प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्मकरकुण्डलहारभूषाम् ॥
दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां महती परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्डशुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ॥
ब्रह्मेन्द्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपपाम् ॥२॥
प्रातर्भजामि भवतामभिलाषदात्री धात्री समस्तजगता दुरितापहंत्रीम् ॥
संसारबन्धनविमोचनहेतुभुतां मायां परां समधिगम्य परस्य विष्णोः ॥३॥
श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः ॥
सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥४॥
इति देवीस्तुतिः ।