स्तुतिः - श्रीशिवजटाजूटस्तुतिः ।
देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.
स धूर्जटिजटाजूटो जायतां विजयायः वः ॥
यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी ॥१॥
चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः ॥
पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवो भूतेशस्य भुजंगवल्लिवलयस्त्रङ्नद्धजूटा जटाः ॥२॥
गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखारत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः ॥
आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा नाल्पं कल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटैः ॥३॥
इति शिवजटाजूटस्तुतिः ।
N/A
References : N/A
Last Updated : February 27, 2008

TOP