श्रीशारदाशतश्लोकीस्तवः - करोतु पदविन्यासान्कमलासनक...
देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.
करोतु पदविन्यासान्कमलासनकामिनी ।
जिह्वाग्रे मम कारुण्याज्जितचन्द्रायुतप्रभा ॥१॥
पापेऽपि शारदाम्ब त्वं कृत्वा बहुऋपां मयि ।
गरीयसीं चापि वाञ्छां पूरयाशु कृपानिधे ॥२॥
बहुभिस्त्वद्वदनाम्बुजमुल्लेखैः स्तोतुमार्यजनहृद्यैः ।
प्रतिभां प्रयच्छ मह्यं करुणाजलधे पयोजभवजाये ॥३॥
चम्पकसुमकोरकयुक्चकितमृगीप्रेक्षणेन संयुक्तम् ।
शुककेकिनिनदजुष्टं वनमिव तव भाति वदनाब्जम् ॥४॥
नासिकाख्यवरशाखया युतं खञ्जरीटखगयुग्मभूषितम् ।
पक्वबिम्बफलसंयुतं शिवे भाति भूरुह इवाननं तव ॥५॥
भक्तकेकिकुलतोषणव्रतं पद्मसंभवहृदम्बराश्रितम् ।
गद्यपद्यमयवारि संददन्मेघवत्तव मुखं विभाति मे ॥६॥
नेत्रोत्पलालंकृतमध्यभागं भ्रूवल्लिकाबम्भरपङ्क्तिरम्यम् ।
पक्ष्मालिशैवालयुतं विभाति तवास्यमेतत्सरसीव वाणि ॥७॥
सुचिल्लिकातोरणशोभमानं विशालफालाङ्गणरम्यरम्यम् ।
उत्तुङ्गमाणिक्यकिरीटहर्म्यं विभाति वेश्मेव तवाम्ब वक्त्रम् ॥८॥
नयनझषयुतोऽयं दन्तमुक्ताफलाढ्यो
दशनवसननामश्रीप्रवालप्रभायुक् ।
प्रतिपदमभिवृद्धैः कान्तिपूरैः समेतः
शरधिरिव विभाति त्वन्मुखं वाक्सवित्रि ॥९॥
कलय कलिविमोकं कालकालानुजाते
कलय शुभसमृद्धिं भूमिमध्येऽखिलेऽस्मिन् ।
कलय रुचिसमृद्धिं स्वस्वधर्मे जनानां
कलय सुखसमृद्धिं स्वस्वधर्मे रतानाम् ॥१०॥
स्फुर ह्रुदयसरोजे शारदे शुभ्रवर्णे कलशममृतपूर्णं मालिकां बोधमुद्राम् ।
सरसिजनिभहस्तैर्बिभ्रती पुस्तकं च प्रणतहृदयमच्छं कुर्वती तूर्णमेव ॥११॥
पालय मां करुणाब्धे परिवारयुतं त्विहापि शृङ्गाद्रौ ।
शारदशशिनिभवदने वरदे लघु शारदे सदये ॥१२॥
ऐन्द्रीमाशामैन्दवीं वा कलामित्यादौ बीजं जातु मातस्त्वदीयम् ।
व्याजाद्वा यो व्याहरेत्तस्य वक्त्राद्दिव्या वाचो निःसरन्त्यप्रयत्नात् ॥१३॥
शारदे तव पादाम्बुजयुग्मं बोधपुष्परसपूर्णमजस्रम् ।
मामकं हृदयसंज्ञकमीशे नैव मुञ्चतु सरः करुणाब्धे ॥१४॥
कथितानि मदीप्सितानि मातर्मुहुरग्रे तव शारदाम्बिके त्वम् ।
न हि पूरयसे चिरायसे किं मदघौघात्किमु शक्त्यभावतो वा ॥१५॥
अद्यैव मत्प्रार्थितमम्ब दद्या यदि त्वपारां करुणां विधाय ।
वेलाविहीनं सुखमाप्नुयां हि नैवात्र सन्देहलवोऽपि कश्चित् ॥१६॥
कमनीयकवित्वदां जवाद्रमणीयाम्बुजतुल्यपद्युताम् ।
शमनीयभयापहारिणीं रमणीं पद्मभवस्य भावये ॥१७॥
काङ्क्षे कमलजकामिनि कमनीयैः पद्यनिकुरुम्बैः ।
स्तोतुं वाचां निकरं स्वायत्तं कलय जगदम्ब ॥१८॥
कामं मम फालतले लिखतु लिपिं दुःखदां विधिः सततम् ।
नाहं बिभेमि मातर्लुम्पामि त्वत्पदाब्जरजसा ताम् ॥१९॥
किं कल्पवृक्षमुख्यैः किं करधृतमेरुणा शिवेनापि ।
किं कमलया च हृदि चेत्किंकरसर्वेष्टदा वाणी ॥२०॥
तुङ्गातटनिकटचरंभृङ्गावलिगर्वहरणचणचिकुरम् ।
श्रीशारदाभिधानं भाग्यं मम जयति शृङ्गशैलाग्रे ॥२१॥
निरणायि मया समस्तशास्त्राण्यपि वीक्ष्य प्रणतार्तिहारि लोके ।
प्रविहाय तवांघ्रिपंकजातं न परं वस्त्विति वाणि निश्चितं तत् ॥२२॥
पद्मासनासि खलु भारति वागधीशे पद्मासनप्रियतमे करलग्नपद्मे ।
मत्कं मनोऽम्बुजमहो स्वयमेव मातः
श्रीशारदाम्ब विजहासि किमत्र वाच्यम् ॥२३॥
आनीय दिव्यकुसुमानि किरन्ति लोका
ये त्वत्पदाब्जयुगलं वचसां सवित्रि ।
तान्प्राप्तराजपदवींस्तरसा किरन्ति
पौराङ्गनाः कुसुमलाजचयेन नूनम् ॥२४॥
आज्ञासीद्गौरवी मे तव खलु करुणावारिधिः शारदाम्बा
साष्टांगं योगमारादुपदिशति भवानौरसः सूनुरस्याः ।
इत्यप्यद्यापि मातर्न हि खलु करुणा जायते मय्यनाथे
किं वा कुर्यां वदाम्ब प्रणतभयहरे शारदे चापलोऽहम् ॥२५॥
नाहं निगृह्य करणानि सरोजजातजाये त्वदीयपदपङ्कजयोर्हि सेवाम् ।
शक्नोमि कर्तुमलमज्ञशिखामणिर्यत्तस्मान्निसर्गकरुणां कुरु मय्यनाथे ॥२६॥
वाणि सरस्वति भारति वाग्वादिनि वारिजातजनिजाये ।
काश्मीरपुरनिवासिनि कामितफलवृन्ददायिनि नमस्ते ॥२७॥
शरणं त्वच्चरणं मे नान्यद्वाग्देवि निश्चितं त्वेतत् ।
तस्मात्कुरु करुणां मय्यनन्यशरणे द्रुतं मातः ॥२८॥
शरदभ्रसदृक्षवस्त्रवीता करदूरीकृतपङ्कजाभिमाना ।
चरणाम्बुजलग्ननाकिमौलिर्वरदा स्यान्मम शारदा दयार्द्रा ॥२९॥
स्थापय नरकेषु सदाप्यथ सुखकाष्ठासु दिव्यलोकेषु ।
न हि तत्र मे विचारः परं तु चित्तं तवाङ्घ्रिगतमस्तु ॥३०॥
शृङ्गाद्रिवासलोले भृङ्गाहंकारहारिकचभारे ।
तुङ्गातीरविहारे गङ्गाधरसोदरि प्रसीद मम ॥३१॥
ऋश्यशृङ्गजनिभूमिविभूषे कश्यपादिमुनिवन्दितपादे ।
पश्यदङ्घ्रिमुखपालनलोले वश्यपङ्कजभवेऽव सदा माम् ॥३२॥
कम्बुडम्बरनिवर्तककण्ठामम्बुधिं निरवधि करुणयाः ।
अम्बुदप्रतिमकेशसमूहामम्बुजोद्भवसखीं कलयेऽहम् ॥३३॥
भर्मगर्वहरसंहननाभां शर्मदां पदसरोजनतेभ्यः ।
कर्मभक्तिमुखपद्धतिगम्यां कुर्महे मनसि पद्मजजायाम् ॥३४॥
शम्भुसोदरि शशाङ्कनिभास्ये मन्दबुद्धिविततेरपि शीघ्रम् ।
वाक्प्रदायिनि कृपामृतराशे शृङ्गशैलवरवासविलोले ॥३५॥
तुष्टिमेहि वचसां जननि त्वं मत्कृतेन विधिनाऽविधिना वा ।
ऐंजपेन परिपूरय वाञ्छां मामकीं च महतीमपि शीघ्रम् ॥३६॥
तवौरसंसूनुमहो त्वदीयभक्ताग्रगण्या मम देशिकेन्द्राः ।
प्राहुर्यतोऽतो मयि शारदाम्ब पाप्यग्रगण्येऽपि दया विधेया ॥३७॥
तवौरसं मां सुतमाहुरार्यास्त्वत्पादभक्ताग्रसरा यतोऽतः ।
सोढ्वामदीयान्सकलापराधान्पुरो भवाम्बाशु गिरां सवित्रि ॥३८॥
भक्तेष्टपाथोनिधिपूर्णचन्द्रः कवित्वमाकन्दवसन्तकालः ।
जाड्यान्धकारव्रजपद्मबन्धुरम्ब प्रणामस्तव पादपद्मे ॥३९॥
मुखाम्बुजं भातु जगज्जनन्या हृदम्बुजे मे जितचन्द्रबिम्बम् ।
रदाम्बराधःकृतपक्वबिम्बं महाघविध्वंसनचञ्च्वजस्रम् ॥४०॥
यानेन हंसं वदनेन चन्द्रं श्रोणीभराच्छैलपतिं च कामम् ।
काञ्चिद्धसन्तीं कलये हृदब्जे चन्द्रार्धराजद्वरकेशपाशाम् ॥४१॥
विस्मृत्य देहादिकमम्ब सम्यक्समुच्चरंस्तावकमन्त्रराजम् ।
तुङ्गानदीपुण्यतटे कदाहं सुसैकते स्वैरगतिर्भवामि ॥४२॥
श्रीशादिसंसेवितपादपद्मे श्रीबोधदानव्रतबद्धदीक्षे ।
श्रीकण्ठसोदर्यमितानुकम्पे श्रीशारदाम्बाशु कृपां कुरुष्व ॥४३॥
हृद्यानि पद्यानि विनिःसरन्ति त्वदंघ्रिसंपूजकवक्त्रपद्मात् ।
विना प्रयत्नं तरसा न चित्रं त्वमम्ब यस्माद्वचसां सवित्री ॥४४॥
गमागमविवर्जितैरसुभिरन्तरङ्गेऽनिशं
गजास्यगुहनन्दिभिः सुरवरैर्मुदा चिन्तिते ।
गजाजिनधरानुजे गलिततृष्णलोकेक्षिते
गतिं मम शुभां मतिं सपदि देहि वागीश्वरि ॥४५॥
जलोद्भवजभामिनि प्रणतसौख्यभूमप्रदे
जडत्वविनिवारणव्रतनिषक्तचेतोऽम्बुजे ।
जगत्त्रयनिवासिभिः सततसेव्यपादाम्बुजे
जगज्जननि शारदे जनय सौख्यमत्यद्भुतम् ॥४६॥
मदेभगमनेऽवने नतततेरनेकैः सुखै-
रनारतमजामितं प्रवणहृत्सरोजेऽम्बिके ।
कुतो मयि कृपा न ते प्रसरति प्रसन्ने वद
प्रपञ्चजननप्रभुप्रणयिनि प्रपद्येऽद्य कम् ॥४७॥
कदा वा श्रुङ्गाद्रौ विमलतरतुङ्गापरिसरे
वसन्मातर्वाचां शिरसि निदधानोऽञ्जलिपुटम् ।
गिरां देवि ब्राह्मि प्रणतवरदे भारति जवा-
त्प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥४८॥
जगन्नाथं गङ्गा विविधवृजिनोघैः परिवृतं
यथाऽरक्षत्पूर्वं सकलमपि हत्वाशु दुरितम् ।
पुनश्चान्ते दत्त्वा करसरसिजं पूर्णकृपया
जनैः सद्भिः प्राप्यां परमपदवीं प्रापितवती ॥४९॥
तथा शान्तं पापं सकलमपि कृत्वा मम जवा-
द्धृदंभोजे लग्नं कुरु तव पदाम्भोरुहयुगम् ।
