रेतोरक्तमयान्यमूनि भविनां विण्मूत्रपूर्णोदकान्यालोक्यैव कलेवराणि विगलत्तोयार्द्रंरंध्राणी यः ।
मायाजालनियन्त्रितानि घृणया नोन्मीलयत्यक्षिणी निर्व्याजप्रणिधाननिश्चलमतिर्बुद्ध्यै स बुद्धोऽस्तु वः ॥१॥
ध्यानव्याजमुपेत्य कामुन्मील्य चक्षुः क्षं पश्यानङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि ।
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमाञ्छश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥२॥
आबाहूद्रतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षह्रदयप्रोन्माथिनः कर्कशाः ।
उत्सृष्टाम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं सं वोऽव्याज्जिनः ॥३॥
इति बुद्धस्तुतिः ।