अहिर्बुध्नसंहिता - अध्यायः ६

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


शुद्धेतरसृष्टिवर्णनं नाम षष्ठोऽध्यायः
शक्तितद्वतोर्भेदवदभेदस्याप्युपपत्तिः

अहिर्बुध्न्यः---
योऽसौ नारायणो देवः परमात्मा सनातनः।
अहंभावात्मिका शक्तिस्तस्य तद्धर्मधर्मिणी ॥१॥
ताविमावेकधैवोक्तौ भेद्यभेदकभावतः।
पृथक्त्वेन च शास्त्रेषु जगद्धेतुतयोदितौ ॥२॥

शक्तितद्वतोरपृथक्‌स्थितिः

नैव शक्त्या विना कश्चिच्छक्तिमानस्ति कारणम्।
न च शक्तिमता शक्तिर्विनैका व्यवतिष्ठते ॥३॥

भगवतो लक्ष्म्याश्च प्रत्येकं जगत्कारणत्वव्यवहारकथनम्
तत्तद्गौरवमाश्रित्य तन्त्रवेदान्तपारगैः।
जगद्धेतुतया देवावेकैकाविव दर्शितौ ॥४॥

शुद्धेतरसृष्टिकथनप्रतिज्ञा
इति व्यवस्थिते सृष्टिमुक्तशिष्टामिमां श्रृणु।

भूतिशक्तेः स्वसंकल्परूपक्रियाशक्तिप्रवर्त्यत्वम्
ययं भूतिमयी स्फूर्तिर्विष्णुशक्तेः पुरोदिता ॥५॥

तस्याः संकल्पमय्यैव स्फूर्त्या सा बहु नर्त्यते।

योगालम्बनभूतव्यूहविभवादेः शुद्धिमयस्फूर्तिरूपत्वम्
भूतेः शुद्धिमयी स्फूर्तिः सा व्यूहविभवात्मिका ॥६॥
यामालम्ब्य तरन्तीमं योगिनो भवसागरम्।

शुद्धेतरसृष्टेः व्यूहविभवमूलकत्वम्
अथ शुद्धेतरा सृष्टिस्तन्मूलैव प्रवर्तते ॥७॥

तस्यास्त्रैविध्यम्

पुरुषश्चैव कालश्च गुणश्चेति त्रिधोच्यते।
भूतिः शुद्धेतरा विष्णोः पुरुषो द्विचतुर्मयः ॥८॥
स मनूनां समाहारो ब्रह्मक्षत्रादिभेदिनाम्।

प्रद्युम्नात् मिथुनचतुष्टयोत्पत्तिः
ब्राह्मणो ब्राह्मणी चैव मिथुनं तन्मनुद्वयम् ॥९॥
प्रद्युम्नस्य मुस्वाज्जातं स्वसंकल्पेन चोदितम्।
उरसः क्षत्रियद्वन्द्वमूरुतश्च विशो द्वयम् ॥१०॥
पद्भ्यां शूद्रद्वयं चैव प्रद्युम्नस्य समुद्गतम्।
समष्टिर्या मनूनां सा पुरुषो द्विचतुर्मयः ॥११॥

कालप्रकृतिसृष्टिः
सूक्ष्मकालगुणावस्था सुदर्शनसमीरिता।
प्रद्युम्नस्य ललाटाच्च भ्रुवोः कर्णादुदीरिता ॥१२॥

अनिरुद्धाय पालनाज्ञादानम्
पुरुषः शक्तिरित्येतच्चेतनोचेतनात्मकम्।
वर्धयेत्यनिरुद्धाय प्रद्युम्नेनोपपाद्यते ॥१३॥
तेन तद्वर्धनम्
अन्तः स्थपुरुषां शक्तिं तामादाय स्वमूर्तिगाम्।
संवर्धयति योगेन ह्यनिरुद्धः स्वतेजसा ॥१४॥

नियतिकाल्योरुदयः
नियतिः काल इत्येवं शक्तिः संकल्पचोदिता।
द्विधोदेत्यनिरुद्धात् सा यत् तत् कालमयं वपुः ॥१५॥

गुणमय्याः प्रकृतेस्त्रैविध्यम्
यत्तद्गुणमयं रूपं शक्तेस्तस्याः प्रकीर्तितम्।
सत्त्वं रजस्तम इति त्रिधोदेति क्रमेण तत् ॥१६॥
सत्त्वादिभ्यो रजआद्युत्पत्तिः
सत्त्वाद्रजस्तमस्तस्मात् तमसो बुद्धिरुद्गता।

बुद्धेरहंकृतिस्तस्या भूततन्मात्रपञ्चकम् ॥१७॥
एकादशकमक्षाणां मात्रेभ्यो भूतपञ्चकम्।
भूतेभ्यो भौतिकं सर्वमित्ययं सृष्टिसंग्रहः ॥१८॥

पुनर्विस्तरेण सृष्टिप्रपञ्चनप्रश्नः
नारदः---
भगवन् भगनेत्रघ्न तत्त्वविज्ञानवारिधे।
आख्याहि विस्तरेणाद्य भूतेरुन्मेषमद्भुतम् ॥१९॥
तत्प्रपञ्चनम्।
अहिर्बुधन्यः---
श्रृणु नारद तत्त्वेन विष्णोः संकल्पकारिताम्।
भूतेः परिणतिं चित्रां चिदचिद्वर्गसंकुलाम् ॥२०॥

परवासुदेवस्य नित्यविभूतिमत्ताप्रतिपादनम्
शुद्धा पूर्वोदिता सृष्टिर्या सा व्यूहादिभेदिनी।
सुदर्शनाख्यात् संकल्पात् तस्या एव प्रभोज्ज्वला ॥२१॥
ज्ञानानन्दमयी स्त्यना देशभावं व्रजत्युत।
स देशः परमं व्योम निर्मलं पुरुषात् परम् ॥२२॥
निःसीमसुखसंतानमनवद्यमनाकुलम्।
तत्रानन्दमया भोगा लोकाश्चानन्दलक्षणाः ॥२३॥

ज्ञानानन्दमया देहा मुक्तानां भावितात्मनाम्।

श्रियः पत्युर्भगवतो नित्यमुक्तानुभाव्यत्वम्
सदा पश्यन्ति ते देवाः पुरुषं पुष्करेक्षणम् ॥२४॥
षाड्गुण्यविग्रहं देवं तादृश्या च श्रिया युतम्।
संकल्पसाधिताशेषदेहदैहिकविस्तरम् ॥२५॥
ईशानमस्य सर्वस्य जगतस्तस्थुषस्पतिम्।
सर्वावासमनावासं नारायणमनामयम् ॥२६॥

मुक्तानां स्वरूपम्
तत् पदं प्राप्य तत्त्वज्ञा मुच्यन्ते वीतकल्मषाः।
त्रसरेणुप्रमाणास्ते रश्मिकोटिविभूषिताः ॥२७॥
आविर्भावतिरोभावधर्मबेदविवर्जिताः।

तेषामपुनरावृत्तिः
परमं तेऽध्वनः पारं वैष्णवं पदमाश्रिताः ॥२८॥
विशन्ति नेममध्वानं कालकल्लोलसंकुलम्।

तेषां यथोपासनं फलप्राप्तिः
भक्तास्ते यादृशे रूपे संसारपदमाश्रिताः ॥२९॥
तादृशं ते समीक्षन्ते परमव्योमवासिनः।
विहृत्य सुचिरं कालं कोट्योघप्रतिसंचरम् ॥३०॥

ततो विशन्ति ते दिव्यं षाड्गुण्यं वैष्णवं यशः।

परमव्योम्नोऽशक्यवर्णनत्वम्
तदेतत् परमव्योम लेशतस्ते प्रदर्शितम् ॥३१॥
नैव वर्षायुतेनापि वक्तुं शक्योऽस्य विस्तरः।

जीवसमष्टिपुरुषस्यार्वाचीनस्थानवर्तित्वम्
उक्तः कर्माधिकारो यः पुरुषस्ते चतुर्युगः ॥३२॥
अस्मात् स परमव्योम्नस्तिष्ठत्यर्वाचि वै पदे।
सर्वात्मनां समष्टिर्या कोशो मधुकृतामिव ॥३३॥
शुद्ध्यशुद्धिमयो भावो भूतेः स पुरुषः स्मृतः।
अनादिवासनारेणुकुण्ठितैरात्मभिश्चितः ॥३४॥

स्वतः शुद्धानामप्यात्मनां भगवच्छक्त्या स्वरूपतिरोधानम्

आत्मनो भूतिभेदास्ते सर्वज्ञाः सर्वतोमुखाः।
भगवच्छक्तिमय्यैवं मन्दतीव्रादिभावया ॥३५॥
तत्तत्सुदर्शनोन्मेषनिमेषानुकृतात्मना।
सर्वतोऽविद्यया विद्धाः क्लेशमय्या वशीकृताः ॥३६॥
तिरोहितस्वरूपाणां चातूरूप्यम्
ब्रह्मक्षत्रादिभावेन चातूरूप्यं व्रजन्ति ते।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदतः ॥३७॥

आत्मानो जीवसंज्ञास्ते बन्धमोक्षौ व्रजन्ति ते।

तेषां कर्मपारवश्यात् पृथिव्यामवतरणम्
मनवो नाम कूटस्थास्तेषामुक्ताः समष्टयः ॥३८॥
क्लेशाशयापरामृष्टाः सर्वज्ञाः सर्वतोमुखाः।
नित्यसिद्धा हि भूत्यंशास्ते प्रोक्ता भगवन्मयाः॥ ३९॥
आविर्भावतिरोभावैः स्वस्मिन्नात्मनि नारद।
आत्मनो वर्तयन्तस्ते वैष्णवा आधिकारिकाः॥ ४०॥
विष्णोः संकल्परूपेण स्थित्वास्मिन् पौरुषे पदे।
योगेनावतरन्त्यंशैः स्थानात् स्थानं धरावधि ॥४१॥

अवतीर्णानां प्रजास्रष्टृत्वम्
सृष्टायां कर्मभूमौ ते मिथुनीभूय मानवान्।
चतुःशतं सृजन्त्येते भूयो मानवमानवान् ॥४२॥
ते चापरिमिताः सर्वे विस्तारस्तत्र वक्ष्यते।
अनिरुद्धात् शक्त्युत्पत्तिः
अर्वाचीने पदे तस्मात् पुरुषाद्धि चतुर्युगात् ॥४३॥
सृष्टानिरुद्धतः शक्तिस्तत्सुदर्शनचोदितात्।
शक्तौ कूटस्थमनूनामवतरणम्
सृष्टायामथ शक्तौ तु मनवोऽष्टौ महामुने ॥४४॥

अवतीर्य स्वकात् स्थानाद्विष्णुसंकल्पचोदिताः।
तिष्ठन्ति कललीभूतास्तस्मिञ्शक्तिमये पदे ॥४५॥
कालो नाम गुणो नाम तस्या गर्भस्थितं द्वयम्।

शक्तितो नियतेरुत्पत्तिः
कालस्य नियतिर्नाम सूक्ष्मः सर्वनियामकः ॥४६॥
उदेति प्रथमं शक्तेर्विष्णुसंकल्पचोदितः।
तत्र मनूनां स्थितिः
मनवोऽवतरन्त्यत्र ते सुदर्शनचोदिताः ॥४७॥
यस्य स्याद्यादृशं रूपं यत्करं यत्स्वभावकम्।
सुदर्शनप्रभावस्थं तत्तन्नियमभावितम् ॥४८॥
नियतितः कालस्योत्पत्तिः
कालस्य पावनं रूपं यत्तु तत्कलनात्मकम्।
उदेति नियतेः सोऽथ कालः संकल्पचोदितः ॥४९॥
तत्र मनूनां स्थितिः
नियतेर्मनवोऽप्यत्र काले ह्यवतरन्ति ते।
कालः स कलयत्येको विष्णुसंकल्पचोदितः ॥५०॥
कलयत्यखिलं काल्यं नदीकूलं यथा रयः।

कालात् क्रमेण गुणमयरूपोत्पत्तिः
यत्तद्गुणमयं रूपं शक्तेः पूर्वं समीरितम् ॥५१॥
सोपानक्रमतः कालात् तद्गौणं व्यज्यते वपुः।

तत्र प्रथमं सत्त्वोत्पत्तिः
सत्त्वं तत्र लघु स्वच्छं गुणरूपमनामयम् ॥५२॥
प्रथमं व्यज्यते कालान्मनवोऽवतरन्त्यतः।

आनिरुद्ध्या वैष्णवमूर्त्या तस्याधिष्ठानम्
आनिरुद्धी ततो मूर्तिः स्वसंकल्पप्रचोदिता ॥५३॥
अधितिष्ठति तत् सत्त्वं विष्णुनाम्नैव नामभाक्।
तत एव तस्य सुखरूपत्वं स्वच्छत्वं च। सत्त्वाद्रजउत्पत्तिः

तदेतत् सकलं स्वच्छं सुखमासीदनाकुलम् ॥५४॥
अन्तःस्थमनुकं सत्त्वमन्तःस्थाचिद्गुणं मुने।
विष्णुनाधिष्ठितं तस्माद्विष्णुसंकल्पचोदितात् ॥५५॥
रजो नाम गुणः सत्त्वात् तस्मादाविर्भवत्यलम्।

तत्र मनूनां स्थितिः
मनवोऽवतरन्त्यत्र सत्त्वात् संकल्पचोदिताः ॥५६॥
तस्यानिरुद्धाधिष्ठितब्रह्मरूपत्वम्
ब्राह्मी मूर्तिर्गुणं तं चाप्यानिरुद्ध्यधितिष्ठति।

अतस्तस्य दुःखरूपत्वम्
तदेतत् प्रचलं दुःखं रजः शश्वत्प्रवृत्तिमत् ॥५७॥
लोलीभूतमिदं तच्च विश्वमन्तः स्थितं तदा।

रजसस्तमउत्पत्तिः
ब्रह्मणाधिष्ठितात् तस्मादन्तः स्थमनुकान्मुने ॥५८॥
संकल्पचोदितं विष्णोस्तमो नाम गुणोऽभव

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP