अहिर्बुध्नसंहिता - अध्यायः ३०

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अस्त्राणां जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

ब्राह्माद्यस्त्राणां देवपरिवारत्वकथंताप्रश्नः
नारदः---
कथं ब्रह्मास्त्रमुख्यानां महतां शक्तिशालिनाम्।
अस्त्राणामप्रमेयाणां देवस्य परिवारता ॥१॥
तेषां जन्मनामप्रश्नः
कस्मादेतानि जातानि महास्त्राणि महेश्वर।
अमीषां कानि नामानि तन्ममाचक्ष्व पृच्छतः ॥२॥
तत्प्रतिवचनार्थमाख्यायिकारम्भः
अहिर्बुध्न्यः---
पुरा नारायणो देवः स्वयमेव व्यवस्थितः।
प्राक् सृष्टेर्न रतिं लेभे लीलोपकरणादृते ॥३॥
लीलार्थं भगवतो बहुभवनम्
ततो लीलार्थमात्मानं बह्वकल्पयदीश्वरः।
पुरुषाधिष्ठितप्रधानसृष्टिः
अथ प्रधानमसृजत् पुरुषाधिष्ठितं स्वतः ॥४॥
प्रधानान्महतः सृष्टिः
ततो महान्तमव्यक्ताज्जनयामास नारद।
महतोऽहंकारसृष्टिः
गुणत्रयात्मकं तस्मादहंकारमतः परम् ॥५॥
सात्त्विकाहंकारादेकादसेन्द्रियसृष्टिः
इन्द्रियाणि दशैतानि ज्ञानकर्मात्मकानि वै।
मनश्च सात्त्विकात् तस्मादहंकारादजीजनत् ॥६॥
तामसाहंकारात् भूतसूक्ष्माणां भूतानां च सृष्टिः
भूतानि भूतसूक्ष्माणि दशैतानि महामुने।
असृजत् तामसात् तस्मादहंकाराज्जनार्दनः ॥७॥
सप्तावरणवेष्टिताण्डसृष्टिः
महदादिविशेषान्तैरेतैरण्डमजीजनत्।
दशोत्तरैरावरणैः सप्तभिः परिवेष्टितम् ॥८॥
अण्डे चतुर्मुखसृष्टिः
तस्मिन्नण्डे स्वयं विष्णुः प्रजापतिमथाकरोत्।
उच्चावचानां भूतानां कर्तारं निजशक्तिभिः ॥९॥

भगवच्छक्तिभूतस्य कालस्य सृष्टौ सहकारित्वम्
हरिः स्वशक्तिरूपेण कालेन चसमन्वितः।
महदादिषु सृज्येषु सृष्टिं चक्रे जगन्मयः ॥१०॥
चतुर्मुखव्याजेन भगवतक एव विचित्रजगत्स्रष्टृत्वम्
विष्णुर्ब्रह्मापदेशेन चिदचिन्मिश्रितं जगत्।
विचित्रं जनयामास तत्तच्छक्तिसमन्वितः ॥११॥
वेदशब्देभ्य एव देवादीनां नामरूपव्याकरणम्
वेदानालोच्य भूतानां देवादीनां यमः प्रभुः।
नामरूपे च विविधे यथापूर्वमकल्पयत् ॥१२॥
आप्तकामस्यापि स्रष्टृत्वोपपत्तिः
सर्वदावाप्तसकलकामोऽपि परमेश्वरः।
जन्तुभिर्निजसृष्टैश्च लीलारसमथान्वभूत् ॥१३॥
भगवत एव पालकत्वम्
अनालोच्यैव जगतां त्रातारमपरं हरिः।
स्वयमेवांशरूपेण पालयत्यखिलं जगत् ॥१४॥
दुष्टनिरसनं विना पालनस्याशक्यत्वम्
दैतेयानां दानवानामन्तरेण निबर्हणम्।
न शक्यते पालयितुं सदेवासुरमानवम् ॥१५॥

दुष्टनिबर्हणाय भगवत एव चक्रात्मनावस्थानम्
अतश्च भगवान् विष्णुश्चक्ररूपी व्यवस्थितः।
हन्यन्ते तेन चक्रेण विश्वे दैतेयदानवाः ॥१६॥
देवादीनां सुदर्शनधारणासामर्थ्यम्
देवादीनां सुराणां च विशेषाच्च महीक्षिताम्।
न शक्यते धारयितुं सुदर्शनमनुत्तमम् ॥१७॥
शस्त्रास्त्ररूपेण तस्य विभागः
अतस्तेषां विभक्तानि विविधानि बहूनि च।
अस्त्राणि शस्त्रजातानि शत्रुनाशाय नारद ॥१८॥
भगवदात्मकात् सुदर्शनादस्त्राणामुत्पत्तिः
अस्त्राणि तानि निर्जग्मुर्विष्णुरूपत् सुदर्शनात्।
अमोघानि ततोऽस्त्राणि भीषणानि महान्ति च ॥१९॥
प्रजाः स्रष्टुं मनश्चक्रे चक्ररूपी जगत्पतिः।
स्रष्टुमस्त्राणि सर्वाणि स्वस्माद्रूपान्महामुने ॥२०॥
तस्माद्देवो भीममापद्य चोग्रं
रूपं पिङ्गं पिङ्गलावृत्तनेत्रम्।
दंष्ट्रानिर्यत्पावकप्लुष्टकाष्ठं
भीमं केशैः पिङ्गलैर्विद्युदाभैः ॥२१॥

तत्र मुखजातान्यस्त्राणि
नारायणं पाशुपतं ब्राह्ममस्त्रं तथैव च।
अस्त्रं ब्रह्मशिरो नाम विष्णुचक्रं च जृम्भणम्॥ २२॥
कालपाशमथाग्नेयमस्त्रं हयशिरस्तथा।
प्रस्वापनं तापसं च कालास्त्रममितप्रभम् ॥२३॥
दण्डचक्रं कालचक्रं धर्मचक्रं तथैव च।
शैवं शूलं रौद्रमस्त्रं त्रिशूलं घोरमेव च ॥२४॥
अस्त्राण्येतानि मुख्यानि मुखतो जज्ञिरे विभोः।
वक्षोजातान्यस्त्राणि
संमोहनं तथैषीकमैन्द्रं चक्रं महाद्युति ॥२५॥
अशनी द्वे च शुष्कार्द्रासंज्ञिते सर्वभीषणे।
पैनाकमस्त्रं कङ्कालं कापालमतिदारुणम् ॥२६॥
सौर्यं वारुणपाशं च संतापनमरिंदमम्।
अस्त्रं वारुणमत्युग्रं धर्मपाशं तथैव च ॥२७॥
एतान्यस्त्राणि देवस्य निर्जग्मुर्वक्षसस्तथा।
ऊरुजातान्यस्त्राणि
शक्तिद्वयं च वायव्यमस्त्रं मौसलमेव च ॥२८॥
गान्धर्वं दर्पणं चास्त्रं शोषणं परदारणम्।
तेजःप्रभं च पैशाचमैन्द्रमस्त्रं सुदारुणम् ॥२९॥
याम्यं विलापनं चास्त्रं वैद्याधरममित्रहम्।

कङ्कणीं मोदकीं चैव शिखरं क्रौञ्चमेव च ॥३०॥
एतानि जनयामास निजोर्वेरुरुविक्रमः।
पादजातान्यस्त्राणि
असिरत्नं प्रशमनं कन्दर्पदयितं तथा ॥३१॥
मदनं सौमनं चास्त्रं सत्यं संवर्तनं तथा।
मायाधरं च सोमास्त्रं त्वाष्ट्रं शीतेषुमेव च ॥३२॥
भगास्त्रमस्त्राण्येतानि पद्भ्यां जातानि नारद।
अपराङ्गजातान्युपसंहारास्त्राणि
संदामनं सत्यवन्तं धरणं धृष्टमेव च ॥३३॥
भृशाश्वतनयं चैव सत्यकीर्तिं तथैव च।
मोहनं रभसास्त्रं च सर्वनाहं पराङ्मुखम् ॥३४॥
जृम्भकं प्रतिहारं च तथा वरणमुत्तमम्।
अवाङ्मुखं धनं धान्यं वृषाक्षं कामरूपकम् ॥३५॥
दृढनाहं कामरुचिं सुनाभं मकरं तथा।
दशाक्षं वृत्तिमन्तं च दशवक्त्रं तथापरम् ॥३६॥
रुचिरं दशशीर्षं च योगं धरममित्रहम्।
अनिद्रं मकरं चैव भोक्तारं कङ्कणीं तथा ॥३७॥

शतोदरं सौमनसं पद्मनाभं तथैव च।
महानाभं प्रमथनं ज्यौतिषं क्रथनं तथा ॥३८॥
त्रैराशिं सार्चिमालिं च विमलां धृतिकां तथा।
सृष्टिं तथा विषामास्त्रं सुध्याताहं तथैव च ॥३९॥
विधूतं कृशनं चैव लक्षाक्षं कर्शनं तथा।
उपसंहाररूपाणि सर्वाण्यस्त्राण्यमूनि वै।
जनयामास देवोऽसौ स्वापराङ्गात् परंतपः ॥४०॥
अध्यायार्थनिगमनम्
एवमुक्तानि नामानि जन्मान्यापि च नारद।
अस्त्राणामपि माहात्म्यं यन्त्रस्यास्य समासतः ॥४१॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अस्त्राणां जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः
आदितः श्लोकाः १८२५

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP