दृष्टस्य यस्य हरिणा रणमूर्ध्नि व्यूतिरुद्भूतदुःसहमहःप्रसराः समन्तात् ।
तल्लोचनस्थितिरविप्रतिबिम्बगर्भेवाभाति चक्रमरिचक्रनुदेऽस्तु तद्वः ॥१॥
उद्वृत्तदैत्यपृतनापतिकण्ठछेदोच्छलद्वहच्छोणितशोणधारम् ।
चक्रं क्रियादभिमतानि हरेरुदारदिग्दाहदारुणनभःश्रियमुद्वहद्वः ॥२॥
इति सुदर्शनचक्रस्तुतिः ।