नित्यं निरावृति निजानुभवैकमानमानन्दधाम जगदंकुरबीजमेकम् ॥
दिग्देशकालकलनादिहतस्तमर्दासहं दिशतु शर्म महन्महो वः ॥१॥
लोकत्रयस्थितिलयोदयकेलिकारः कार्येण यो हरिहरद्रुहिणत्वमेति ॥
देवः स विश्वजनवाङ्मनसातिवृत्तशक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥२॥
सर्वः किलायमवशः पुरुषाणुकर्मकायादिकारणगणो यदनुग्रहेण ॥
विश्वप्रपञ्चरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥३॥
मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मूलति ॥
यत्तत्वं विदुषो निमीलति पुनः सम्भोगिभोगोपमं सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधं महः ॥४॥
विष्णूर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोऽथवा भानुर्वा शशलक्षणोऽथ भगवान्बुद्धोऽथ सिद्धोऽथवा ॥
रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः सर्वैः सह संस्कृतो गुणगणैस्तस्मै नमः सर्वदा ॥५॥
इति श्री पं० युगलकिशोरद्विवेदिसंकलिता परब्रह्मस्तुतिः समाप्ता ।