श्रीगणेशाय नमः ॥
विहाय वाचं मुनिवर्यजुष्टां दैवी बुधां ब्रह्म विबोधयित्रीम् ॥
भुवोऽखिलं वाङ्मयमप्यधीत्य किं भारतं भारतमद्य भूयात् ॥१॥
तमोवृतेऽन्तःकरणे नराणां मोहाद्यलं भीषणतस्कराणाम् ॥
दिव्यप्रकाशेन निरोध्य वृत्ति त्रायेत सर्वस्वविनाशतो या ॥२॥
नवं नवं याऽर्पयतेऽभिधानमनन्तयाऽन्तर्हितया स्वशक्त्या ॥
उपेक्ष्य तां शश्वदभीष्टदोहां किं भारतं भारतमद्य भूयात् ॥३॥
यस्यास्तु विज्ञानबलोपपन्नैः शब्दैरभिव्यक्ततरीक्रियन्ते ॥
साधु स्ववाच्यान्तरिता गुणास्तामुपेक्ष्य राजेत न राष्ट्रमेतत् ॥४॥
या श्रौतसिद्धान्तसुवादसिक्तमार्यत्वबीजं वहते चिराय ॥
आलम्बनी भारतसंस्कृतेस्तामुपेक्ष्य नो भारतमद्य भूयात् ॥५॥
वन्द्यामभीक्ष्णं सुमहत्तमानां भुवोऽखिलाया विदुषामपेक्ष्याम् ॥
षट्त्रिंशतां कोटिभिरर्हिताया जनैर्जनित्रीमथ हिन्दुजातेः ॥६॥
सुसंस्कृतान्तःकरणप्रदात्रीमनर्थसार्थोपशमं विधात्रीम् ॥
संबृहणैः श्रौतवचःप्रवाहैरुपेक्ष्य तां भारतमार्तिमीयात् ॥७॥
ह्म्सस्य हंसत्वमथो पिकत्वं पिकत्वं सिंहस्य च सिंहभावः ॥
व्यज्येत तत्तद्वचसैव नूनं तथार्थताऽऽर्यस्य गिरैव दैव्या ॥८॥
समूलमुन्मूल्य जगद्धिताय या या म्लेच्छता सन्ततमार्यभावम् ॥
लोकेष्वलं वर्धयते समन्तात्तामेव लब्ध्वा सुकृती जनः स्यात् ॥९॥
यां मूलतो वंशपरम्पराभिः प्राप्तामनेकैश्च समासहस्त्रैः ॥
अद्यापि सर्वत्र समप्रचारामार्याः प्रमोदेन मिथः प्रयुज्य ॥१०॥
विभिन्नदिक्कालकृतं प्रभेदं प्रान्ताद्युपाधिप्रथितञ्च भेदम् ॥
विस्मृत्य सद्योऽनुभवन्ति सर्वे समन्ततः सोदरबन्धुभावम् ॥११॥
तानैक्यसन्देशविधानदक्षामच्छां गिरं कष्टमधो विधाय ॥
अभेदभावाभिनिवेशजुष्ट विपद्यते राष्ट्रमिदं समन्तात् ॥१२॥
इति श्रीगौरीशंकरशास्त्रिकृता भारतीस्मृतिः सम्पूर्णा ।