कराम्भोजे पश्चात्परमकृपया देवि वचसां
प्रदत्त्वाऽऽलम्बं माम् गमय पदवीं निर्मलतराम् ॥५०॥
दवीयांसं त्वेनं परमकृपया देशिकमुखा-
त्समानीयाम्ब त्वं तव पदपयोजातनिकटम् ।
अवित्वापीयन्तं समयमधुना देवि भजसे
यदौदास्यं तर्हि त्रिजगति ममान्यां वद गतिम् ॥५१॥
कामं सन्तु सुरा निरन्तरनिजध्यानार्चनाकारिणो
लोकान्स्वेप्सितसर्वसौख्यसहितान्कर्तुं जगत्यां किल ।
पूजाध्यानजपादिगन्धरहितांस्त्रातुं पुनस्त्वां विना
नान्यद्दैवतमस्तिपद्मजमनःपद्मार्भकार्कप्रभे ॥५२॥
कारुण्यं मयि धेहि मातरनिशं पद्मोद्भवप्रेयसि
प्रारब्धं मम दुष्टमाशु शमय प्रज्ञां शुभां यच्छ मे ।
कर्तुंकाव्यचयं रसौघभरितं शक्तिं
दृढां भक्तिमप्यंहःसञ्चयवारिणीं तव पदाम्भोजे कृपाम्भोनिधे ॥५३॥
कुर्यामद्य किमम्ब भक्तिरहितः पूजां जपं तर्पणम्
किं वैराग्यविवेकगन्धरहितः कुर्यां विचारं श्रुतेः ।
किं योगं प्रकरोमि चञ्चलमनाः शृङ्गाद्रिवासप्रिये
त्वत्पादप्रणतिं विहाय न गतिर्मेऽन्या गिरां देवते ॥५४॥
जह्यान्नैव कदापि तावकपदंमातर्मनो मामकं
मान्द्यध्वान्तनिवारणोद्यतदिनेशाखर्वगर्वावलि ।
गौरीनाथरमाधवाब्जभवनैः संभाव्यमानं मुदा
वाक्चातुर्यविधानलब्धसुयशःसंपूरिताशामुखम् ॥५५॥
तुङ्गातीरविहारसक्तहृदये शृङ्गारजन्मावने
गङ्गाधारिमुखामरेन्द्रविनुतेऽनङ्गाहितापद्धरे ।
सङ्गातीतमनोविहाररसिके गङ्गातरङ्गायिता
भृङ्गाहंकृतिभेददक्षचिकुरे तुङ्गा गिरो देहि मे ॥५६॥
त्वत्पादाम्बुजपूजनाप्तहृदयाम्भोजातशुद्धिर्जनः
स्वर्गं रौरवमेव वेत्ति कमलानाथास्पदं दुःखदम् ।
कारागारमवैति चन्द्रनगरं वाग्देवि किं वर्णनै-
दृश्यं सर्वमुदीक्षते स हि पुना रज्जूरगाद्यैः समम् ॥५७॥
त्वत्पादाम्बुरुहं विहाय शरणं नास्त्येव मेऽन्यद्ध्रुवं
वाचां देवि कृपापयोजलनिधे कुत्रापि वा स्थापय ।
अप्यूर्ध्वं ध्रुवमण्डलादथ फणीन्द्रादप्यधस्तत्र मे
त्वन्न्यस्तैहिकपारलौकिकभरस्त्वासे न कापि व्यथा ॥५८॥
त्वत्पादाम्बुरुहं हृदाख्यसरसिस्याद्रूढमूलं यदा
वक्त्राब्जे त्वमिवाम्ब पद्मनिलया तिष्ठेद्गृहे निश्चला ।
कीर्तिर्यास्यति दिक्तटानपि नृपैः संपूज्यता स्यात्तदा
वादे सर्वनयेष्वपि प्रतिभटान्दूरीकरोत्येव हि ॥५९॥
मातस्त्वत्पदवैभवं निगदितुं प्रारभ्य नागेश्वरा-
ऽस्वप्नाचार्यकवीन्दुशेखरदिनेशाद्याः प्रभग्ना मुहुः ।
क्वाहं तत्कथने जडेष्वचरमः कारुण्यपाथोनिधे
वाचां देवि सुतस्य साहसमिदं क्षन्तव्यमेवाम्बया ॥६०॥
