विप्रो वृक्षस्तस्य मूलं च संध्या वेदाः शाखा धर्मकर्माभिपत्रे ॥
तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥१॥
ॐकारप्रौढमूलः क्रमपदसहितश्छंदविस्तीर्णशाखो ऋक्पत्रः सामपुष्पो यजुरधिक फलोऽथर्वगंधं दधानः ॥
यज्ञच्छायासमेतो द्विजमधुपगणैः सेव्यमानः प्रभाते मध्ये सायं त्रिकालं सुचरितचरितः पातु वो वेदवृक्षः ॥२॥
स्वकाले सेविता नित्यं सन्ध्या कामदुधा भवेत् ।
अकाले सेविता या च सन्ध्या वन्ध्यायवधूरिव ॥३॥
इति सन्ध्यास्तुतिः ।