संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
अष्टाविंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टाविंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.

श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि धूमावत्याः क्रमं शिव ।
श्रीशिव उवाच ।
धूमावत्याः क्रमो देवि कथ्यते श्रृणु पार्वति ॥१॥
भ्रूमध्ये कज्जलं देवि भस्मबिन्दुं तदन्तरे ।
मृत्त्रिपुण्ड्रं ललाटे स्याच्छवभस्म तदन्तरे ॥२॥
कृष्णवस्त्राम्बरधरः कृष्णगन्धविभूषितः ।
धूमावस्थाम्बरधरो धत्तोरमाल्यभूषितः ॥३॥
गुलधपेन संयुक्तः स्मशानासनसंगतः ।
धूम्रवर्णं जगत्सर्वं मन्त्रं धूर्ममयं भजेत् ॥४॥
काकपिच्छं चासनं स्यात् दन्ताः कृष्णाः प्रकारयेत् ।
ब्रह्मचारी मिताहारो निर्विकल्पो जितेन्द्रियः ॥५॥
सत्यवादी मिताहारो भूशायी कुशविष्टरे ।
स्नानं त्रिषवणं कुर्यादुच्चाटनपरायणः ॥६॥
स्वचित्तं काकवत्कृत्वा चगदुच्चाटयेद्ध्रुवम् ।
काकक्रमस्तु गदितः किमन्यच्छ्रोतुमिच्छसि ॥७॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे धूमावतीक्रमो नामाष्टाविंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP