संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः| धर्मराज नमस्तेऽस्तु साक्ष... स्तुतिः स्तवः धर्मराज नमस्तेऽस्तु साक्ष... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... भज जगदम्बां भज जगदम्बां ज... कञ्जाक्षमुख्यामर पूजिताभ्... करोतु कल्याणपरंपरां नः का... स्मितोद्धूतराकानिशानायकाय... जाड्यवारिधिनिमग्नसुबुद्धे... श्री महालक्ष्मी स्तुतिः श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... नमस्त्रिमूर्तये तुभ्यं प्... संसारपतितस्यैको जन्तोस्त्... इन्द्र उवाच: कृष्ण कृष्ण ... भूमिरापोऽनलो वायुः खं मनो... सन्मात्ररूपिणेऽचिन्त्यमहि... नमस्ते पुण्डरीकाक्ष नमस्त... शङ्खचक्रगदापाणॆ! द्वरकानि... नमःशिवायै गंगायै शिवदायै ... स्फुटं स्फटिकसप्रभं स्फुट... सर्वमार्गेषु नष्टेषु कलौ ... नमो देव्यै प्रकृत्यै च वि... साम्बो नः कुलदैवतं पशुपते... अथ कथमपि मद्रसनां त्वद्गु... योऽन्तः प्रविश्य मम वाचमि... मानातीतप्रथितविभवां मङ्गल... नमामि भक्तवत्सलं कृपालुशी... भीष्म उवाच इति मतिरुपकल्प... किं नाहं पुत्रस्तव मातुः ... बालस्तरुणभक्तौ च वीरश्शक्... जननी मृगयतु मामित्याच्छाद... क्षमस्व भगवत्यंब क्षमाशील... कल्याणवृष्टिभिरिवामृतपूरि... नारद उवाच ध्यात्वा गणपतिं... कल्याणायुतपूर्णचन्द्रवदना... सञ्चितयामि गुरुवायुपुरेश,... करोतु पदविन्यासान्कमलासनक... श्रीकण्ठतनय श्रीश श्रीकर ... ओङ्कारवेद्यः पुरुषः पुराण... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... उत्थिष्ठ कृष्ण गुरुवायुपु... जनमेजय उवाच- शरतल्पेशयानस... दाल्भ्य उवाच- कार्यारंभेष... महादेव उवाच – शृणु देवि प... योगेन सिद्धविबुधैः परिभाव... मयि कुरु मङ्गलमंबुजवासिनि... श्रीवत्सचिह्नमिश्रेभ्यो न... कल्लोलोल्लसितामृताब्धिलहर... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... शृंगाद्रिवासाय विधिप्रिया... त्वमेकः शुद्धोऽसि त्वयि न... नतोऽस्म्यहं त्वाखिलहेतुहे... या माता दुहिता महाजलनिधेर... प्रणवमाते गतित्राते गयःत्... आदिमाते वेदमाते भक्तानुग्... आनन्दसागरस्तवः षडाननस्तुतिः । हरिहस्तुतिः । श्रीविष्णुस्तुतिः । सुदर्शनचक्रस्तुतिः । गरुड़स्तुतिः । शेषस्तुतिः समुद्रस्तुतिः । मत्स्यावतारस्तुतिः । कूर्मावतारस्तुतिः । परशुरामस्तुतिः । श्रीसीतास्तुतिः । श्रीरामकृष्णस्तुतिः । रुक्मिणीस्तुतिः । श्रीकृष्णनन्दकमणिस्तुतिः । श्रीकृष्णवंशीस्तुतिः । बुद्धस्तुतिः । सूर्याश्वस्तुतिः । चन्द्रस्तुतिः । परब्रह्मस्तुतिः । वीणापाणिस्तुतिः । गौरीश्वरस्तुतिः । श्रीशिवजटाजूटस्तुतिः । शिवजटाजूटस्थितशशिलेखास्तुतिः । शिवलोचनस्तुतिः । शिवकण्ठस्तुतिः । शिवशिरोमालिकास्तुतिः । शिवताण्डवस्तुतिः । भवानीस्तुतिः । कमलनयनस्तुतिः । कमलालयास्तुतिः । मीनवपुधारिभगवत्स्तुतिः । श्रीवराहस्तुतिः । श्रीरामस्तुतिः । गोपालस्तुतिः । ऋषीस्तुतिः । ग्रहस्तुतिः । पुण्यजनस्तुतिः । देवीस्तुतिः । सन्ध्यास्तुतिः । श्रीविष्णुस्तुतिः । परब्रह्मस्तुतिः । श्रीशिवस्तुतिः । श्रीशम्भुस्तुतिः । पार्वतीस्तुतिः । श्रीश्रीनाथस्तुतिः । ब्राह्मणस्तुतिः । श्रीराधाकृष्णस्तुतिः । सर्वेषां कल्याणार्थं भगवत्स्तुतिः । गोपालस्तुतिः । गोपालस्तुतिः । भारती स्तुतिः श्रीयमस्तुति - धर्मराज नमस्तेऽस्तु साक्ष... देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते. Tags : praisestutiस्तुति श्रीयमस्तुति Translation - भाषांतर धर्मराज नमस्तेऽस्तु साक्षाद्धर्मस्वरूपिणे ।धर्मिष्ठ शान्तरूपाय सत्यरूप नमो नमः ॥१॥यमाय मृत्यवे तुभ्यं कालाय च नमो नमः ।सूर्यपुत्र नमस्तेऽस्तु सर्वभूतक्षयाय ते ॥२॥साधूनां पितृतुल्याय वचनामृतदायिने ।कटकाङ्कितकेयूर हारनूपुरधारिणे ॥३॥दूरादेव सतो दृष्ट्वा दुराचाराद्यविप्लुतान् ।अर्चते गन्ध पुष्पाद्यैः प्रत्युत्थानासनार्हणैः ॥४॥मध्यस्थाय नमस्तुभ्यं तत्त्वज्ञाय नमो नमः ।ददते निज सर्वस्वं साधूनां समदर्शिनाम् ॥५॥देवदेव नमस्तुभ्यं वेदवेदान्त वेदिने ।सत्कृतत्संकृतं पूर्वं जातं पाथेयमत्यवः ॥६॥स्वर्लोकान्गच्छत क्षिप्रमिति संप्रियवादिने ।नमस्ते पितृरूपाय भक्तानामभयंकर ॥७॥कमलाकान्तभक्ताय कमलोदरचक्षुषे ।मलोद्भव भव्याय कमलाभासक त्विषे ॥८॥नमो लावण्यनिधये कारुण्यवचनालय ।पापिनां घोररूपाय गर्जते दुर्जनाग्रतः ॥९॥दंष्ट्राकराल भ्रुकुटी भीषणानन ते नमः।ऊर्ध्वरोम्णे महारोम्णे दीर्घरोम्णे नमो नमः ॥१०॥घण्टारव महाचण्ड कालदण्डाय चण्डिने ।दण्ड्यान् दण्डयते नित्यमुग्रदण्डाय ते नमः ॥११॥कोदण्ड कालदण्डाऽसिपरश्वध वरायुधान् ।धारिणे मारिणे लोकान् पुण्यराशिस्वरूपिणे ॥१२॥ग्रहणे सर्वलोकानां जागरूकाधिकारिणे ।दिव्यज्ञानप्रशस्ताय समस्ताङ्गायते नमः ॥१३ ॥समस्तलोकवन्द्याय समस्तस्तोत्ररूपिणे ।कालाम्बुदमहानील महावृषभवाहन ॥१४॥कल्पानल महाकील ज्वलल्लोचन ते नमः ।भयंकराय पापानां अभयाय सुधर्मिणाम् ॥१५॥द्रवत्सुधांशु संपूर्णचन्द्रास्याय नमो नमः ।प्रलयांबुदनिर्घोषभीषयित्रेऽहदर्शिने ॥१६॥गोभ्यां करुण्यपूर्णाभ्यां पश्यते सुकृतात्मनाम् ।तत्त्वाय तत्त्वरूपाय तत्त्वदृष्टे नमोनमः ॥१७॥अतीवगर्जत्प्रलयाम्बुदध्वनिप्रमूर्च्छिताऽशेषदिगंतराय ।छिन्धीति भिन्धीति च चूर्णतेऽसतो वीक्ष्य विभो नमस्ते ॥१८॥करालकायाऽतिकठोरवाचा पापिष्ठसंघं भृशभीषयित्रे ।ज्वलद्युगान्तोद्यमबाडवाग्निसमोर्ध्वरोम्णे परपीडकानाम् ॥१९॥विषोल्बणा भीषण कृष्णसर्प दण्डाभिघाताघि विमोहयित्रे ।साधुमित्रायते शश्वन्मित्रपुत्रायते नमः ॥२०॥शान्तगात्राय शान्तानां मेरुगोत्रसमञ्जसे ।पूजामात्रातितुष्टाय भक्ताभीष्टप्रदायिने ॥२१॥शिपिविष्ट नमस्तेऽस्तु नमस्ते परमेष्ठिने ।वाचा प्रीणयते साधून् पूज्यान् पूजयते नमः ॥२२॥प्रदात्रे साधु सल्लोकं अपहर्त्रे सतां भयम् ।धर्मशास्त्रस्वरूपाय न्यायशास्त्रार्थचक्षुषे ॥२३॥वृकोदर नमस्तुभ्यं यमुना सोदराय च ।यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥२४॥वैवस्वताय कालाय सर्वभूतक्षयाय च ।औदुंबराय दध्नाय नीलाय परमेष्ठिने ॥२५॥वृकोदराय चित्राय चित्रगुप्ताय ते नमः।भूयो भूयो नमस्तुभ्यं भक्तरक्षगते नमः ॥२६॥ N/A References : N/A Last Updated : February 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP