संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कल्याणायुतपूर्णचन्द्रवदना...

राजराजेश्वरीमन्त्रमातृकास्तवम् - कल्याणायुतपूर्णचन्द्रवदना...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
संपूर्णां परमोत्तमामृतकलांविद्यावतीं भारतीं
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम् ॥१॥

ईकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीं
चैतन्यात्मकचक्रराजनिलयां चक्रान्तसंचारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणीं
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम् ॥२॥

ईशाधिक्परयोगिवृन्दविदितां स्वानन्दभूतां परां
पश्यन्तीं तनुमध्यमां विलसिनीं श्री वैखरीरूपिणीम् ।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिपीठात्मिकां
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम् ॥३ ॥

ल्क्ष्यालक्ष्यनिरीक्षणां निरुपमां रुद्राक्षमालाधरां
त्र्यक्षाराकृति दक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।
भद्रां भद्रवरप्रदां भगवतीं पद्मेश्वरीं मुद्रिणीं
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम् ॥४॥

ह्रींबीजागतनादबिंदुभरितां ओंकारनादात्मिकां
ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।
इच्छाज्ञानकृतीं महीं गतवतीं गन्धर्वसंसेवितां
श्रीचक्रप्रियबिंदुतर्पणपरां श्रीराजराजेश्वरीम् ॥५॥

हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णितां
हूंकारप्रियशब्दजालनिरताम् सारस्वतोल्लासिनीम् ।
सारासारविचारचारुचतुराम् वर्णाश्रमाकारिणीं
श्रीचक्रप्रियबिन्दुतर्पणपराम् श्रीराजराजेश्वरीम् ॥६॥

सर्वेशां नगविहारिणीम् सकरुणां सन्नादिनीं नादिनीं
संयोगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम्
सर्वान्तर्गतिशालिनीं शिवतनुं सन्दीपिनीं दीपिनीं
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥७॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
कारुण्याम्बुधि सर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।
पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्वितां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥८॥

हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानतां
हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।
योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥९॥

लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थितां
लाक्षारञ्जितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् ।
लोकालोकितलोककामजननीं लोकाश्रयांकस्थितां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१०॥

ह्रींकारास्यतशंकरप्रियतमां श्रीयोगपीठेश्वरीं
माङ्गल्यायुतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।
कारुण्येन विशेषितां सुमहालावण्यसंशोभितां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥११॥

सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां
सत्यां सर्वमयीं सहस्रदलजां सत्वान्नमोपस्थिताम् ।
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१२॥

कादि़क्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभितां
नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणीम् ।
चित्रानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१३॥

लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठाश्रितां
सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१४॥

ह्रीं कूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं
वामाचारपरायणीं सुकुलजां बीजावतीं मुद्रिणीम् ।
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीं त्रिमूर्त्यादिकां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१५॥

या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
या ब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी ।
या पञ्चप्रणवादिरेफनलिनी याचित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥१६॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP