संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः| मानातीतप्रथितविभवां मङ्गल... स्तुतिः स्तवः धर्मराज नमस्तेऽस्तु साक्ष... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... भज जगदम्बां भज जगदम्बां ज... कञ्जाक्षमुख्यामर पूजिताभ्... करोतु कल्याणपरंपरां नः का... स्मितोद्धूतराकानिशानायकाय... जाड्यवारिधिनिमग्नसुबुद्धे... श्री महालक्ष्मी स्तुतिः श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... नमस्त्रिमूर्तये तुभ्यं प्... संसारपतितस्यैको जन्तोस्त्... इन्द्र उवाच: कृष्ण कृष्ण ... भूमिरापोऽनलो वायुः खं मनो... सन्मात्ररूपिणेऽचिन्त्यमहि... नमस्ते पुण्डरीकाक्ष नमस्त... शङ्खचक्रगदापाणॆ! द्वरकानि... नमःशिवायै गंगायै शिवदायै ... स्फुटं स्फटिकसप्रभं स्फुट... सर्वमार्गेषु नष्टेषु कलौ ... नमो देव्यै प्रकृत्यै च वि... साम्बो नः कुलदैवतं पशुपते... अथ कथमपि मद्रसनां त्वद्गु... योऽन्तः प्रविश्य मम वाचमि... मानातीतप्रथितविभवां मङ्गल... नमामि भक्तवत्सलं कृपालुशी... भीष्म उवाच इति मतिरुपकल्प... किं नाहं पुत्रस्तव मातुः ... बालस्तरुणभक्तौ च वीरश्शक्... जननी मृगयतु मामित्याच्छाद... क्षमस्व भगवत्यंब क्षमाशील... कल्याणवृष्टिभिरिवामृतपूरि... नारद उवाच ध्यात्वा गणपतिं... कल्याणायुतपूर्णचन्द्रवदना... सञ्चितयामि गुरुवायुपुरेश,... करोतु पदविन्यासान्कमलासनक... श्रीकण्ठतनय श्रीश श्रीकर ... ओङ्कारवेद्यः पुरुषः पुराण... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... उत्थिष्ठ कृष्ण गुरुवायुपु... जनमेजय उवाच- शरतल्पेशयानस... दाल्भ्य उवाच- कार्यारंभेष... महादेव उवाच – शृणु देवि प... योगेन सिद्धविबुधैः परिभाव... मयि कुरु मङ्गलमंबुजवासिनि... श्रीवत्सचिह्नमिश्रेभ्यो न... कल्लोलोल्लसितामृताब्धिलहर... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... शृंगाद्रिवासाय विधिप्रिया... त्वमेकः शुद्धोऽसि त्वयि न... नतोऽस्म्यहं त्वाखिलहेतुहे... या माता दुहिता महाजलनिधेर... प्रणवमाते गतित्राते गयःत्... आदिमाते वेदमाते भक्तानुग्... आनन्दसागरस्तवः षडाननस्तुतिः । हरिहस्तुतिः । श्रीविष्णुस्तुतिः । सुदर्शनचक्रस्तुतिः । गरुड़स्तुतिः । शेषस्तुतिः समुद्रस्तुतिः । मत्स्यावतारस्तुतिः । कूर्मावतारस्तुतिः । परशुरामस्तुतिः । श्रीसीतास्तुतिः । श्रीरामकृष्णस्तुतिः । रुक्मिणीस्तुतिः । श्रीकृष्णनन्दकमणिस्तुतिः । श्रीकृष्णवंशीस्तुतिः । बुद्धस्तुतिः । सूर्याश्वस्तुतिः । चन्द्रस्तुतिः । परब्रह्मस्तुतिः । वीणापाणिस्तुतिः । गौरीश्वरस्तुतिः । श्रीशिवजटाजूटस्तुतिः । शिवजटाजूटस्थितशशिलेखास्तुतिः । शिवलोचनस्तुतिः । शिवकण्ठस्तुतिः । शिवशिरोमालिकास्तुतिः । शिवताण्डवस्तुतिः । भवानीस्तुतिः । कमलनयनस्तुतिः । कमलालयास्तुतिः । मीनवपुधारिभगवत्स्तुतिः । श्रीवराहस्तुतिः । श्रीरामस्तुतिः । गोपालस्तुतिः । ऋषीस्तुतिः । ग्रहस्तुतिः । पुण्यजनस्तुतिः । देवीस्तुतिः । सन्ध्यास्तुतिः । श्रीविष्णुस्तुतिः । परब्रह्मस्तुतिः । श्रीशिवस्तुतिः । श्रीशम्भुस्तुतिः । पार्वतीस्तुतिः । श्रीश्रीनाथस्तुतिः । ब्राह्मणस्तुतिः । श्रीराधाकृष्णस्तुतिः । सर्वेषां कल्याणार्थं भगवत्स्तुतिः । गोपालस्तुतिः । गोपालस्तुतिः । भारती स्तुतिः श्रीस्तुतिः - मानातीतप्रथितविभवां मङ्गल... देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते. Tags : praisestutiस्तुति श्री वेदान्तदेशिकविरचितम् Translation - भाषांतर मानातीतप्रथितविभवां मङ्गलं मङ्गलानांवक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानांश्रेयोमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्ये ॥१॥आविर्भावः कलशजलधावध्वरे वापि यस्याःस्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वास्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥२॥स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमानातामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयंसेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥३॥यत् सङ्कल्पात् भवति कमले यत्र देहिन्यमीषांजन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौपूर्णं तेजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥४॥निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायंविष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनांसंपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥५॥उद्देश्यत्वं जननि भजतॊरुझितॊपाधिगन्धंप्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणोनावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥६॥पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देनसार्धंमध्येकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौब्रह्मेशाद्या दधति युवयोरक्षशार प्रचारम् ॥७॥अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दंलक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तॊनावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥८॥त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथंकिंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।त्वत्संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनांभावारूढौ भगवति युवां दैवतं दंपती नः ॥९॥आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोःआचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नां ।प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसेत्वम्दूरेक्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥१०॥धत्ते शोभां हरिमरकते तावकीमूर्तिराद्यातन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-विच्छावेगोल्लसितलहरी विभ्रमं व्यक्तयस्ते ॥११॥आसंसारं विततमखिलं वाङ्मयं यद्विभूतिःयद्भ्रूभङ्गात् कुसुमधनुषः किङ्करो मेरुधन्वा ।यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रःपद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥१२॥अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णांअम्भॊराशेरधिगतसुधासंप्लवादुत्थितां त्वाम् ।पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैःकॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥१३॥आलोक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैःसर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥१४॥आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैःअम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीयातस्यां तस्यामहमहमिकां तन्वते संपदोघाः ॥१५॥योगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तंधर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।तेषां भूमेर्धनपतिगृहादंबरादंबुधॆर्वाधारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥१६॥श्रेयस्कामा कमलनिलये चित्रमाम्नायवाचांचूडापीडं तव पदयुगं चेतसा धारयन्तः ।छत्रछाया सुभगशिरसश्चामरस्मेरपार्श्वाःश्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥१७॥ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।अंब स्तंबावधिक जननग्रामसीमान्तरेखांआलंबन्ते विमलमनसॊ विष्णुकान्ते दयां ते ॥१८॥जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारेमायालीढं विभवमखिलं मन्यमानास्तृणाय ।प्रीत्यै विष्णोस्तवच कृतिनः प्रीतिमन्तॊ भजन्तेवेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥१९॥सेवे देवि त्रिदशमहिलामौलिमालार्चितं तेसिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।यस्मिन्नीषन्नमितशिरसॊयापयित्वा शरीरंवर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥२०॥सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैःअंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।घर्मे तापत्रयविरचिते गाढतप्तं क्षणं मांआकिञ्चन्यग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥२१॥संपद्यन्ते भवभयतमॊभानवस्त्वत् प्रसादात्भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।याचे किं त्वामहमिह यतः शीतलोदारशीलाभूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥२२॥माता देवि त्वमसि भगवान् वासुदेवः पिता मेजातः सॊहं जननि युवयोरेकलक्ष्यं दयायाः ।दत्तॊ युष्मत् परिजनतया देशिकैरप्यतस्त्वंकिं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥२३॥कल्याणानामविकलनिधिः कापि कारुण्यसीमानित्यामॊदा निगमवचसां मौलिमन्दारमाला ।संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मेसैषा देवी सकलभुवनप्रार्थना कामधॆनुः ॥२४॥उपचितगुरुभक्तेरुत्थितं वेङ्कटॆशात्कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।सरसिजनिलयायाः स्तोत्रमेतत् पठन्तःसकलकुशलसीमाः सर्वभौमा भवन्ति ॥ N/A References : N/A Last Updated : February 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP