दिव्य वारिं कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव ॥
तस्माद्द्यूतविधौ त्वयाऽद्य मुषितो हारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥१॥
श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदा रोहिणी ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ॥
दिश्यादक्षतहस्तमूलघटिताषाढा मघालंकृता श्रेयो वै श्रवणान्विता भगवतो नक्षत्रपालीव वः ॥२॥
एषा ते हर का सुग्रात्रि कतमा मुर्ध्नि स्थिता किं जटा हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते ॥
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरंगायते एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः ३॥
इति गौरीश्वरस्तुतिः ।