मातः शृङ्गपुरीनिवासरसिके मातङ्गकुम्भस्तनि
प्राणायाममुखैर्विनापि मनसः स्थैर्यं द्रुतं देहि मे ।
येनाहं सुखमन्यदुर्लभमहोरात्रं भजाम्यन्वहं
प्राप्स्याम्यात्मपरैकबोधमचलं निःसंशयं शारदे ॥६१॥
वेदाभ्यासजडोऽपि यत्करसरोजातग्रहात्पद्मभू-
श्चित्रं विश्वमिदं तनोति विविधं वीतक्रियं सक्रियम् ।
तां तुङ्गातटवाससक्तहृदयां श्रीचक्रराजालयां
श्रीमच्छङ्करदेशिकेन्द्रविनुतां श्रीशारदाम्बां भजे ॥६२॥
वैराग्यं दृढमम्ब देहि विषयेष्वाद्यन्तदुःखप्रदे-
ष्वाम्नायान्तविचारणे स्तिरतरां चास्थां कृपावारिधे ।
प्रत्यग्ब्रह्मणि चित्तसंस्थितिविधिं संबोधयाश्वेव मां
त्वं ब्रूषे सकलं ममेति गुरवः प्राहुर्यतः शारदे ॥६३॥
कमलासनवरकामिनि करधृतचिन्मुद्रिके कृपाम्भोधे ।
करकलितामलकाभं तत्त्वं मां बोधयतु जगदम्ब ॥६४॥
करविधृतकीरडिम्भां शरदभ्रसधर्मवस्त्रसंवीताम् ।
वरदाननिरतपाणिंसुरदां प्रणमामि शारदां सदयाम् ॥६५ ॥
कामाक्षीविपुलाक्षीमीनाक्षीत्यादिनामभिर्मातः ।
काञ्चीकाशीमधुरापुरेषु भासि त्वमेव वाग्जननि ॥६६॥
चन्द्रार्धशेखरापररूपश्रीशङ्करार्यकरपूज्ये ।
चन्द्रार्धकृतवतंसे चन्दनदिग्धे नमामि वाणि पदे ॥६७॥
जय जय चिन्मुद्रकरे जय जय शृङ्गाद्रिविहरणव्यग्रे ।
जय जय पद्मजजाये जय जय जगदम्ब शारदे सदये ॥६८॥
दुर्वसनदत्तशापप्रतिपालनलक्ष्यतः समस्तानाम् ।
रक्षार्थमवनिमध्ये कृतचिरवासां नमामि वाग्देवीम् ॥६९॥
नवनवकवनसमर्थं पटुतरवाग्धूतवासवाचार्यम् ।
वनजासनवरमानिनि वरदे कुरु शीघ्रमंघ्रिनतम् ॥७०॥
भगवत्पदमण्डनयोर्वादमहे सकललोकचित्रकरे ।
अङ्गीकृतमाध्यस्थ्यां जगदम्बां नौमि शारदां सदयाम् ॥७१॥
सेवापूजानमनविधयः सन्तु दूरे नितान्तं
कादाचित्का स्मृतिरपि पदाम्भोजयुग्मस्य तेऽम्ब ।
मूकं रङ्कं कलयति सुराचार्यमिन्द्रं च वाचा
लक्ष्म्या लोको न च कलयते तां कलेः किं हि दौःस्थ्यम् ॥७२॥
आशावस्त्रः सदात्मन्यविरतहृदयस्त्यक्तसर्वानुरागः
काये चक्षुर्मुखेष्वप्यनुदितममतः क्वापि कस्मिंश्च काले ।
शैलाग्रेऽरण्यकोणे क्वचिदपि पुलिने क्वापि रेवातटे वा
गङ्गातीरेऽथ तुङ्गातटभुवि च कदा स्वैरचारी भवेयम् ॥७३॥
कल्पन्तां काम्यसिद्ध्यै कलिमलहतये चाक्षयैश्वर्यसिद्ध्यै
कारुण्यापारपूराः कमलभवमनोमोददानव्रताढ्याः
कात्यायन्यब्धिकन्यामुखसुररमणीकाङ्क्ष्यमाणाः कवित्व-
प्राग्भाराम्भोधिराकाहिमकरकिरणाः शारदाम्बाकटाक्षाः ॥७४॥
कल्पादौ तन्महिम्ना कतिपयदिवसेष्वेव लुप्तेषु मार्गे-
ष्वाम्नायप्रोदितेषु प्रवरसुरगणैः प्रार्थितः पार्वतीशः ।
आम्नायाध्वप्रवृद्ध्यै यतिवरवपुषागत्य यां शृङ्गशैले
संस्थाप्यार्चां प्रचक्रे निवसतु वदने शारदा सादरं सा ॥७५॥
तिष्ठाम्यत्रैव मातस्तव पदयुगलं वीक्षमाणः प्रमोदा-
न्नाहं त्यक्त्वा तवाङ्घ्रिं सकलसुखकरं क्वापि गच्छामि नूनम् ।
छायां मत्कां विधत्स्व प्रवचननमनध्यानपूजासु शक्तां
शुद्धामेकां त्रिलोकीजननपटुविधिप्राणकान्ते नमस्ते ॥७६॥
त्वद्बीजे वर्तमाने वदनसरसिजेदुर्लभं
किं नराणां धर्मो वाऽर्थश्च कामोऽप्यथ च सकलसंत्यागसाध्यश्च मोक्षः ।
काम्यं वा सार्वभौम्यं कमलजदयितेऽहेतुकारुण्यपूर्णे
शृङ्गाद्र्यावासलोले भवति सुरवराराध्यपादारविन्दे ॥७७॥
दृष्ट्वा त्वत्पादपङ्केरुहनमनविधावुद्यतान्भक्तलोका-
न्दूरं गच्छन्ति रोगा हरिमिव हरिणा वीक्ष्य यद्वत्सुदूरम् ।
कालः कुत्रापि लीनो भवति दिनकरे प्रोद्यमाने तमोव-
त्सौख्यं चायुर्यथाब्जं विकसति वचसां देवि शृङ्गाद्रिवासे ॥७८॥
नाहं त्वत्पादपूजामिह गुरुचरणाराधनं चाप्यकार्षं
नाश्रौषं तत्त्वशास्त्रं न च खलु मनसः स्थैर्यलेशोऽपि कश्चित् ।
नो वैराग्यं विवेको न च मम सुदृढा मोक्षकाङ्क्षाऽपि नूनं
मातः कावा गतिर्मे सरसिजभवनप्राणकान्ते न जाने ॥७९॥
नौमि त्वां शैववर्याः शिव इति गणनाथार्चका विघ्नहर्ते-
त्यार्येत्यम्बाङ्घ्रिसक्ता हरिभजनरता विष्णुरित्यामनन्ति ।
यां तां सर्वस्वरूपां सकलमुनिमनःपद्मसंचारशीलां
शृङ्गाद्र्यावासलोलां कमलजमहिषीं शारदां पारदाभाम् ॥८०॥
यः कश्चिद्बुद्धिहीनोऽप्यविदितनमनध्यानपूजाविधानः
कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य ।
चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां
सालङ्कारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥८१॥
याचन्ते नम्रलोका विविधगुरुरुजाक्रान्तदेहाः पिशाचै-
राविष्टाङ्गाश्च तत्तज्जनितबहुतरक्लेशनाशाय शीघ्रम् ।
किं कुर्यां मन्त्रयन्त्रप्रमुखविधिपरिज्ञानशून्यश्चिकित्सां
कर्तुंन त्वत्पदाब्जस्मरणलवमृते वाणि जानेऽत्र किंचित् ॥८२॥
रागद्वेषादिदोषैः सततविरहितैः शान्तिदान्त्यादियुक्तै-
राचार्याङ्घ्र्यब्जसेवाकरणपटुतरैर्लभ्यपादारविन्दा ।
मुद्रास्रक्कुम्भविद्याः करसलिलरुहैः संदधाना पुरस्ता-
दास्तां वाग्देवता नः कलिकृतविविधापत्तिविध्वंसनाय ॥८३॥
वारय पापकदम्बं तारय संसारसागरंतरसा ।
शोधय चित्तसरोजं बोधय परतत्त्वमाशु मामम्ब ॥८४॥
सच्चिद्रूपात्मनिष्ठः प्रगलितसकलाक्षादिवृत्तिः शयानो
भुञ्जानः सत्यसौख्यं तदितरसुखतः प्राप्तनीरागभावः ।
पाषाणे वाथ तल्पे वनभुवि सदने पार्थिवस्याऽश्महेम्नो-
र्नार्यां मृत्यौ च तुल्यः सततसुखिमनाः स्यां कदा शारदाम्ब ॥८५॥
किं पाठयेयं लघुचन्द्रिकां वा किं वा त्यजेयं सकलप्रपञ्चम् ।
स्वप्नेऽद्य मे ब्रूहि किमत्र कार्यं डोलायितं मामकमम्ब चेतः ॥८६॥
त्यागे वाऽध्यापने वा मम खलु न गिरां देवि काप्यस्ति शक्तिस्त्वं
वै सर्वत्र हेतुर्यदसि निरवधिर्वारिराशिः कृपायाः ।
तस्मात्स्वप्नेऽद्य कार्यं मम खलु निखिलं बोधयैवं कुरुष्वेत्यज्ञानां
बोधनार्थं त्वमिह बहुविधा अम्ब मूर्तीर्बिभर्षि ॥८७॥
वितर विधिप्रेयसि मे विमलधियं वाञ्छितं च तरसैव ।
विष्णुमुखामरवन्द्ये विधुबिम्बसमानवदनकञ्जाते ॥८८॥
शारदनीरदसन्निभवसने वनजासनान्तरङ्गचरे ।
वरटावल्लभयाने वरदे वाग्देवि शारदे पाहि ॥८९॥
सप्तदशघस्रमविरतमीशेन समस्तविद्यानाम् ।
विरचितवादां कुतुकात्सामोदं नौमि वाग्जननीम् ॥९०॥
सुरवरनिषेव्यपादे सुखलवाधूतकेकिकुलनिनदे
सुरवनविहारबलदे सुरवरदे पाहि शारदे सुरदे ॥९१॥
कुन्दरदनेऽम्ब वाणि मुकुन्दरवीन्द्वादिदेववर्येड्ये ।
कुन्दरकृपावशान्मुकुन्दवराद्यांश्च मे निधीन्देहि ॥९२॥
स्फुरशरदिन्दुप्रतिभटवदने वाग्देवि मामके मनसि ।
वरदाननिरतपाणे सरसिजनयने सरोजजातसखि ॥९३॥
अस्थिरभक्तेर्मम देवि गिरां शीघ्रं दत्त्वा काञ्चित्सिद्धिम् ।
कुरु सुदृढां मम तव पादाब्जे भक्तिं शृङ्गगिरीन्द्रनिवासे ॥९४॥
सहमानसोदरि सह प्रण्तकृता मानहीनमन्तुततीः ।
सहमानसोदरीत्वं त्यज वा युक्तं यदत्र कुरु वाणि ॥९५॥
वलभिन्मुखनिर्जरवरसेव्ये कलवचनन्यक्कृतपिकरावे ।
जलजप्रतिभटपदयुगरम्ये कलय प्रवरं कृतिनामेनम् ॥९६॥
करविलसद्वरपुस्तकमाले शरदब्जाहंकृतिहरचेले ।
अरणीसुमनिभकुंकुमफाले शरणं मम भव धृतशुकबाले ॥९७॥
कलयासक्तिं कमलजदयिते तुलनाशून्यामींमनुवर्ये ।
वलयाञ्चितकरसरसीजाते ललनाभिः सुरवितते: पूज्ये ॥९८॥
शृङ्गक्ष्माभृन्कूटविहारे तुङ्गातटभूकृतसञ्चारे ।
वाचां देवि प्रार्थितमर्थं शीघ्रं देहि प्रणतायास्मै ॥९९॥
नाहं सोढुं कालविलम्बं शक्नोम्यम्ब प्रणतप्रवणे ।
ईप्सितमर्थं देहि तदाशु द्रुहिणस्वान्ताम्बुजबालघृणे ॥१००॥
॥इति श्रीशारदाशतश्लोकीस्तवः संपूर्णः ॥
N/A
References : N/A
Last Updated : February 19, 2018
TOP