संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
द्वाचत्वारिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - द्वाचत्वारिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि येन देवीमयो भवेत् ।
ईश्वर उवाच ।
रहस्यातिरहस्यं च कथ्यते श्रृणु साम्प्रतम् ॥१॥
दशविद्याक्रमेणैव पञ्चायतनमार्गतः ।
तथा दर्शनमार्गेण पूजनं सिद्धदं कलौ ॥२॥
तत्तद्देवस्यायुधानि तन्मुद्राबीजदर्शणम् ।
कर्तव्यं यत्नतो देवि तदाचारपरो भवेत् ॥३॥
सर्वतोभद्रपीठं च देवीपीठं प्रकीर्तितम् ।
एकाब्जं योगिनीपात्रे पञ्चाब्जं क्षेत्रपालके ॥४॥
नवाब्जं गाणपे प्रोक्तं बटुके लिङ्गचिह्नितम् ।
पञ्चधा मण्डलान्यत्र पूजापीठे महेश्वरि ॥५॥
कालिकां वा तथा मायां विन्दुचन्द्रविभूषिताम् ।
एकाक्षरीं स्पर्शमणिं भालदेशे लिखेच्छिवे ॥६॥
तारातनौ बिन्दुमायां चन्द्रेण परिभूषिताम् ।
एकाक्षरीं स्पर्शमणिं भालदेशे लिखेच्छिवे ॥७॥
छिन्नाक्रोधो बिन्दुचन्द्रभूषितैकाक्षरी भवेत् ।
त्रिपिष्टपहरौ मायां बिन्दुचन्द्रेण भूषिताम् ॥८॥
एकाक्षरीं स्पर्शमणिं भालदेशे लिखेत्सदा ।
काली तारा तथा छिन्ना त्रितयं विलिखेच्च वा ॥९॥
द्वयमेकं च वा लेख्यं तेन तद्रूपभाग्भवेत् ।
लक्ष्मीहरौ बिन्दुमायाकलाभूषितमस्तकौ ॥१०॥
एकाक्षरी स्पर्शमणिं भालदेशे लिखेत्सदा ।
सौः सुन्दरीं स्पर्शविद्यां भालदेशे लिखेत्सदा ॥११॥
ऐं भैरवीं स्पर्शमणिं भालदेशे लिखेत्सदा ।
धूऍ धूम्राख्यां स्पर्शविद्यां भालदेशे लिखेत्सदा ॥१२॥
ब्लूऍस्पर्शाख्यां वसोर्धारां भालदेशे लिखेत्सदा ।
द्रीमाकर्षकरीं विद्यां भालदेशे लिखेत्सदा ॥१३॥
ऑं सम्पत्करणीं विद्यां ह्रीं वश्यकारिणीं कलाम् ।
अमाकर्षकरीं विद्यां भालदेशे लिखेत्सदा ॥१४॥
ह्रीं स्तम्भनकरीं विद्यां भालदेशे लिखेत्सदा ।
ह्सौपरां षोडशीं विद्या भालदेशे लिखेत्सदा ॥१५॥
अन्यमन्त्रविधौ देवि बिजशक्तिं च वा लिखेत् ।
काली तारा छिन्नमस्ता सुन्दरी बगलामुखी ॥१६॥
पञ्चविद्याविधौ देवि दीक्षाहीनो गुरुर्यदि ।
पूर्णाभिषेकिनं वीक्ष्य पुनर्दीक्षां समाचरेत् ॥१७॥
ऊर्ध्वाम्नायैश्च सम्पन्नः प्राप्यते चेत्प्रियंवदे ।
पुनर्दीक्षां चरेद्देवि पूर्णरूपोsपि पार्वति ॥१८॥
निर्वाणदीक्षिते प्राप्ते दीक्षणं सर्वथा चरेत् ।
षट्शाम्भवसमायुक्तः प्राप्यते निर्गुणैरपि ॥१९॥
शाम्भवं दीक्षणं कृत्वा शम्भुरूपो नरोsन्यथा ।
दरिद्रो विकलो भूयान्नात्र कार्या विचारणा ॥२०॥
मेधादीक्षासमायुक्तः कलौ दुर्लभ एव च ।
मेधादीक्षासमायुक्तः प्राप्यते वा न वा प्रिये ॥२१॥
मेधादीक्षासमायुक्तः शिवात्परतरो मतः ।
साम्राण्मेधासमायुक्तः कालीतारामयो ध्रुवम् ॥२२॥
दिव्यसाम्राज्यसंयुक्तो ब्रह्मरूपः सनातनः ।
प्राप्यते चेन्महाभाग्यं साधकस्यात्र निश्चितम् ॥२३॥
दिव्यमेधान्तसंयुक्तो यस्मिन्देशे विराजते ।
स देशः कालिकातुल्यस्तारा तत्रैव तिष्ठति ॥२४॥
तत्सकाशाद्दीक्षणं चेत्किं तपस्याफलं शिवे ।
न वक्तुं शक्यते देवि शिवो जानाति नान्यथा ॥२५॥
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२६॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे पूजासिद्धिकथनं नाम द्वाचत्वारिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP