संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
द्विपञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - द्विपञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


पुढील अध्याय अपूर्ण आहे.

सहस्रपञ्चकेनैव पृथिवीजयमाप्नुयात् ।
दिक्सहस्रावर्तनाद्धि शक्तिपातप्रयोगधृक् ॥१४॥
पंचविंशत्सहस्रं तु यो मुद्रावर्तयेन्नरः ।
नारायणसमोsपि स्याद्दासरूपो न संशयः ॥१५॥
सहस्राणां तु पञ्चाशद्यन्त्रमावर्तयेद्यदि ।
अणिमाद्यष्टसिद्धीनामधीशो जायते नरः ॥१६॥
लक्षावर्तनमात्रेण त्रैलोक्यविजयी भवेत् ।
लक्षद्वयावर्तनात्तु चतुर्विंशतिसिद्धियुक्त् ॥१७॥
पञ्चलक्षप्रयोगेण प्रेतप्रेतेश्वरो भवेत् ।
दशलक्षं लिखेद्यन्त्रं सम्राट् भोक्ता नरो भवेत् ॥१८॥
पञ्चलक्षं लिखेद्यन्त्रं सर्वं पश्यति चक्षुषा ।
पञ्चविंशतिलक्षैश्च वरदानमवाप्नुयात् ॥१९॥
अन्यस्य वरदानत्वं तस्य हस्ते व्यवस्थितम् ।
शिरो देयं गृहं देयं राज्यं देयं पदे पदे ॥२०॥
न देयं यन्त्रवर्यं च कस्मैचिदपि पार्वति ।
एतस्य ज्ञानमात्रेण त्रैलोक्यं जयति प्रिये ॥२१॥
अहो यन्त्रस्य माहात्म्यं महा वक्तुं न शक्यते ।
अहो धन्यमहो धन्यं यन्त्रज्ञानं निरन्तरम् ॥२२॥
पुरश्चर्यायुतानाञ्च फलमेतन्मयेरितम् ।
दशसाहस्रकं देवि पुरश्चर्या प्रकीर्तिता ॥२३॥
उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता ।
तस्य प्रत्यक्षरूपत्वात्तारा उग्रा प्रकीर्तिता ॥२४॥
सामाज्यमुद्रा नाम्नी तु कालीतारामयी परा ।
भूर्जे वा कागजे जाले ताम्बूले कदलीवने ॥२५॥
प्रत्यहं विलिखेत्पत्रे दशयन्त्राणि पार्वति ।
सर्वशत्रुविनाशित्वं कुर्यादेतदुपासकः ॥२६॥
शत्रुसैन्यविनाशश्च नानारूपेण जायते ।
शिरःकम्पो ज्वरो दाहः कलहश्च परस्परम् ॥२७॥
अग्निवायुभवा पीडा तथा मारीभयं प्रिये ।
चतुर्दशदिने चैव कुर्यादेतदुपासकः ॥२८॥
राज्यं जयति देवेशि प्रत्यहं शतमात्रतः ।
सहस्रं प्रत्यहं लेख्यं राज्यदाता भवेन्नरः ॥२९॥
नवधा विलिखेद्देवि सर्वसिद्धीश्वरो भवेत् ॥
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे यन्त्रलेख्यं नाम द्विपञ्चाशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP