संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकसप्ततिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकसप्ततिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
देवेशि श्रृणु वक्ष्यामि रहस्यमपरं वरम् ॥१॥
दीक्षितानां च सिद्धानां चीनानां परमेश्वरि ।
दिव्यसाम्राज्यमेधादिदीक्षितानामपि प्रिये ॥२॥
आसनानि महेशानि कथ्यन्ते परमेश्वरि ।
सिंहदन्तिवाजिहंसश्येनशार्दूलशारभैः ॥३॥
क्षेमङ्करीसर्पसेकमण्डूककूर्मरूपकैः ।
एकद्वित्रिक्रमेणैव पादस्थाने निवेशयेत् ॥४॥
तेनासनानि सम्प्राहुरष्टधातुमयानि च ।
नानाकाष्ठमयान्याहुः सौगन्धकाष्ठजान्यपि ॥५॥
लोहे मारणसंसिध्यै ताम्रे शान्तिरनुत्तमा ।
सीसे स्तम्भनकार्यार्थे [ रङ्गे ] विद्वेषणं चरेत् ॥६॥
रौप्ये राज्यादिसंसिध्यै स्वर्णे सर्वाप्तिरुत्तमा ।
वङ्गे स्त्रीमोहनार्थं तु पित्तले कार्मणो जयः ॥७॥
खादिरे शत्रुनाशार्थं चन्दने सर्वसाधना ।
रक्तकाष्ठे वश्यसिद्धिः पीते स्तम्भनमुत्तमम् ॥८॥
कृष्णकाष्ठे मारणं स्यात् पालाशे कार्यसाधना ।
पैप्पाले सर्वकामार्थं वटे पुत्राप्तिरुत्तमा ॥९॥
औदुम्बरे भूतनाशो रक्ते देव्याः प्रदर्शनम् ।
वर्णवस्त्रे भवेद्देवि तद्वद्वर्णफलं लभेत् ॥१०॥
हस्तमात्रं द्विहस्तं वा तावदायतमेव वा ।
हस्ताधोर्ध्वं महेशानि वितस्तिर्वा यथाक्रमम् ॥११॥
कुलकुलान्तरभेदैरासनं परिकीर्त्तितम् ।
सन्निवेशे यथा भूयात्तथात्रैव विधीयताम् ॥१२॥
चतुरशीत्यासनानि परिभाषासनानि च ।
सिंहासनराजसिध्यै सर्वसिध्यै गजासनम् ॥१३॥
हयासनं वाञ्छिताप्त्यै हंसे सर्वार्थसाधना ।
उच्चाटनं भवेच्छ्येने शार्दूले तु मनोरथः ॥१४॥
शरभे देवताप्राप्त्यै क्षेमङ्कर्य्यां महोदयः ।
सर्पे शत्रुविनाशश्च सेके तु पृथिवीपतिः ॥१५॥
मण्डूके सर्ववाञ्छाप्त्यै कूर्मे धनपतिर्भवेत् ।
मार्जारे कूटनाशश्च नकुले विषनाशनम् ॥१६॥
पारावते धनप्राप्तिश्चकोरे दुष्टनाशनम् ।
सारसे धातुवादः स्याद् वृषभे धनसम्पदः ॥१७॥
वके स्तम्भनमुद्दिष्टं शशके शत्रुनाशनम् ।
पूजने च जपे होमे मार्जने तर्पणेsपि च ॥१८॥
यत्फलं कथितं देवि तत्फलं सममेव तु ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥१९॥
रहस्यातिरहस्यं च गोपनीयं प्रयत्नतः ।
गोपनीयं गोपनीयं गोपनीयं महेश्वरि ॥२०॥
गोपनीयं प्रयत्नेन स्वयोनिरपरा यथा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२१॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे दीक्षासननिर्णयो नामैकसप्ततिः पटलः ।

॥ इति ताराखण्डः ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP