अहिर्बुध्नसंहिता - अध्यायः ३६

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


राज्ञां सुदर्शनयन्त्राराधनविधानकेशवादिगुणप्रधानभावव्यवस्थापनं नाम षट्त्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

सौदर्शनयन्त्रस्य पूर्वापराङ्गध्यानार्चनप्रकारप्रश्नः
नारदः---
भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम्।
प्रवर्तकास्तथा मन्त्रास्तथैव च निवर्तकाः ॥१॥
एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा।
सौदर्शनं महायन्त्रमर्चनीयं महात्मभिः ॥२॥
उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः।
राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् ॥३॥
उभयं चास्य यन्त्रस्य मुखमाराधयेदिति।
कथमस्यापराङ्गं च ध्यायेत् कुर्याच्च वा कथम् ॥४॥
छेत्तुमर्हसि संदेहमिमं मम महेश्वर।

तदुत्तरकथनम्
अहिर्बुध्न्यः----
एवं ध्यात्वार्चयेद्राजा यन्त्रमेतन्महाद्युति ॥५॥
तत्र पूर्वाङ्गे यन्त्रमध्ये सुदर्शनध्यानम्
यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम्।
ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् ॥६॥
तिष्ठन्तमष्ठभिर्युक्तं भुजैः परमशौभनैः।
चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः ॥७॥
समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम्।
शङ्खचक्राब्जमुसलपाशाङ्कुशगदाधरम् ॥८॥
सर्वाभरणसंयुक्तं पुष्पमालाविभूषितम् ।
परितः केशवादिद्वादशमूर्तिध्यानम्
सुदर्शनमिमं ध्यात्वा परितश्चिन्तयेत् ततः ॥९॥
तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान्।
उक्तेनैव प्रकारेण भूषणैरायुधैर्युतात् ॥१०॥
प्रधानभूतान् परमान् यथाकामनिवेशितान्।

ततो विष्णवादिषोडशमूर्तिध्यानम्
ततः षोडशभिर्देवैर्विष्ण्वाद्यैरायुधान्वितैः ॥११॥
मूर्तिमद्भिश्च सोद्योगैः सर्वाभरणसंयुतैः ।
एतैः पञ्जरितं ध्यायेद्यन्त्रराजमनुत्तमम् ॥१२॥

परितो मूर्तिमत्संहारास्त्रध्यानम्
परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च।
संहारास्त्रणि सर्वाणि साञ्जलीन्यद्भुतानि च ॥१३॥
अकुतोभयशालीनि शक्तिमन्ति समन्ततः।
ततो मूर्तिमत्प्रवर्तकास्त्रध्यानम्
ततः प्रवर्तकान्येवं ध्यायीतास्त्राणि नारद ॥१४॥
मूर्तान्यत्तुमिवाशेषभुवनान्युज्ज्वलानि च।
ततो नारसिंहध्यानम्
एवं चक्रक्रमेणैतदभिध्यायोपरि स्मरेत् ॥१५॥
दधानं नारसिंहस्य वपुर्नारायणं परम्।
मूलकोशं परं देवमधोभागेऽथ चिन्तयेत् ॥१६॥
यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिस्मन्वितम्।
नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् ॥१७॥
चक्रकौमोदकीशार्ङ्गखङ्गहस्तान् स्मरेत् क्रमात्।
एवमेकमुखं ध्यायेद्यन्त्रधस्यास्य महाद्युतेः ॥१८॥
अपराङ्गध्यानम्
अपराङ्गं महामन्त्रैः सर्वतः समलंकृतम्।

अन्तस्तारं समारभ्य यदि वा विष्णुपञ्जरम् ॥१९॥
पूर्वोक्तं तद्विना मूर्तिस्तत्तन्मन्त्रसुमुच्चयम्।
अपराङ्गे सर्वास्त्राणां मन्त्रमात्रध्यानम्
यथास्थानं स्मरेत् तस्य पर्यन्ते चिन्तयेत् ततः ॥२०॥
सर्वसंहरणास्त्राणां मन्त्रानेव च केवलम्।
तदनन्तरमन्येषामस्त्राणां च प्रवर्तकम् ॥२१॥
मन्त्रजालमभिध्याय सुनेमि सुरपूजितम्।
महायन्त्रं महाशक्ति चक्ररूपमनुत्तमम् ॥२२॥
उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम्।
अस्य चक्रस्य मध्ये यद्वर्तते पुरुषः परः ॥२३॥
तस्मान्निगद्यते लोके चक्रवर्तीति सूरिभिः।
एतद्यन्त्राभ्यर्चनाद्राज्ञां चक्रवर्तित्वलाभः
तस्मादभ्यर्चयेदेतद्यो राजा भक्तिसंयुतः ॥२४॥
सोऽचिरेणैव कालेन चक्रवर्तित्वमाप्नुयात्।
अन्यैरपि राजहितैषिभिरेतदर्चनं कार्यम्
राजा वा राजभृत्या वा मन्त्रिणो वाथवा परे ॥२५॥
राज्ञां हितैषिणः सर्वे पूजयेयुरिदं परम्।
अन्येषामपि श्रीकामानामेतदभ्यर्चनम्
अन्ये च ये तु विपुलां श्रियमिच्छन्ति मानवाः ॥२६॥
तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम्।
राज्ञामेव विशेषेण यदेतत् समुदीरितम् ॥२७॥
तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः।
तेषां विभूतिर्महती राज्ञा संपत्स्यते ध्रुवम् ॥२८॥
लोहैर्वा शिलया वापि यो हि निर्माय पूजयते।
विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति ॥२९॥
आरोग्यं चाश्नुते सर्वे तद्वंश्या दीर्घजीविनः।
द्विमुखयन्त्रार्चने मन्त्रोपदेष्टुर्ब्राह्मणस्यैवाधिकारः
परं मन्त्रोपदेष्टैव ब्राह्मणो द्विमुखं यजेत् ॥३०॥
ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः।
स एव शक्नुयात् तस्य प्रभावं परमं मुने ॥३१॥
आदित्यमण्डलाक्ष्यादिस्थानां पुरुषाणामभिन्नत्वम्
योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः।
हिरण्मयो य एवान्तरक्षिण्यपि च दृश्यते ॥३२॥
सोऽप्ययं नाभिचक्रस्य मध्ये यो वर्तते पुमान्।
तस्यैव कालचक्रादिप्रवर्तकत्वम्
योऽयं कालाख्यचक्रस्य प्रेरकः पुरुषोऽव्ययः ॥३३॥

युगचक्रस्य नेतारमेनमेव विदुर्बुधाः।
एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् ॥३४॥
विमाने संस्थाप्य तस्यैव समभ्यर्चनमैहिकामुष्मिकफलसाधकम्
सर्वलोकैककर्तारं१ सर्वलोकैकसाक्षिणम्।
एनं विमाने संस्थाप्य चक्रवर्तिनमव्ययम् ॥३५॥
यः पूजयति तस्यायं लोकश्चामुष्मिको भवेत्।
विमानकरणारम्भस्यापि महाफलकत्वम्
सुदर्शनविमानं यः प्रारभेत् महामुने ॥३६॥
इह सर्वानवाप्यार्थान् विष्णुलोकं स यास्यति।
विमानकरणार्थस्य कर्षणस्यापि सर्वसंपत्साधनत्वम्
सुदर्शनविमानस्य कर्षणं यः करोति वै ॥३७॥
तस्यामित्रा विनश्यन्ति सन्ति सर्वाश्च संपदः।
आरब्धापरिसमाप्तस्यापि विमानकरणस्यान्ततो मुक्तिसाधनता
आरभ्यायतनं मध्ये विच्छित्त्या विघ्नितो यदि ॥३८॥
स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले।
पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति ॥३९॥
अन्ते वैकुण्ठमासाद्य विष्णुसायुज्यमाप्नुयात्।

साङ्गप्रतिष्ठादिकर्तुः फलपरंपरानिरूपणम्
विमानं परमं कृत्वा प्रतिष्ठाप्य सुदर्शनम् ॥४०॥
ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान्।
तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः ॥४१॥
पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान्।
नित्यं योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् ॥४२॥
तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते।
नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः ॥४३॥
जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम्।
भुक्त्वा कालेन महता तदनन्तरजन्मनि ॥४४॥
त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम्।
ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः ॥४५॥
तदन्ते परमं धाम वैष्णवं प्रतिपद्यते।
सुदर्शनपुरुषमनाराधयतो नृपत्वं दुर्लभम्
देवमेनमनाराध्य न कश्चिज्जायते नृपः ॥४६॥
एतदाराधनतारतम्यात् फलतारतम्यम्
एतदाराधनस्यैव तारतम्येन नारद।
भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् ॥४७॥
तस्माद्राज्ञामन्येषां चैतदाराधनावश्यकता
तस्मात् सर्वप्रयत्नेन राजैवैनं समर्चयेत्।

जात्यायुर्भोगकामाश्च ये चान्ये भुवि मानवाः ॥४८॥
तेऽप्येतत्पूजया सर्वं काङ्क्षितं प्राप्नुवन्ति च।
शेषिणः केशवादेः शेषभूतं सुदर्शनं प्रतिपरिवारतादिकथंताप्रश्नः
नारदः---
सिद्धं सुदर्शनं विष्णोः शेषमायुधसंज्ञितम् ॥४९॥
कथमस्य परीवाराः केशवाद्याः समीरिताः।
विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः ॥५०॥
कथं वा भगवन्मन्त्राः परिवारत्वमागताः।
इमं च संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥५१॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
श्रुणु तात महाप्राज्ञ रहस्यमिदमुत्तमम्।
त्वदृते शक्नुयात् प्रष्टुमिमर्थं न कश्चन ॥५२॥
भगवत इव तत्संकल्परूपस्य सुदर्शनस्याप्यनादित्वापरिच्छेद्यत्वे
यथा नारायणो देवः पुरुषः पुष्करेक्षणः।
अनादिरपरिच्छेद्यस्तथायमपि नारद ॥५३॥
तदुपपादनाय परमात्मशक्तेर्द्वेधा विभागः
द्वे शक्ती तस्य विद्यते विष्णोः सर्वार्थसाधने।
प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् ॥५४॥

एका त्विच्छात्मिका तस्य तथान्या तु क्रियात्मिका।
तत्रेच्छारूपिण्याः शक्तेर्लक्ष्मीरूपत्वम्
प्रथमा परमा लक्ष्मीर्जगत्त्रातुः कुटुन्बिनी ॥५५॥
क्रियारूपायाः शक्तेः सुदर्शनरूपत्वम्
तत्त्वविद्भिरिदं प्रोक्तं द्वितीयेह सुदर्शनम्।
ताभ्यां शक्तिभ्यां विना भगवतोऽप्यकिंचित्करत्वम्
तस्माल्लक्ष्म्या विना देवः संकल्पे न प्रभुर्हरिः ॥५६॥
अनेनापि विना कर्तुं किंचिन्नार्हति केशवः।
तस्य शक्तिद्वयस्य सृष्टिस्थितिसंहाराद्युपकरणत्वम्
अनेन सर्वं सृजति देवोऽनेनैव पाति च ॥५७॥
अनेन संहृतिं देवो विश्वस्यान्ते करोति च।
अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः ॥५८॥
क्रियतेऽनेन तत्कर्म सर्वं सर्वगतेन वै।
रक्षकं परमात्मानं प्रति शक्तिद्वयस्यापि रक्ष्यकोट्यन्तर्भावः।
तस्मात् सर्वात्मना चैनं स्वबुद्ध्या परिरक्षति ॥५९॥
विशिष्य लक्ष्म्या अपि रक्ष्यकोट्यन्तर्भावप्रतिपादनम्
यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि।
एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् ॥६०॥
चतुर्धा व्यूह्य चात्मानं स्वभूतां परिरक्षति।

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP