नवललितवयस्कौ नव्यलावण्यपुञ्जौ नवरसचलचित्तौ नूतनप्रेमवृत्तौ ।
नवनिधुवनलीलाकौतुकेनातिलोलौ स्मर निभृतनिंकुजे राधिकाकृष्णचन्द्रौ ॥१॥
द्रुतकनकसुगौरस्निग्धमेघौघनीलच्छविभिर्खिलवृन्दारण्यमुद्भासयन्तौ ।
मृदुलनवदुकूले नीलपीते दधानौ स्मर निभृतनिकुंजे राधिकाकृष्णचन्द्रौ ॥२॥
इति श्रीराधाकृष्णस्तोत्रम् ।