अहिर्बुध्नसंहिता - अध्यायः २८

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


भगवदाराधनविधिनिरूपणं नाम अष्टाविंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

आराधनविधिनिरूपणारम्भः
अहिर्बुध्न्य----
आराधनविधिं वक्ष्ये समासेनैव नारद।
आयुरारोग्यविजयभूप्रदं धनधान्यदम् ॥१॥

तस्यैहिकामुष्मिकफलसाधनत्वम्
पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम्।
भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम् ॥२॥
तत्रादौ स्नानविधिः
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः।
द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् ॥३॥
स्नात्वाचम्य गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा।
वामे पाणौ दिशाबन्धं विदध्यादेकभागतः ॥४॥
गात्रालेपं ततः कुर्यादन्येनांशेन नारद।

संकल्पयेत् तृतीयांशं तीर्थपीठमतः परम् ॥५॥
गङ्गं तत्र स्मरेद्विष्णोर्वामपादविनिः सृताम्।
अर्घ्यमस्यै निवेद्यथ ततो हृत्वा जलाञ्जलिम् ॥६॥
स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृत्वोऽभिमन्त्रितम्।
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ॥७॥
यथाशक्ति जपेन्मन्त्रं तस्य ध्यानपरायणः।
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ॥८॥
धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान्।
ध्यात्वा संतर्पयेदन्यदाह्निकं विधिवच्चरेत् ॥९॥
यागभूमिमथागम्य क्षालिताङ्घ्रिकरो वशी।
आराधनोपक्रमः
आचम्य वाग्यतो भूत्वा प्रारभेत समर्चनम् ॥१०॥
चतुर्द्वारयुतं रम्यं गत्वा शरणमात्मवान्।
द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् ॥११॥
मण्डपवर्णनम्
तुङ्गं मङ्गलसंयुक्तं मणिकुट्टिमभूषितम्।
सौवर्णैर्बहुभिः स्तम्भैर्मणिविद्रुमभूषितैः॥ १२॥
उपेतं दीपिकाजालैर्जातरूपमयैर्वृतम्।

विचित्राभिः पताकाभिस्तोरणैरुपशोभितम् ॥१३॥
मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः।
विराजमानं सर्वत्र मणिपीठविराजितम् ॥१४॥
तत्र वेदिकानिर्माणम्
तस्य मण्कडपरत्नस्य मध्ये परमभास्वराम्।
पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् ॥१५॥
मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम्।
वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् ॥१६॥
एवं कर्तुमशक्तश्चेदेवं ध्यायीत पूजकः।

तत्र सपरिवारभगवद्ध्यानम्
एवं चतुष्किकामध्ये चक्राब्जमयविष्टरे ॥१७॥
आधारशक्तिकमठानन्तधर्मादिधारिते।
पद्मे सोमरविज्योतिः सत्त्वादिपरिवारिते ॥१८॥
१एवमुक्तप्रकारेण परिवारैर्निषेवितम्।
वेदैर्मन्त्रैस्तथा शस्त्रैरस्त्रैः शक्तिभिरावृतम् ॥१९॥
ध्यायेत् तदासने देवं समासीनः समासने।

भगवत्प्रार्थना
अर्चयामि त्वदीयोऽहं त्वद्दत्तैरौपचारिकैः ॥२०॥
सांस्पर्शिकैरिति ब्रूयाद् देवमाभ्यवहारिकैः।
भूतशुद्धिक्रमः
संहरेद् देहतत्त्वानि प्रतिसंचरवर्त्मना ॥२१॥
ततः स्थूलमिदं देहं शोषयित्वाथ संदहेत्।
प्राणायामेन चाद्येन मन्त्रं नाभ्यां तु विन्यसेत् ॥२२॥
तदुद्भूतेन नादेन सुषुम्नामध्यवर्तिना।
वायुमण्डलमभ्येत्य तदुत्थेनैव वायुना ॥२३॥
संशोषयेदिमं देहं स्थूलं सुरमुने ततः।
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ॥२४॥
मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना।
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ॥२५॥
अधो निवेशयन् विष्णोर्वामपादाम्बुजस्य वै।
स्वं तदङ्गष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ॥२६॥
पञ्चैपनिषदैर्मन्त्रैस्ततः संज्ञातविग्रहः।
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम्॥ २७॥
आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात्।
प्रारभेत ततः पूजां करन्यासं विधाय वै ॥२८॥
हृद्यागं प्रथमं कुर्यान्नियतेन्द्रियमानसः।

पात्रादिस्थापनम्
आत्मनो दक्षिणे पार्श्वे वासितैः पावनैर्जलैः॥ २९॥
पूरितं स्थापयेत् पात्रं मूलमन्त्रेण मन्त्रितम्।
वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् ॥३०॥
ततो विस्तीर्य पुरतः शाटिकामतिनिर्मलाम्।
तस्यामाग्नेयदिग्भागे विन्यसेदर्घ्यपात्रकम् ॥३१॥
पाद्यपात्रमथो न्यस्येत् कोणे दक्षिणपश्चिमे।
पात्रमाचमनीयस्य विन्यसेत् पश्चिमोत्तरे ॥३२॥
स्नानीयपात्रं दिग्भागे विन्यसेच्छांकरे ततः।
अर्घ्यदिषु प्रक्षेप्यद्रव्याणि
सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेव च ॥३३॥
यवं गन्धं फलं पुष्पमष्टाङ्गं चार्घ्यमुच्यते
दूर्वा च विष्णुपर्णी च श्यामाकं पद्ममेव च ॥३४॥
पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत्।
लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके ॥३५॥
सिद्धार्थकादि स्नानीये पूर्ववत् कल्पयेद् बुधः।

तत्र मन्त्रासनं प्रथमम्
अर्घ्यं संकल्पयामीति स्पृशेज्जप्त्वार्घ्यमादितः॥ ३६॥
पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात्।
गन्धतोयेन संपूर्य पात्राण्येतानि सर्वशः ॥३७॥
अर्घ्यात् किंचित् समुद्धृत्य जलं पात्रान्तरेण तु ।
देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् ॥३८॥
पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत्।
वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् ॥३९॥
अर्ध्यादिदत्तशिष्टानि क्षिपेत् पात्रान्तरे तदा।
चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः ॥४०॥
पुनराचमनीयं च मुखवासमतः परम्।
ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् ॥४१॥
स्नानासनं द्वितीयम्
विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत्।
विज्ञाप्य पादुके दत्त्वा देवे स्नानासनं गते ॥४२॥
वस्त्र भूषणमाल्यानि व्यपनीय ततः परम्।
स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् ॥४३॥
पादपीठप्रदानं च दन्तकाष्ठं दिशेत् ततः।

जिह्वानिर्लेखनं चैव मुखशोधमथो दिशेत् ॥४४॥
पुनराचमनीयं च तथादर्शोपदर्शनम्।
पुनस्ताम्बूलदानं च तैलाभ्यङ्गमतः परम् ॥४५॥
उद्वर्तनविधानं च दानमामलकस्य च।
तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च ॥४६॥
ततो विदद्याद् देवस्य देहशोधनशाटिकाम्।
हरिद्रालेपनं कुर्यात् प्रक्षालनमतः परम् ॥४७॥
वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च।
पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा ॥४८॥
गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा।
तृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् ॥४९॥
अभिषेकं ततः कुर्यान्नीराजनविधिं ततः।
प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् ॥५०॥
तत आचमनीयं च दत्त्वा देवाय देशिकः।
तृतीयमलंकारासनम्
अलंकारासनं पश्चादभ्यर्च्य प्रोक्षणादिना ॥५१॥
विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते।
अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः ॥५२॥
अर्घ्यं पाद्यं ततो दद्यात् तत आचमनीयकम्।
गन्धवच्चन्दनाद्यैश्च द्रव्यैश्चार्घ्यादिकं चरेत् ॥५३॥
ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च।
यज्ञोपवीतदानं च तत आचमनीयकम् ॥५४॥
गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम्।
धूपदीपौ तथा दद्यात् पुनराचमनीयकम् ॥५५॥
ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम्।
दर्शनं वाहनानां च ततः शङ्खरवं तथा ॥५६॥
वीणाकाहलभेर्यादिनिनादश्रावणं तथा।
नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः ॥५७॥
मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः ।
पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरः सरम् ॥५८॥
दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै।
स्वमात्मानं भगवते किंकरत्वाय वेदयेत् ॥५९ ।
ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः।
आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः॥ ६०॥
सर्वभोगैस्तु संपूर्णान् मन्त्रांस्तस्मै निवेदयेत्।
मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च ॥६१॥
चतुर्थं भोज्यासनम्
भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके।
दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः ॥६२॥
अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान्।
गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् ॥६३॥
संप्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत्।
ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः ॥६४॥
हविर्निवेदनम्
सुसंस्कृतान्नमाज्यं च दधिक्षीरमधूनि च।
मूलानि मोदकान् स्निग्धान् व्यञ्जनानि फलानि च॥
यानि कालोपपन्नानि शुचीनि गुणवन्ति च।
स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च ॥६६॥
विशोध्य शोषणाद्यैस्तु संप्रोक्ष्यार्घ्यजलेन तु।
विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् ॥६७॥
मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत्।
अनुवासं ततो दद्याद् दर्पणं च ततः परम् ॥६८॥
दद्यादाचमनीयं च हस्तमार्जनचन्दनम्।
मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च ॥६९॥
पुनर्मन्त्रासनं पञ्चमम्
अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च।
गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके ॥७०॥
तथाधिरूढे देवेशे माल्यादिकमपोह्य तु।
पाद्याचमनके दत्त्वा ततो धूपं निवेदयेत्॥ ७१॥

स्वादिष्ठानि फलान्यस्मै दद्यात् ताम्बूलमेव च।
गीतवादित्रनृत्ताद्यैर्देवमभ्यर्चयेत् ततः ॥७२॥
प्रदक्षिणं विधायास्मै प्रणमेद् दण्डवत् ततः।

षष्ठं पर्यङ्कासनम्
अथ पर्यङ्कमभ्यर्च्य देवं विज्ञापयेत् ततः ॥७३॥
ततः पादूप्रदानेन देवे पर्यङ्कमास्थिते।
पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः ॥७४॥
माल्यभूषणकादीनि व्यपनीय महामते।
शयनोचितमाल्यानि भूषणान्यंशुकानि च ॥७५॥
सुखस्पर्शानि चान्यानि दद्याद्यज्ञोपवीतकम्।
दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् ॥७६॥
मुखवासं च ताम्बूलं दत्त्वा स्तोत्रैः स्तुवीत तम्।
अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् ॥७७॥
प्रदक्षिणसमेतेन देवं योगासनस्थितम्।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥७८॥
कूर्मवच्चतुरः पादाञ्छिरस्तत्रैव पञ्चमम्।
दास्यप्रार्थना
अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया ॥७९॥

क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम्।
एवमाराधनं कुर्यादुभयत्र मुखे हरिम् ॥८०॥
सुदर्शनं नृसिंहं च विष्णुरूपं सुदर्सनम्।
एवमनुष्ठितस्याराधनस्य मोक्षसाधनत्वम्
समाराधयतस्त्वेवमेकाहमपि नारद ॥८१॥
मुक्तिः करे स्थिता तस्य सर्वे कामाश्च किं पुनः।
आनुषङ्गिकफलसाधनत्वं कैमुतिकम्
अनेन लोकपालाश्च सर्वे देवगणास्तथा ॥८२॥
सिद्धगन्धर्वयक्षाश्च नागाश्चाप्सरसां गणाः।
सर्वे वश्या भवन्तीह किं पुनर्भुवि मानवाः ॥८३॥
भूतप्रेतपिशाचाश्च कूश्माण्डाश्च विनायकाः।
प्रेष्यास्तस्य भविष्यन्ति साधकस्य महात्मनः॥ ८४॥
परिवाराद्यर्चनविधिः
तथास्य परिवाराणां देवानां शक्तियोषिताम्।
मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम्।
नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् ॥८५॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां भगवदाराधनविधिनिरूपणं नामाष्टाविँशोऽध्यायः
आदितः श्लोकाः १६९६

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP