संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|अहिर्बुध्नसंहिता| अध्यायः १९ अहिर्बुध्नसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अहिर्बुध्नसंहिता - अध्यायः १९ संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : samhitasanskritअहिर्बुध्न संहितासंस्कृतसंहिता अध्यायः १९ Translation - भाषांतर अङ्गोपाङ्गमन्त्रोद्धारो नाम एकोनविंशोऽध्यायःध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥हृदयमन्त्रःअहिर्बुध्न्यः---यत्तज्ज्ञानमयं दिव्यं गुणानां प्रकृतिः परा।पञ्चानां तु बलादीनां नित्यशुद्धं निरञ्जनम् ॥१॥तन्नाम हृदयं मन्त्रं स षाड्गुण्यमयो यतः।तस्य वाचकमाकारमुद्धरेन्मनसा सुधीः ॥२॥ज्ञानत्वादप्रमेयश्च प्रथमो व्यापकः स्मृतः।आनन्द आदिदेवश्च गोपनश्चेति षड्विधाः ॥३ ।क्रमात् संहत्य तज्ज्ञानं सांकर्षणमनुत्तमम्।तत्तद्विशेषसंयोगाद्विशेष्यस्तन्मयः सदा ॥४॥इत्याभावसमायोगाज्ज्ञानात्मा मन्त्रराट् स्वयम्।हृदयाय नमः पश्चाद्व्यक्त्यर्थं संप्रयोजयेत् ॥५॥शिरोमन्त्रःरमणीया समिद्धा च येच्छा देवस्य शाश्वती।सर्वत्राप्रतिघा दिव्या ह्यमृताधारभेदिता ॥६॥वीति बीजेन निर्दिष्टा तच्चैश्वर्यं महद्धरेः।ऐश्वर्यं च शिरः स्थाने यत्तत् सर्वोपरि स्थितम् ॥७॥अविघातात्मकं यत्तदिच्छाया रूपमुत्तमम्।समिद्धं रमणीयं तदमृतस्याश्रयः परः ॥८॥वीति तद्द्योतकं बीजं तेन संयोजयेच्छिरः।तेन संयोजितश्चक्रमन्त्र ऐश्वर्यबृंहितः ॥९॥इच्छामिन्धान एवास्य मन्त्रिणः संप्रकाशते।ततस्तच्छिरसे स्वाहा व्यक्त्यर्थं संप्रयोजयेत् ॥१०॥शिखामन्त्रःअमृता सोमरूपा च या सा तृप्तिमयी परा।जगत्प्रकृतिरीशाना विष्णुशक्तिः परावरा ॥११॥तस्या यो भुवनाकार उद्दाम उदयोऽमलः।सु इत्येवं समाख्याता शक्तिस्तेनोदिता सती ॥१२॥विशेषयति रूपेण चक्रमन्त्रं सनातनम्।तया स भेदितः शक्त्या शक्त्यात्मा संप्रकाशते॥ १३॥या सा कुण्डलिनी शक्तिर्हृदयस्था समीरिता।योगिभिर्या शिखा तस्या दिव्या दीपाकृतिः परा॥ १४॥प्रसरत्यूर्ध्वभागे तु शिखास्थाने विराजते।अतः शक्तेः शिखास्थाने न्यासस्तस्यास्ततः स्मृतः ॥१५॥शिखायै वषडित्येवं व्यक्त्यर्थं संप्रयोजयेत्।कवचमन्त्रःऊर्जो नाम समुद्दिष्टो बलं विष्णोः स्वमूर्जितम् ॥१६॥प्रज्ञाधारणसामर्थ्यं नित्यतृप्तिमयं परम्।सर्वकार्यैः समुद्युक्तः श्रमाभावे हि तृप्यति ॥१७॥अशेषभुवनाधारस्तद्बलं परिगीयते।बले बलं धारणेद्धा विभर्ति सकलं जगत् ॥१८॥चतुर्गतिमयं यत्तत् प्राणानां परिगीयते।व्यानापानादिका सा च प्रोक्ता गतिचतुष्टयी ॥१९॥चतुर्गतिमयः प्राणो बलं तत् परिगीयते।अजितो भगवान् येन जयत्यखिलमच्युतः ॥२०॥एतैर्गुणैः समायुक्तं बलं तद्वैष्णवं महत्।अप्रमेयमनाद्यं तत् सूर्यशब्देन गीयते ॥२१॥बलेन भेदितो मन्त्रो बलात्मा व्यवतिष्ठते।बलं चाखिलगात्रेषु मूर्छितं विपुलं महत् ॥२२॥अंसयोस्तदभिव्यक्तिरतस्तत्रैव विन्यसेत्।कवचाय हुमित्येव व्यक्त्यर्थं संप्रयोजयेत् ॥२३॥अस्त्रमन्त्रःमहत्ता न्यूनताभावः स च स्यादविकारिता।अव्याहतस्वसंकल्पः सुशब्दार्थो निरूपितः ॥२४॥चेतनाचेतनं विश्वं स्वसंकल्पेन भावयन्।यः स्यादविकृतः सोऽस्य भावो माहासुदर्शनः ॥२५॥तद्वीर्यं तच्च शास्त्रोक्तं यद् दुष्टदमनात्मकम्।शान्तिदं सर्वपापानां शंकरं जगतामपि ॥२६॥विकारविरहो दैत्यमर्दिनः परमात्मनः।महासुदर्शनेत्येवं तद्वीर्थं बहुधोच्यते ॥२७॥वीर्येण भेदितो मन्त्रो वीर्यात्मा व्यवतिष्ठते।तस्य हस्ततले स्थाने ततस्तत् तत्र विन्यसेत् ॥२८॥ततोऽस्त्राय फडित्येवं व्यक्त्यर्थं संप्रयोजयेत्।नेत्रमन्त्रःअन्तर्बोधस्वरूपो यः प्राकृतध्वान्तनाशनः ॥२९॥सूर्यवत् तपतस्तस्य या ज्वालाप्यूर्ध्वगामिनी।पुरुषाणामशेषाणामैश्वर्यान्निरपेक्षता ॥३०॥अमृताधाररूपत्वमनिशं जन्मघातकम्।नैरपेक्ष्येण यत् तस्य तत् तेजः समुदाहृतम् ॥३१॥ज्वालाशब्देन तत् तेजो वैष्णवं बहुधेर्यते।तेजसा भेदितो मन्त्रस्तेजोरूपोऽवतिष्ठते ॥३२॥तेजसो नयनं स्थानमतस्तत् तत्र विन्यसेत्।वौषण्नेत्रत्रयायेति व्यत्यासाद् व्यक्तये पठेत् ॥३३॥इति षाड्गुण्यरूपेयं दर्शिता तेऽङ्गसंततिः।उपाङ्गसंततिश्चैव न्यसनीया विपश्चिता ॥३४॥उपाङ्गमन्त्रःकुक्षिपृष्ठांसयुग्मोरुजानुपादयुगेषु१७ च।शाद्यर्णान् व्यापिसंयुक्तान् ज्ञानाद्यैर्नमसा सह ॥३५॥विन्यसेत् षड्गुणात्मैव मन्त्रिदेहः प्रजायते।अप्रमेयो गदध्वंसी पन्थाः स्वर्गापवर्गयोः ॥३६॥इच्छामयो हि यो भावो विष्णुसंकल्पजृम्भितः।अशेषदुरितप्लोषात् सोऽग्निरित्युच्यते बुधैः ॥३७॥अग्निना भेदितो मन्त्रस्त्वगन्यात्मा व्यवतिष्ठते।प्राकारं कल्पयेत् तेन परितः पावकाकृतिम् ॥३८॥अग्निप्राकारमध्यस्थो दुर्निरीक्षोऽभिजायते।संस्मरंश्चक्रगायत्रीं परितश्चक्रमुद्रया ॥३९॥ऊर्ध्वाधस्तिर्यगाकारं मुद्रयेदात्मनो बहिः।अग्निप्राकारतः पूर्वं चक्रमुद्राथवा भवेत् ॥४०॥चक्रागायत्रीहृदयं चाथ चक्राय विद्महेपदमादिमम्।मन्त्रनाथस्य नेत्रादिपदं सूक्ष्मोऽथ धीमहि ॥४१॥गायत्र्या आद्यनवमे ततश्चैवानिवारितः।ततः समस्तरूपं तु गायत्र्या दशमं पदम् ॥४२॥उदिता चक्रगायत्री सप्तविंशतिकीर्तिता।अथ सौदर्शनास्त्राणां मन्त्रानेतान् निबोध मे ॥४३॥चक्राद्यस्त्रमन्त्राःओं नमो भगवन् विष्णो सर्वेषामादिमं समम्।चक्रमूर्तिधरेत्येवं गदामूर्तिधरेति च ॥४४॥शार्ङ्गमूर्ति धरेत्येवं खकड्गमूर्तिधरेति च।चक्राद्यस्त्रचतुष्कं तु ततः सेनापतेपदम् ॥४५॥सर्वत्र सममुच्चार्य वदेत् प्रातिस्विकं ततः।मन्त्रनाथो भवेच्चक्रे षड्वर्णोऽथ गदादिषु ॥४६॥कौमोदकि महाशार्ङ्ग महाखड्गेत्युदीरयेत्।वर्मास्त्रे च ततो युञ्ज्यादेष मौनविधिक्रमः ॥४७॥इमाश्चतस्रो गायत्र्यश्चक्रादीनामुदीरिताः।शङ्खादीनां चतुर्णां तु मन्त्रानेतान्निबोध मे ॥४८॥शङ्खादिमन्त्राःओं नमो भगवन् विष्णो सर्वेषामादितः समम्।सङ्खमूर्तिधरेत्येवं हलमूर्तिधरेति च ॥४९॥मुसलमूर्तिधरेत्येवं शूलमूर्तिधरेति च।सेनापतेपदं पश्चात् सर्वेषां तुल्यमुच्चरेत् ॥५०॥महाथ पाञ्चजन्याय स्वाहेत्येकाधिको मनुः।महाहलाय स्वाहेति मन्त्रोऽप्येकाधिकः स्मृतः॥ ५१॥महा च मुसलायाथ स्वाहेत्यभ्यधिको मनुः।महाशूलाय स्वाहेति स चाप्यभ्यधिको मनुः ॥५२॥इमाश्चतस्रो गायत्र्यः शङ्खादीनां प्रदर्शिताः।दण्डादीनामथाष्टानामिमान् मन्त्रान् निबोध मे ॥५३॥दण्डाद्यस्त्रमन्त्राःओं नमो भवन् विष्णो सर्वेषामादितः समम्।दण्डमूर्तिधरेत्येवं कुन्तमूर्तिधरेति च ॥५४॥शक्तिमूर्तिधरेत्येवं पाशमूर्तिधरेति च।अङ्कशमूर्तिधराय कुलिशमूर्तिधरेति च ॥५५॥परशुमूर्तिधरायाथ ततः शतमुखेति च।अनलमूर्तिधरेत्येवं प्रातिस्विकपदक्रमः ॥५६॥सेनापतेपदं पश्चात् सर्वेषां सममुच्चरेत्२४।महादण्डायाथ नमो मन्त्र एवाधिकः स्मृतः॥ ५७॥महाकुन्तायाथ नमो मन्त्रोऽप्येकोधिकः स्मृतः।महाशक्तये च नमो मन्त्रोऽप्येकोऽधिकः स्मृतः॥ ५८॥महापाशायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः।महाङ्कुशाय नम इत्येषोऽप्यधिक उच्यते ॥५९॥महा च कुलिशायाथ नम इत्यपि तादृशः।महापरशवे चाथ नम इत्यपि तादृशः ॥६०॥महाशतमुखेत्येवमनलाय ततो नमः।अयं मन्त्रस्त्रयस्त्रिंशद्वर्णो वह्न्ययुतप्रभः ॥६१॥इत्यस्त्राणामिमे मन्त्रा रूपतस्ते निदर्शिताः।अत्रानुक्तस्य संहितान्तरात् ग्रहणम्आधाराद्यासनाकारो द्वारपर्यन्तपूजनम् ॥६२॥मुद्रा च विविधाकारा यस्य यस्य च यादृशी।अभिषेकविधिश्चैव दीक्षानियम एव च ॥६३॥भूतशुद्धिविधिश्चैव ध्यानानि विविधानि च।सर्वं जयाश्रुतं कार्यं तत्तद्वैशेषिकं विना ॥६४॥अमुद्राणामिहास्त्राणां दण्डदीनां महामुने।कार्या समन्विता दिव्या शक्तिमुद्रास्त्रमुद्रया ॥६५॥इति ते लेशतः प्रोक्तः सौदर्शनविधिक्रमः।ग्रहणादिप्रकारोऽयं वक्ष्यते श्रृणु तं मुने ॥६६॥इति श्रीपाञ्चारात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अङ्गोपाङ्गमान्त्रेद्धारो नाम एकेनविंशोऽध्यायःआदितः श्लोकाः ११६९ N/A References : N/A Last Updated : March 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP