संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
शिवलोचनस्तुतिः ।

स्तुतिः - शिवलोचनस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियप्रणतौ ॥

धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥१॥

सानन्दा गणनायके सपुलका गौरीमुखाम्भोरुहे सक्रोधा कुसुमायुघे सकरुणा पादानते वज्रिणि ॥

सस्मेरा गिरिजासखीषु सनया शैलाधिनाथे वहन्भूमीन्द्रं प्रदिशन्तु शर्म विपुलं शम्भोः कटाक्षच्छटाः ॥२॥

एकं ध्याननिंमिलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे श्रृङ्गारभारालसम् ॥

अन्यद्‍दुरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रर्य पातु वः ॥३॥

पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्न्नः समूहो यस्मिन् ब्रह्माण्डमीषदिधटितमुकुले कालयज्वा जुहाव ॥

अर्चिर्निष्टप्तचूडाशशिगलितसुधाघोरझंकारकोणं तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥४॥

इति शिवलोचनस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP