अहिर्बुध्नसंहिता - अध्यायः १
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
श्रीपाञ्चरात्रे अहिर्बुध्न्यसंहिता
शास्त्रावतारो नाम प्रथमोध्यायः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्रोपशान्तये॥
मङ्गलाचरणम्
अक्षरत्रितयाव्यक्तविकाराक्षादिरूपिणे।
परव्यूहादितत्त्वाय नमश्चक्राय चक्रिणे ॥१॥
सोमसूर्यानलाकल्पामकल्पामिन्दुशेखराम्।
पञ्चबिन्दुं हरेः शक्तिं पञ्चकृत्यकरीं नुमः ॥२॥
भरद्वाजस्य दुर्वाससं प्रति सुदर्शनमाहात्म्यकारणप्रश्नः
आप्लुतं दिव्यगङ्गायामुपासीनं परं पदम्।
भरद्वाजोऽथ पप्रच्छ दुर्वाससमकल्मषम् ॥३॥
भरद्वाजः---
अनसूयाहृदानन्द भगवंस्तपसां निधे।
अस्ति मे संशयः कश्चित् तं मे व्याख्यातुमर्हसि ॥४॥
अग्नीषोमक्रियायोगिन्याथर्वणविनिर्णये।
महोदयेऽस्त्रसंघे च प्रवर्तकनिवर्तके ॥५॥
लोकपालास्त्रसंघे च तत्तत्सामर्थ्यसंभृते।
महोदयासु शक्तीषु वह्निसूर्येन्दुवर्त्मनाम् ॥६॥
अस्त्राश्रये च शस्त्रौधे ब्रह्मरुद्रादिनिर्मिते।
त्रैलोक्यत्राणसंहारजनिकर्मविचक्षणे ॥७॥
महर्षिगणसंदृष्टे मन्त्रग्रामे महोदये।
वैष्णवे च गदाशार्ङ्गशङ्खखड्गादिपूर्वके ॥८॥
लाक्ष्मे च दलगण्डाब्जपूर्वेस्त्रौघे महोदये।
अन्यत्रोच्चावचेऽप्येवं कीर्त्यमाने प्रभावतः ॥९॥
सुदर्शनाश्रयत्वं तु तत्र तत्र निरूपितम्।
किंकृतं तस्य माहात्म्यं स्वतः संसर्गतोऽपि वा ॥१०॥
किं तत् सुदर्शनं नाम कश्च शब्दार्थ इष्यते।
तेन किं क्रियते कर्म जगद् व्याप्नोति तत् कथम् ॥११॥
कियन्तः कीदृशाः के च व्यूहास्तस्योदिता मुने।
प्रयोजनं च किं तेषां व्यूही तेषां च कीदृशी ॥१२॥
विष्णुना तस्य संबन्धः कश्च कीदृक् च संमतः।
किं तेन नियतं नित्यमुतान्यत्रापि दृश्यते ॥१३॥
एष मे संशयो जातो नानाशास्त्रनिरीक्षणात्।
छिन्द्ध्येनं भगवन् सम्यगुपसन्नोऽस्म्यधीहि भोः ॥१४॥
दुर्वाससः प्रश्नप्रशंसापूर्वकं तत्प्रतिवचनम्
दुर्वासाः---
उपपन्नमिदं वत्स यत् त्वयैवं विमृश्यते।
तानि तानि तपांस्यद्य व्युच्छन्ति तव सुव्रत ॥१५॥
पक्वकषायस्यैव परतत्त्वजिज्ञासोदयः
आन्तः करणिके तैस्तैः क्षयं नीते कषायके।
मनीषा जायते पुंसां परतत्त्वविमर्शिनी ॥१६॥
अत्र ब्रह्मादीनामपि संशयः
न संशयी भवानेव पूर्वोपन्यस्तवस्तुनि।
ब्रह्माद्याश्च यतन्तेऽत्र संशयाना मनीषिणः ॥१७॥
स्वस्याहिर्बुध्न्यात् तत्त्वनिर्णयप्राप्तिः
निर्णयोऽत्र मया प्राप्तो नारदाय सुरर्षये।
साक्षात् कथयतः पृष्टाच्छंकराल्लोकशंकरात् ॥१८॥
नारदस्योत्कर्षः
प्राप्याग्र्यां तपसो व्युष्टिं नारदो देवसंमतः ।
छिन्दानः संशयान् सर्वान् ब्रह्मदेवमहर्षिषु ॥१९॥
तस्यापि तत्त्वविषयसंदेहादहिर्बुध्न्याभिगमनम्
स्वयं तु संशयं प्राप्य गहनं दुर्विदं सुरैः।
अरागरोगकलुषस्तपस्वी संयतेन्द्रियः ॥२०॥
पदवाक्यप्रमाणानां याथातथ्यविधानवित्।
ब्रह्मचारी दमावासः परापरविभागवित् ॥२१॥
शुश्रूषूरनहंवादी यथार्थज्ञानतत्परः।
नारदो मुनिशार्दूलस्त्रीन् लोकाननुसंचरन् ॥२२॥
छेत्तारं संशयस्यास्य दुर्विदस्य सुरर्षिभिः
देवादनभिगम्यान्यं सर्वज्ञाच्चन्द्रशेखरात् ॥२३॥
कैलासवर्णनम्
प्रभाभिः स्वाभिरखिलान् प्रहसन्तमिवाचलान्।
उन्मेषमिव सत्त्वस्य प्रकृष्टज्ञानकारिणः ॥२४॥
सिद्धविद्याधराकीर्णं देवगन्धर्वसेवितम्।
कैलासं शंकरावासं शंकरं द्रष्टुमाययौ ॥२५॥
अहिर्बुध्न्यवर्णनम्
रुद्रैर्वसुभिरादित्यैः सिद्धैः साध्यैर्मरुद्गणैः।
ऋषिभिर्योगिभिर्दिव्यैर्भूतैर्नानाविधैरपि ॥२६॥
ददर्श सेवितं तत्र समासीनं सहोमया।
त्र्यक्षं वरदमीशानं शूलिनं चन्द्रशेखरम् ॥२७॥
पतिं पशूनामनिशं भवपाशविभेदिनम्।
स्थितं मूर्तिभिरष्टाभिरवष्टभ्य जगत्त्रयम् ॥२८॥
तं दृष्ट्वा देवमीशानं नारदो देवदर्शनः
प्रणिपत्याथ तुष्टाव गीर्भिरग्र्याभिरादरात् ॥२९॥
नारदकृताहिर्बुध्न्यस्तुतिः
नारदः--
नमस्ते देवदेवेश नमस्ते वृषकेतन।
वृषप्रवरवाहाय वृष्णे कामप्रवर्षिणे ॥३०॥
ओजीयसे परस्मै ते मीढुष्टम नमोऽस्तु ते।
सर्वज्ञाय स्वतन्त्राय नित्यतृप्ताय ते नमः ॥३१॥
अनादिबोधरूपाय नमस्ते नित्यशक्तये।
कर्त्रे हर्त्रे च जगतां षडङ्गाय नमोस्तु ते ॥३२॥
दशाव्यय नमस्तुभ्यं नमस्ते कृत्तिवाससे।
अघोरायाथ घोराय घोरघोरतराय च ॥३३॥
सद्योजाताय देवाय वामदेवाय ते नमः।
नमो ज्येष्ठाय रुद्राय भवोद्भव नमोऽस्तु ते ॥३४॥
नमो बलविकाराय बलप्रमथनाय ते।
नमः...............य ते नमः] ॥३५॥
नमः कलविकाराय कालाय कलनात्मने।
नमस्ते सर्वभूतानां दमनाय मनोन्मन ॥३६॥
नमः शर्वाय शान्ताय शंभवे शंभवे नमः।
विद्येश्वर नमस्तुभ्यं भूतेश्वर नमोऽस्तु ते ॥३७॥
महादेव नमस्तेऽस्तु नमस्तत्पुरुषाय ते।
ज्ञानरूप नमस्तुभ्यं नमो वैराग्यवारिधे ॥३८॥
ऐश्वर्यगुणपूर्णाय नमस्ते तपसां निधे।
नित्यसत्य नमस्तेऽस्तु क्षमासार नमोऽस्तु ते ॥३९॥
धृतिसार नमस्तुभ्यं स्रष्ट्रे ते जगतां नमः।
आत्मसंबोधपूर्णाय त्रीन् लोकानधितिष्ठते ॥४०॥
दशाव्ययाय ते नित्यमव्ययाय नमो नमः।
क्षोण्यम्ब्वनलवाय्वभ्रचन्द्रादित्यात्मने नमः ॥४१॥
नमः सर्वोपकाराय त्रिलोकीमधितस्थुषे।
दुर्वासाः--
इति स्तुवानमग्र्याभिर्वाग्भिर्देवर्षिसत्तमम् ॥४२॥
प्रसादमधुरं वाक्यमित्युवाच वृषध्वजः
अहिर्बुध्न्यः----
स्तोत्रेणानेन भक्त्या च तुष्टोऽस्मि मुनिपुंगव ॥४३॥
ब्रूहि किं करवाण्यद्य यद्यपि स्यात् सुदुर्लभम् ।
नारदः-----
किमन्यदिह वक्तव्यं यदि तुष्टो जगत्पतिः ॥४४॥
एतदेव हरि काड्क्षन्ति यतमाना विपश्चितः।
अहिर्बुध्न्यः----
प्रसन्नोऽस्मि तवाद्यास्तु दर्शनं सफलं मम ॥४५॥
ब्रूहि नारद तत्त्वेन यत् ते मनसि वर्तते।
कालनेमिसंग्रामे नारदस्य सुदर्शनमहिमदर्शनम्
नारदः----
तारकामयसंकाशे संग्रामे कालनेमिनः ॥४६॥
संप्रवृत्ते जगद्धातुर्देवदेवस्य शार्ङ्गिणः।
देवदानवगन्धर्वयक्षरक्षोभयावहे ॥४७॥
मध्याह्नार्कसहस्राभशस्त्रास्त्रगणसंकुले।
सुरासुरेन्द्रसैन्येषु निकृतेषु महास्त्रतः ॥४८॥
भीतविस्मितसंभूतहृतसंगतसंप्लुतैः।
पिशाचप्रेतवेतालभूतसंघैः समाकुले ॥४९॥
उद्यन्तीष्वतिघोरासु ह्रादिनीष्वशनीषु च।
देवदानवदेहेभ्यः क्षरद्भिः क्षतजैस्तथा ॥५०॥
स्यन्दमानासु वेगेन स्यन्दिनीषु समन्ततः।
विद्रुतैः सर्वतो भीतैर्हतशेषैः सुरासुरैः ॥५१॥
गरुडस्थे जगन्नाथे सुदर्शनकराम्बुजे।
प्रादुश्चक्रे कालनेमिरस्त्रग्रामानशेषतः ॥५२॥
भृशाश्वतनया ये ते ये ते त्वन्मुखनिः सृताः।
ये ते ब्रह्ममुखोद्भूता ये ते संवर्तकालजाः ॥५३॥
लोकपालोद्भवा ये ते ये ते पातालवासिनः।
महाभूतमया ये ते ये ते वैकारिकोद्भवाः ॥५४॥
गुणत्रयमया ये ते ये ते गन्धर्वयोनयः
३रक्षोयक्षोद्भवा ये ते ये ते विद्याधराह्वयाः ॥५५॥
ये ते द्वन्द्वगुणोद्भूता ये ते शक्तिसमुद्भवाः।
अथर्वाङ्गिरसा ये ते ये ते मन्त्रान्तरोद्भवाः ॥५६॥
सर्वकार्यकरा ये ते प्रवर्तकनिवर्तकाः।
यष्टयः शक्तयो यास्ता ये ते दण्डादिरूपकाः ॥५७॥
महाबला महावीर्यास्त्रैलोक्यक्षपणोद्यताः।
शैलेन्द्रसंनिभाः केचित् केचिन्नागेन्द्रसंनिभाः ॥५८॥
पारावारनिभाः केचित् केचिद् गगनसंनिभाः।
ज्वलज्ज्वालाशतलीढा रोदसीमध्यवर्तिनः ॥५९॥
नृत्यन्तश्च हसन्तश्च क्ष्वेलन्तः पतयालवः।
अनिर्देश्या अनोपम्या गौराः श्वेतारुणासिताः ॥६०॥
नानासंस्थानवर्णाश्च नानाविभ्रमरोचिषः।
सर्वे संभूय संयत्ताः कालनेमिप्रचोदिताः ॥६१॥
सर्वास्त्राणां सुदर्शनेन पराभवः
सप्रयोगोपसंहारैः सरहस्यैश्च संगतैः।
अस्त्रग्रामैरशेषैस्तैर्नारायणकरोद्यते ॥६२॥
सुदर्शनमहावह्नौ संभूय शलभायितम्।
पूर्णाहुतिरभूत् तस्मिन् कालनेमिर्महासुरः ॥६३॥
अत्यद्भुतमहिमदर्शनात् संशयोदयः
तं दृष्ट्वा विस्मयाविष्टः संग्रामं महदद्भुतम्।
अन्तर्हितं क्षणात् कृष्णं प्रणिपत्य जगद्गुरुम् ॥६४॥
इमं संदेहसंदोहं हृदयेन वहन् गुरुम्।
तवान्तिकमिह प्राप्तः संशयच्छेदनाय वै ॥६५॥
न हि सर्वज्ञमीशानं विना छेत्तास्य विद्यते।
अहिर्बुध्न्यः---
देवर्षे संशयान् ब्रूहि ये वर्तन्ते तवान्तरे ॥६६॥
अप्यनिर्वचनीयास्ते सर्वांश्छेत्तास्मि सांप्रतम्।
दुर्वासाः----
अथ प्रश्नान् क्रमेणोक्तान् नारदेन सुरर्षिणा ॥६७॥
व्याचष्ट भगवान् शर्वः सर्वतः प्रीतमानसः।
संहितावतरणम्
संहिता सेयमाख्याता नानामन्त्रार्थगोचारा ॥६८॥
पञ्चरात्रमयी दिव्या नाम्नाहिर्बुध्न्यपूर्विका४०।
अर्थैः परकृतिप्रायैः पुराकल्पैश्च संयुता ॥६९॥
नानासिद्धान्तसंभेदा नानाविद्योपशोभिता।
शतद्वयमिहाध्यायाश्चत्वारिंशच्च दर्शिताः ॥७०॥
ततो द्वापरवेलायां मनुष्याणां हिताय वै।
अध्यायानां शतेनाथ विंशत्या च समन्विता ॥७१॥
अतिविस्तरमुत्सृज्य गुह्येन प्रतिसंस्कृता।
ततोऽपि बुद्धिसंकोचान्मनुष्याणां हिताय वै ॥७२॥
याति द्वापरसन्ध्यंशे व्यासस्यानुमतेर्मया।
षष्ट्यध्यायैरियं भूयः संहिता प्रतिसंस्कृता ॥७३॥
उपन्यास्थद्यथाप्रश्नं नारदो भगवानृषिः।
निरुवाच यथा शर्वस्तान् सर्वांस्त्वं निबोध मे ॥७४॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शास्त्रावतारो नाम प्रथमोऽध्यायः श्लोकाः ७४
N/A
References : N/A
Last Updated : March 08, 2021
TOP