संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|अहिर्बुध्नसंहिता| अध्यायः १६ अहिर्बुध्नसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अहिर्बुध्नसंहिता - अध्यायः १६ संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : samhitasanskritअहिर्बुध्न संहितासंस्कृतसंहिता अध्यायः १६ Translation - भाषांतर वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायःरक्षातदधिकारिविषयः प्रश्नःनारदः---भगवंस्त्रिदशारिघ्न सर्वज्ञ वृषकेतन।प्रमाणार्थः श्रुतोऽस्माभिः सहेतुः सविपर्ययः ॥१॥सर्वस्यास्य च का रक्षा कश्च रक्षाधिकारवान्।सप्रकारमिदं द्वन्द्वं भगवन् वक्तुमर्हसि ॥२॥तत्प्रतिवचनारम्भःअहिर्बुध्न्यः---सुदर्शनमयी रक्षा देवस्य हरिमेधसः।स्वमृते विष्णुसंकल्पं रक्षान्या न विधीयते ॥३॥वस्तुनिष्ठसामर्थ्यस्य सुदर्शनात्मकत्वम्या सा दिव्या क्रियाशक्तिर्विष्णुशक्त्यंशसंभवा।सुदर्शनाह्वया देवी सर्वकृत्यकरी विभोः ॥४॥तन्मयं विद्धि सामर्थ्यं सर्वं सर्वपदार्थजम्।तत्त्वानां तात्त्विकानां च चेतनाचेतनात्मनाम् ॥५॥प्रमाणानां विचित्राणां भावाभावयुगस्य च।धर्मस्यार्थस्य कामस्य मुक्तेर्बन्धत्रयस्य च ॥६॥यद्यत् स्वकार्यसामर्थ्यं तत्तत् सौदर्शनं वपुः।शस्त्रास्त्रव्यूहस्य रक्षासाधनत्वम्उक्ता शस्त्रास्त्ररूपा ते विष्णुसंकल्पविक्रिया ॥७॥यया देवो जगन्नाथः काले काले जनार्दनः।अवतीर्याथवाविश्य भूतानि लघयेद्भुवम् ॥८॥मन्त्रग्रामस्यापि रक्षासाधनत्वम्नानामन्त्रमयी चान्या यन्त्रकोशविचित्रिता।वेदतन्त्रोभयोद्भूता नानाप्रसवशालिनी ॥९॥साक्षाद्विष्णोः क्रियाशक्तिः सुद्धसंविन्मयी परा।मन्त्रमयरक्षायां ब्राह्मणस्यैवाधिकारःसर्वतत्त्वार्थपारज्ञः सर्वविद्याविशारदः ॥१०॥अस्कन्ननित्यनैमित्तः शुद्धाभिजनसंमतः।त्रिशुक्लो निस्त्रिसंदेहः षट्कर्मविधिपारगः ॥११॥ब्राह्मणो ब्रह्मयोनिस्थः स्वदारनिरतः शुचिः।अधिकुर्यात् क्रियाशक्तिं विष्णोर्मन्त्रमयीं पराम् ॥१२॥ब्राह्मणस्यापि राजानवष्टब्धस्य रक्षायामसामर्थ्यम्ब्राह्मणो नानवष्टब्धस्तया कार्यमिहार्हति।अवष्टभ्य तु राजानं जगतोऽर्थे तया चरेत् ॥१३॥राजप्रशंसाराजा हि परमं भूतं सर्वदेवमयो विभुः।क्रियाशक्तेरधिष्ठानं वैष्णव्या भगवन्मयः ॥१४॥मूर्धतो हि पुरा देवो राजानमसृजत् प्रभुः।मूर्धाभिषिक्तस्तेनासौ सर्वभूतोपरि स्थितः ॥१५॥द्विगुणो ब्राह्मणो राजा वेदशास्त्रेषु गीयते।राजद्विषां दृष्टादृष्टयोः प्रत्यवायःयस्तु तं द्वेष्टि संमोहात् स हरिं द्वेष्टि दुर्मतिः ॥१६॥यो हरिं द्वेष्टि संमोहात् स लक्ष्मीं द्वेष्टि मानवः।लक्ष्म्या द्वेष्टा तु दुर्मेधाः सर्वधर्मेषु हीयते ॥१७॥स भ्रष्टः सर्वलोकेभ्यः सर्वदेवबहिष्कृतः।अप्रतिष्ठे तमस्यन्धे समास्तिष्ठति शाश्वतीः ॥१८॥अतो राजा अवश्यं बहु मन्तव्यःऐहिकामुष्मिकीं लक्ष्मीमतः प्रेप्सुरुदारधीः।राजानं बहु मन्येत सर्वलोकाधिदैवतम् ॥१९॥केवलयोर्ब्राह्म्णनृपयोर्लक्ष्म्या अस्थिरत्वम्ब्राह्मणे केवले लक्ष्मीर्न वसत्यतिमार्दवात्।अत्यौग्र्याद् बिभ्यती क्षत्रे केवले नेच्छति स्थितिम् ॥२०॥संसृष्टयोस्तयोर्लक्ष्म्याः स्यैर्यम्ब्रह्मक्षत्रे तु संपृक्ते ह्यग्नीषोममयात्मनि।निवसत्यतिसंप्रीता११ ग्रीष्मे शीत इव ह्रदे ॥२१॥तत्र हेतुःद्वे हि ते बिभृतो लोकस्थितिं संभूय तेजसी।तयोर्हि सकला शक्तिः स्थिता विष्णोः क्रियात्मिका ॥२२॥अन्वयव्यतिरेकाभ्यां तत्र दृष्टान्तकथनम्महत्या हि यथा नद्याः कुसरो न धृतेः क्षमम्।एवं लघुर्नरो नैव क्रियाशक्तेर्घृतौ क्षमः ॥२३॥पारावारो यथा धीरो महतीं तां प्रतीच्छति।ब्रह्मपृक्तं तथा क्षत्रं क्रियाशक्तिं प्रतीच्छति ॥२४॥पूर्यमाणं महानद्या कुतटाकं विदीर्यते।रक्ष्यमाणस्तथाप्येको नैव पर्याप्यते तया ॥२५॥राजार्थं प्रयुक्ताया अपि क्रियाशक्तेः सर्वप्रजोपकारकत्वकथनम्यथा समुद्रगामिन्यां महत्यां सरिति ध्रुवम्।उपस्नेहेन पूर्यन्ते सरांस्यन्यानि भूयसा ॥२६॥प्रयुक्तायां क्रियाशक्तौ चक्रे वै चक्रवर्तिनः।चक्रस्था हि प्रजाः सर्वाः समेधन्ते तथा श्रिया ॥२७॥चक्रवर्त्यादीनां क्रियाशक्तावधिकारतारतम्यम्चक्रवर्ती नृपः पूर्वां द्वितीयां मम्डलेश्वरः।अधिकुर्यात् क्रियाशक्तिं तृतीयां विषयेश्वरः ॥२८॥महामात्रो द्विजातिर्वा यो बह्वी रक्षति प्रजाः।इमां नैको नरः कुर्यादेकस्मै मानवाय तु ॥२९॥क्रियाशक्तिस्वरूपकथनारम्भःअधिकारः क्रियायाश्च शक्तेस्ते संप्रदर्शितः।रूपमस्या यथावन्मे गदतस्तन्निशामय ॥३०॥सामान्यतः शक्तेर्द्वैविध्यम्उन्मेषः परमः शक्तेर्विष्णोः कोट्यंशकोटितः।भाव्यभावकभेदेन स द्विधा व्यवतिष्ठते ॥३१॥भावको विष्णुसंकल्पः सुदर्शनपराह्वयः।शक्तेः पर्यायशब्दाःसैषा देवी क्रियाशक्तिः सामर्थ्यं योग इत्यपि ॥३२॥पारमेष्ठ्यं महातेजो मायायोग इतीदृशैः।शब्दैःप्रकारसामर्थ्यः संकल्पः सोऽभिधीयते ॥३३॥भावकस्य भूत्यंशप्रवर्तकत्वम्भाव्यो नाम य उन्मेषः सा भूतिरिति गीयते।शुद्ध्यशुद्धिमयी सेति पूर्वमेव निदर्शितम् ॥३४॥ज्वलनस्येव सा ज्वाला संकल्पेन प्रतन्यते।एको नारायणो देवस्तस्य भावानुगामिनी ॥३५॥तस्या देव्याः क्रियाशक्तेः स्थितिं मन्त्रमयीं श्रृणु।क्रियाशक्तेर्नादात्मकत्वम्उद्यती सा क्रियाशक्तिर्भजते नादरूपताम् ॥३६॥नादस्य दीर्घण्टाध्वनिसाम्यम्तं नादं परमं विद्धि दीर्घघण्टानदोपमम्।तस्य योगिमात्रप्रत्यक्षविषयत्वम्परमैर्योगिभिः स्वान्ते स साक्षात् क्रियते स्वयम् ॥३७॥क्कचिदुन्मेषात् तस्य बिन्दुरूपत्वम्स बुद्बुदवदम्भोधौ क्वचिदुन्मेषमृच्छति।अनुद्रुतगतैः सोऽथ योगिभिर्बिन्दुरुच्यते ॥३८॥बिन्दोर्नामनामिरूपेण द्वैविध्यम्नामनामिस्वरूपेण स बिन्दूर्भिद्यते द्विधा।नाम्नः शब्दब्रह्मत्वम्तत्र नामोदयं प्राप्य शब्दब्रह्म प्रवर्तते ॥३९॥नामिनो भूतिरूपत्वम्प्राप्य नाम्युदयं भूतिः पूर्वोद्दिष्टा प्रवर्तते।वर्णोत्पत्तिकथनारम्भःनामोदयमिदानीं मे मन्त्राध्वानं मुने श्रृणु ॥४०॥सा हि बिन्दुमयी शक्तिः स्वेच्छया नामतां गता।अवर्णोऽप्येकधा पूर्वमनुत्तरमयात्मना ॥४१॥बिन्दौर्द्वैविध्यम्स्वरव्यञ्जनभेदेन स द्विधा व्यवतिष्ठते।बिन्दुशक्तेरमुष्यास्तु भूयोऽपि श्रृणु विस्तरम् ॥४२॥उदेत्येषा विसृष्टाख्या शब्दसर्गमयी परा।एकानेकविचित्रार्था नानावर्णविकारिणी ॥४३॥साक्षात् सोमस्वरूपा सा लक्ष्म्याः शब्दमयी तनुः।स्वरव्यञ्जनरूपेण सा विवर्तं प्रपद्यते ॥४४॥अकारात्मना तस्य समुन्मेषःअ इत्यादिसमुन्मेषः सोऽनुत्तर उदीर्यते।अकारस्य सर्ववाग्रूपत्वम्सर्वा वागयमेवैकस्तत्तदाकारभेदवान् ॥४५॥बिन्दोरिकारोकारात्मना समुन्मेषःस इत्छन्निरिति व्यक्त उन्मिषन्नुरिति स्सृतः।यथोक्तवर्णत्रयस्य सर्वस्वरविभावकत्वम्एत एव त्रयो वर्णाः सर्वस्वरविभावनाः ॥४६॥तेषां दीर्घतापत्तिःअनुत्तरः स आनन्द आभावं प्रतिपद्यते।इरिच्छया स ईशान ईभावं प्रतिपद्यते ॥४७॥उरुन्मिषन्नूनरूप ऊभावं प्रतिपद्यते ।एचामुत्पत्तिःअनुत्तरेच्छासंधानादेकारो नाम जायते ॥४८॥अनुत्तराद्भवन् भूय ऐभावं प्रतिपद्यते।दिव्यादनुत्तरोन्मेषादोकारो नाम जायते ॥४९॥अनुत्तराद्भवन् भूय औभावं प्रतिपद्यते।तेषां संध्यक्षरत्वम्संध्यात्मान इमे कूटाश्चत्वारः समुदाहृताः ॥५०॥तेषामवयवार्थाविष्करणम्अनुत्तरेच्छायोगेन ह्येधमानः स ए स्मृतः।भूयोऽनुत्तरसंयोगादै चाप्यैश्वर्यवान् स्मृतः ॥५१॥दिव्यादनुत्तरोन्मेषादोतः सर्वत्र ओ स्मृतः।अनुत्तरात् स संभूय और्जित्यादौगतिं गतः ॥५२॥ऋलृवर्णोत्पत्तिःएकत्रिभागयो ऋद्ध्या अरयो ऋ स्मृतो बुधैः।अलयोश्च तता लृत्वमाकारः स्यादनुत्तरः ॥५३॥भूयोऽप्यनुत्तरोद्योगात् प्लवमानस्तथा स्मृतः।एवं चतुदशोद्योगान्नानाकारविभाविनी ॥५४॥नटीव कुण्डलीशक्तिराद्या विष्णोर्विजृम्भते।अस्य रूपद्वयं सूक्ष्मं सृष्टिसंहारकारणम् ॥५५॥अनाख्येया महासत्ता क्रियाशक्तिः क्रमेण सा।शब्दात्मना विवर्त्स्यन्ती सा पुरा याति सृष्टिताम् ॥५६॥सृष्टिः सर्गो विसर्गश्च विसर्जनमितीदृशैः।नाभौ कुण्डल्याः पश्यन्तीत्वम्मूलाधारात् समुद्यन्ती सा शान्ता सा निरञ्जना॥ ५७॥अङ्क्ष्यन्ती साञ्जनैस्तैस्तैः संस्कारैः समुनुत्तरम्।दृष्टिद्दश्यात्मनां प्राप्य शब्दार्थत्वविवर्तिनी ॥५८॥पश्यन्ती नाम नाभौ सा योगद्दश्योदयं गता।शक्तिः सा वैष्णवी सत्ता मन्त्रमाता समञ्जना ॥५९॥अधिकारक्षयं यान्ति योगिनस्तां गता धिया।तस्या हृदब्जे विस्तारःविजृम्भणोन्मुखी लक्ष्मीः पश्यन्ती सा क्रियामयी ॥६०॥भावं संस्कृत्य संस्कारैः समर्थाख्यां विवर्तनाम्।भृङ्गीव निनदन्ती सा हृदब्जे याति विस्तृतिम् ॥६१॥वाच्यवाचकभावेन लोलीभूता क्रियामयी।तदा संस्कृतयः सर्वाः स्मृतीः पुष्यन्ति वाच्यगाः ॥६२॥तस्याः कण्ठदेशे विसर्गात्मना परिणामःएवंविधा क्रियाशक्तिस्तत्तद्वाच्यविवक्षया।शब्दरूपं समास्थाय कूटस्थं व्यक्तिवर्जितम् ॥६३॥सा यात्यनुत्तरस्पृष्टा कण्ठं शक्तिर्विसर्गिणी।पुनः सानुत्तरे स्थित्वा चतुर्दशविभाविनी ॥६४॥अनुत्तरोत्तरा याति कण्ठे हेति विजृम्भणम्।ततः सादिमयी भूत्वा कान्तव्यञ्जनशालिनी ॥६५॥अनुत्तरमयी भूयो बिन्दौ संप्रतितिष्ठति।बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते ॥६६॥इमौ द्वौ सृष्टिसंहारौ लेशतस्ते निदर्शितौ।मत्तः श्रृणु मुने भूयः स्वराणां विविधां ततिम् ॥६७॥स्वराणामवान्तरभेदनिरूपणम्यदादित्रितयं पूर्वं स्वरकूटस्थमीरितम्।अष्टादशविधं तत्तु प्रत्येकं योगिनां मतम् ॥६८॥स्वरव्यञ्जनकूटौ यौ ऋ लृ इत्युदितौ पुरा।आद्योऽष्टादशधान्त्यस्तु तयोर्द्वादशभेदवान् ॥६९॥इति स्वराणां पञ्चानामशीतिश्चतुरुत्तरा।स्वरकूटास्तु चत्वारो ये तेषामीदृशी भिदा ॥७०॥शतानि त्रीण्यथैकारा विंशतिश्चतुरुत्तरा।एवं पञ्च सहस्राणि शतान्यष्टावनुष्टुभाम् ॥७१॥ऐकारः कथितः सम्यक् शिक्षातत्त्वविशारदैः।ओकारश्च तथौकार इयद्भेदौ प्रकीर्तितौ ॥७२॥रम्यौ गौरौ यमित्येव संख्या संभूय संधिगा।योगिनस्तां प्रपश्यन्ति मन्यन्ते मनसा नराः ॥७३॥संभूय स्वरसंख्या तु ५स्तब्धौ गौरो यमित्यसौ।द्विस्तावन्तः स्वरा ज्ञेयाः सृष्टिसंहारभेदिताः ॥७४॥सर्गयुक्ता बिन्दुयुक्ताः केवला इति ये त्रिधा।देहोऽर्थः सङ्ग इत्येव ते संभूय चतुर्दश ॥७५॥सृष्टिः सोमः समाख्याता बिन्दुः सूर्य उदीर्यते।स्वराणां सूर्यचन्द्रकिरणात्मतापूर्वे सप्त स्वराः सूर्यकिरणाः परिकीतिताः ॥७६॥सोमस्य किरणा ज्ञेया आकारादय उत्तरे।तयोरहोरात्रप्रवर्तकत्वम्अहर्नयति सूर्यस्तु स्वरैः पिङ्गलया चरन् ॥७७॥रात्रिं सृजति सोमस्तु स्वरैः स्वैहिडया चरन्।परशक्तेः सुषुम्नासंचारित्वम्स्वराणां या परा विष्णोः कूटस्था शक्तिरुज्ज्वला ॥७८॥सुषुम्नया संचरते शब्दब्रह्म वितन्वती।इति ते लेशतः प्रोक्ता स्वराणां गतिरुत्तमा ॥७९॥व्यञ्जनसृष्टिकथनारम्भःअथ व्यञ्जनसृष्टिं ते कथयामि मुने श्रृणु।विसर्गस्य वासुदेवमूर्तित्वम्अनुत्तरोत्तरा सृष्टिर्या सा हेति पुरोदिता ॥८०॥आदिव्यूहस्य देवस्य वासुदेवस्य सा तनुः।अच्युतो बिन्दुयुक्तोऽसौ रुन्धन्नाधारमादिमम् ॥८१॥साग्रिं दीपयते नादं योगारम्भे तु योगिनाम्।अच्युतः सृष्टियुक्तोऽसावूर्ध्वसृष्टिं करोति च ॥८२॥अच्युतः सृष्टियुक्तस्तु बहिःसृष्टिं करोत्ययम्।तस्मादूष्मणामुत्पत्तिस्तेषां चातुरात्म्यं चहात् सात् षात् शात्ततः शश्वच्छक्त्यूष्माण उदीरिताः॥ ८३॥चातुरात्म्यमिदं प्रोक्तं चतुर्ब्रह्मेति शब्दितम्।क्षकारसहितानां तेषां ब्रह्मशब्दवाच्यत्वम्क्षेण कूटेन संयोगात् पञ्चब्रह्मेति शब्दितम् ॥८४॥क्षस्तु सत्यस्य बीजं तु प्रोक्तः सात्त्वतशासने।कषकूटमुशन्त्यन्ये नित्यं तत्प्रतिरूपकम् ॥८५॥अन्तः स्थानामुत्पत्तिस्तेषां संज्ञात्रयं चशाद्वस्तस्माल्ल उद्दिष्टो लाद्रो राद्यः प्रजायते।धारणा नाम विज्ञेया याद्या विश्वस्य धारणात् ॥८६॥अन्तःस्था इति च प्रोक्ता अन्तः स्थपुरुषेशयाः।अवस्था इति च प्रोक्ता ईशावतरणक्रमे ॥८७॥मकारोत्पत्तिःयकारादीशशक्तिस्थान्मकारो नाम जायते।अनुत्तरोत्तरो बिन्दुर्म इति प्रतिशब्द्यते ॥८८॥तस्य सर्वचेतनसमष्टिरूपत्वं जीववाचित्वं चचेतनानां तु सर्वेषां समष्टिः सा निगद्यते।अस्मदर्थोऽयमुद्दिष्टः सोऽयमुत्तमपूरुषः ॥८९॥भकारोत्पत्तिस्तस्य च प्रकृतिवाचित्वम्सूक्ष्मेक्षयानुवृद्धौ सा प्रकृत्या भोग्यरूपया।च इत्येव मकारात् सा पुनः स्थूला विविच्यते॥ ९०॥बादिटान्तत्रयोदशवर्णोत्पत्तिःभोगोपकारणाकार बहिरन्तर्व्यवस्थया।त्रयोदशात्मना व्यक्ता बद्या टान्ता महामुने ॥९१॥बादित्रयस्य महदहंकारमनोवाचित्वम्; तवर्गस्य ज्ञानेन्द्रियवाचित्वम्बुद्धिश्चाहंकृतिश्चैव मनश्चेति मनीषिभिः।बादित्रितयमुद्दिष्टं नादि तान्तं तु धीन्द्रियम् ॥९२॥टवर्गस्य कर्मेन्द्रियवाचकत्वम्णादि टान्तं तु कर्माख्यमथ भोग्योद्भवो द्विधा।चवर्गोत्पत्तिः; तस्य तन्मात्रवाचित्वम्ञादि चान्तं तु तन्मात्रपञ्चकं प्रविजृम्भते ॥९३॥कवर्गोत्पत्तिः; तस्य महाभूतवाचित्वम्ङादिः पञ्चमहाभूता कान्तान्या वर्णसंततिः।यस्माद्यस्योद्भवो वर्णात् तत्त्वसृष्ट्यां तु तत् स्मरेत् ॥९४॥ळकारोत्पत्तिःलस्यैव करणान्यत्वे ळकारो नाम जायते।व्यञ्जनानां वैविध्यम्चतुस्त्रिंशदिति प्रोक्ता वर्णास्ते व्यञ्जनात्मकाः ॥९५ ।एवमेकैकशो योगाद्भेदाः स्युर्बहवः स्वरैः।चतुःपञ्चाशदुद्दिष्टाः ककारास्तत्र वै मुने ॥९६॥किकाराश्च कुकाराश्च कृकाराश्च तथाविधाः।क्लृकारास्तत्र षट्त्रिंशत् केकारा रसधीर्मुने ॥९७॥तथाविधाश्च कोकारा योगिभिः संख्यया स्मृताः।स्तव्धस्वार्थोऽयमित्येवं कैकारो योगिभिः स्मृतः ॥९८॥कौकाराश्च तथासंख्याः सप्त संहत्य ते पुनः।देहोऽर्थः सङ्ग इत्येवं संख्याताः परमरषिभिः ॥९९॥वेगव्यञ्जनसंख्यैव देहोऽर्थः साङ्गभेदिताः।नीतिमत्प्रतिभा हेति संख्यया जायते मुने ॥१००॥स्वरव्यञ्जनसंयोगादियं संख्या समीरिता।एकद्वित्र्यादिसंयोगैर्व्यञ्जनानां क्रमात् क्रमात् ॥१०१॥केवलानां सस्वराणां ततः संख्याविधिः स्मृतः।वर्णमातृकाया भगवच्छक्तिप्रोतत्वम्पदवाक्यप्रमाणादिनानाकोरकशालिनी ॥१०२॥वर्णस्तम्बा ज्ञानमूला शब्दशक्तिर्हि वैष्णवी।विष्णुना देवदेवेन तेन शक्तिमता स्वयम् ॥१०३॥स्थूलसूक्ष्मपरत्वेन प्रोतेयं वर्णसंततिः।भगवदाज्ञया रुद्रांशस्यापि वर्णमातृकाधिष्ठातृत्वम्तदाज्ञयास्मदंशैश्च रुद्रैर्नानाविधैरियम्।मन्त्रयोनिरियं देवी मातृकाधिष्ठिता सदा ॥१०४॥इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायःआदितः श्लोकाः १००४ N/A References : N/A Last Updated : March 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP