारपरः श्रीमान् कालीरूपो नरो भवेत् ॥५६॥
पंचाशत्कुशतो ब्रह्मा तदूर्ध्वं विष्टरः स्मृतः ।
कुशपत्रशतेनैव विष्टरं कारयेद्बुधः ॥५७॥
जीवन्यासं तत्र कृत्वा तस्योपरि जपं चरेत् ।
ताम्बूलं योनिचक्रं च मुण्डमाला शवासनम् ॥५८॥
सिन्दूरं खङ्गकं देवि संविदासवयो रसः ।
विना यः पूजयेत्कालीं रौरवं नरकं व्रजेत् ॥५९॥
कुलाचारं समासाद्य सर्वसिद्धीश्वरो भवेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे दशविद्यादिपूजाक्रमं नाम विंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP