अहिर्बुध्नसंहिता - अध्यायः २६
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
महासुदर्शनयन्त्रलक्षणं नाम षड्विंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघोघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
विस्तरेण महासुदर्शनयन्त्रलक्षणप्रश्नः
नारदः---
विस्तरेणास्य यन्त्रस्य संस्थानं लक्षणं तथा।
श्रोतुमिच्छामि भगवंस्तन्ममाचक्ष्व पृच्छतः ॥१॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः---
विस्तरेण प्रवक्ष्यामि स्वरूपं लक्षणं तथा।
अस्य यन्त्रस्य देवर्षे तन्मे कथयतः श्रृणु ॥२॥
यन्त्रनिर्माणद्रव्याणि
रजतेन सुवर्णेन लोहैर्वा शिलयापि वा।
यथाधिकारं यन्त्रस्य कुर्यादर्चां तु साधकः ॥३॥
यन्त्रलेखनसाधनद्रव्याणि
धातुचन्दनकर्पूरकुङ्कुमागुरुजै रसैः।
सुवर्णसूच्या यदि वा यन्त्रमेतल्लिखेत् पटे ॥४॥
यन्त्रमध्ये सौदर्शनपुरुषलेखनम्
चन्द्रमण्डलमध्ये तु तारं कुर्यात् समाहितः।
तस्य मध्ये लिखेद् देवं रक्तवर्णं सुदर्शनम् ॥५॥
तत्स्वरूपवर्णनम्
पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं विभुम्।
युक्तं षोडशभिर्हस्तैरष्टाभिर्वा महाद्युतिम् ॥६॥
पाशाङ्कुशाब्जमुसलधनुः शङ्खगदारिभिः।
भीषणैरायुधवरैरुपेतं जयिनां वरम् ॥७॥
तद्विष्णोः परमं रूपं नित्यं तैजसविग्रहम्।
दंष्ट्रानिष्ठ्यूतसप्तार्चिर्ज्वालापल्लविताननम् ॥८॥
भूषणैर्भूषितं चित्रैर्भीषणं रोमहर्षणम्।
स्वतेजसा जगत् सर्वं पूरयन्तं महाबलम् ॥९॥
निर्भिद्यमानदैतेयशोणिताशनलम्पटम्।
उद्यत्प्रद्योतनशतप्रख्यं विख्यातपौरुषम् ॥१०॥
मनस्तत्त्वेन सततं संश्रितं वेगवत्तया।
नारायणकराम्भोजसेवारसविशारदम् ॥११॥
जवेन विष्णुचिन्तायाः परमं मार्गदर्शिनम्।
स्मृत्यैव स्वानुरक्तानां दृष्टादृष्टार्थसाधनम् ॥१२॥
स्वभक्तप्रत्यनीकानां मारणं सुरपूजितम्।
संस्तूयमानचरितं सिद्धगन्धर्वदानवैः ॥१३॥
तस्य सर्वशरण्यत्वं निर्दोषत्वं कल्याणगुणाकरत्वं च
भक्तारिभञ्जनपरं शरण्यं शरणार्थिनाम्।
नित्यनिः सीमनिर्दोषकल्याणगुणसागरम् ॥१४॥
तत्पादप्रान्ते साधकनामलेखनम्
एवंभूतं समालिख्य सदानन्दं सुदर्शनम्।
तत्पादपद्मपर्यन्ते साधकं नाम विन्यसेत् ॥१५॥
ततः पर्यन्ते षट्कोणचक्रलेखनम्
इन्दुबिम्बस्य पर्यन्ते षट्कोणं चक्रमालिखेत्।
आग्नेयममितप्रख्यममोघं सर्वसाधकम् ॥१६॥
तत्र षडक्षरविन्यासः
प्राच्यादिदिक्षु कोणेषु षड् वर्णान् विन्यसेन्मनोः।
अङ्गमन्त्रन्यासः
षट्सु कोणान्तरालेषु त्वङ्गमन्त्रान् न्यसेत् क्रमात् ॥१७॥
ततश्चतुर्दलपद्मलेखनम्
अस्माद्बहिस्तथा पद्मं चतुर्दलसमन्वितम्।
तत्र न्यसनीया वर्णाः
सबिन्दुवर्म फट् चास्य दलेष्वेषु क्रमान्न्यसेत् ॥१८॥
अन्तरालेष्वन्तः स्थवर्णविन्यासः
दलान्तरालेष्वन्तः स्थान् विन्यसेत् साधकस्तथा।
ततः षोडशकेसराष्टदलपद्मलेखनम्
बाह्यो तत्राष्टपत्राब्जमन्तः षोडशकेसरम् ॥१९॥
केसरेषु षोडशस्वरविन्यासः
केसरेषु क्रमादस्य विलिखेत् षोडश स्वरान्।
दलेष्वष्टाक्षरमन्त्रन्यासः
अष्टाक्षरं महामन्त्रं दलेष्वस्य समालिखेत् ॥२०॥
द्वात्रिंशत्केसरषोडशदलपद्मलेखनम्
द्वात्रिंशत्केसरं चास्य बहिः षोडशपत्रकम्।
केसरेषु कादिसान्तवर्णविन्यासः
ककारादि सकारान्तं केसरेष्वस्य चालिखेत् ॥२१॥
दलेषु षोडशार्णमन्त्रवर्णन्यासः
दलेष्वस्य लिखेन्मन्त्रं षोडशार्णं तु वैष्णवम्।
द्वात्रिंशत्केसरदलपद्मलेखनम्
द्वात्रिंशत्केसरदलं बाह्ये तस्य समालिखेत् ॥२२॥
केसरेषु वाराहानुष्टुभमन्त्रवर्णन्यासः
केसरेष्वस्य पद्मस्य प्राच्यादिषु यथाक्रमम्।
मन्त्रमानुष्टुभं सम्यग्वाराहं विलिखेत् परम् ॥२३॥
दलेषु नारसिंहानुष्टुभमन्त्रवर्णन्यासः
द्वात्रिंशति दलेष्वस्य नारसिंहं क्रमाल्लिखेत्।
आनुष्टुभं महामन्त्रममोघं सर्वसाधकम् ॥२४॥
चतुः षष्टिदलपद्मलेखनम्
तस्य बाह्ये लिखेत् पद्मं चतुः षष्टिदलैर्युतम्।
तद्दलेषु पातालनारसिंहमन्त्रन्यासः
पातालनारसिंहाख्यं नद्दलेषु न्यसेन्मनुम् ॥२५॥
पुनरष्टदलपद्मलेखनम्
पुनश्च पद्मं विन्यस्य दलैरष्टभिरावृतम्।
तद्दलेष्वष्टाक्षरनारसिंहमन्त्रन्यासः
अष्टाक्षरं नारसिंहं तद्दलेषु समालिखेत् ॥२६॥
तद्वहिर्माहेन्द्रमण्डलकल्पनम्
तद्बाह्ये मण्डलं कुर्यान्माहेन्द्रं वज्रभूषितम्।
जाज्वल्यमानं स्वेनैव सर्वालंकारमण्डितम् ॥२७॥
तद्बिहिः साधकनाम्ना सह तद्बीजन्यासः
तस्य बाह्ये महादिक्षु प्रागादिषु यथाक्रमम्।
तद्बीजं विन्यसेद्वीमान्निजनाम्ना ९समन्वितम् ॥२८॥
बहिष्कोणेष्वन्तः स्थवर्णन्यासः
बहिष्कोणेषु चतुर्षु तथान्तःस्थान् प्रकल्पयेत्।
कोणान्तरालेषु तद्बीजन्यासः
कोणाभ्यन्तरभागेषु तद्वीजं विन्यसेत् पुनः ॥२९॥
तत्परितः स्वराणां प्रातिलोम्येन विन्यासः
परितस्तत् स्वरान् सर्वान् प्रातिलोम्येन चालिखेत्।
तत्परितः सादिकान्ताक्षरविन्यासः
सकारादि ककारान्तं विन्यसेत् परितस्तथा ॥३०॥
स्वनाम्ना पाशाङ्कुशाभ्यां चावेष्टनम्
विदर्भितं स्वनाम्नैव परितोऽन्त्ययुगं न्यसेत्।
पाशेनावेष्टयेदेतदङ्कुशेन तथातुरः ॥३१॥
भूपुरकल्पनम्
पुटितं भूपुरं तस्य बाह्ये कुर्यादतन्द्रितः।
समन्तात् केशवादिमूर्तिन्यासः
केशवादीन् मूर्तिमतः समन्तादस्य विन्यसेत् ॥३२॥
केशवस्वरूपवर्णनम्
तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम्।
अपारकरुणं पद्मशङ्खचक्रगदाधरम् ॥३३॥
पीताम्बरधरं देवं वनमालाविभूषितम्।
हारकेयूरकटककुण्डलैरुपशोभितम् ॥३४॥
चतुर्बाहुमुदाराङ्गं प्रसन्नवदनं विभुम्।
प्रागादि विन्यसेद् देवं केशवं क्लेशनाशनम् ॥३५॥
नारायणस्वरूपवर्णनम्
शङ्कपद्मगदाचक्रधरं नीलाम्बुदच्छविम्।
सर्वालंकारसंयुक्तं कुर्यान्नारायणं ततः ॥३६॥
माधवस्वरूपवर्णनम्
पद्मकौमोदकीशङ्खचक्रधारिणमव्ययम्।
देवमिन्दीवरश्यामं माधवं भावयेत् ततः ॥३७॥
गोविन्दस्वरूपवर्णनम्
चक्रकौमोदकीशङ्खपद्मायुधविराजितम्।
इन्दुबिम्बनिभं कुर्याद् गोविन्दममितौजसम् ॥३८॥
विष्णुस्वरूपवर्णनम्
गदाब्जशङ्खचक्रास्त्रधरं परमभूषितम्।
विष्णु विश्वपतिं कुर्यात् पद्मकिञ्जल्कसंनिभम् ॥३९॥
मधुसूदनस्वरूपवर्णनम्
चक्रशङ्खाम्बुजगदाधारिणं करुणानिधिम्।
रक्तपद्मदलप्रख्यं भावयेन्मधुसूदनम् ॥४०॥
त्रिविक्रमस्वरूपवर्णनम्
चक्रकौमोदकीपद्मशङ्खसेवितमीश्वरम्।
उज्ज्वलत्कनकप्रख्यं तं कुर्वीत त्रिविक्रमम् ॥४१॥
वामनस्वरूपवर्णनम्
शङ्खचक्रगदापद्मधरं परमभूषितम्।
तरुणादित्यसंकाशं वामनं भावयेत् ततः ॥४२॥
श्रीधरस्वरूपवर्णनम्
पद्मचक्रगदाशङ्खधरं सद्गुणसागरम्।
पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् ॥४३॥
हृषीकेशस्वरूपवर्णनम्
गदासुदर्शनयुते शङ्खपद्मे च बिभ्रतम्।
विद्युत्प्रभं हृषीकेशं कुर्वीत कमलेक्षणम् ॥४४॥
पद्मनाभस्वरूपवर्णनम्
शङ्खपद्मे गदाचक्रे तथा बिभ्राणमुज्ज्वलम्।
सहस्रादित्यसंकाशं पद्मनाभं तु कारयेत् ॥४५॥
दामोदरस्वरूपवर्णनम्
पद्मशङ्खगदाचक्रधरं बन्धूकसंनिभम्।
भक्त्येकसुलभं देवं दामोदरमथ स्मरेत् ॥४६॥
नमोऽन्तानां तत्तन्नाम्नामपि लेखनम्
एवं क्रमेण न्यस्यैतानेषां नामानि च न्यसेत्।
नमोऽन्तान्यमुक्तं रक्ष रक्षेति च समन्ततः ॥४७॥
प्रागादिषु प्रादक्षिणयेन बीजाक्षरन्यासः
यं शं रं षं तथा लं सं वं हं चेति द्वयं द्वयम्।
प्राच्यादिषु महादिक्षु प्रादक्षिण्येन विन्यसेत् ॥४८॥
ऐशान्यादिष्वप्रादक्षिण्येन बीजाक्षरन्यासः
यं शं रं षं तथा लं सं वं हं चेति युगं युगम्।
ऐशान्यादिषु कोणेषु विन्यसेदप्रदक्षिणम् ॥४९॥
पुनः पाशाङ्कुशाभ्यां वेष्टनम्
पाशेन तु समावेष्ट्य अङ्कुशेनापि वेष्टयेत्।
सर्वमेतत् सबीजेन हृल्लेखमनुना वृतम् ॥५०॥
प्रागादिचतुर्दिक्षु विष्णुविन्यासस्तेषामायुधानि च
प्रागादिषु चतुर्दिक्षु विन्यसेद् विष्णुमव्ययम्।
चक्रकौमोदकीशार्ङ्गखड्गैर्युक्तं यथाक्रमम् ॥५१॥
साधारणौ च सर्वेषां सङ्खचक्रौ वरायुधौ।
आग्नेयादिकोणेषु हृषीकेशन्यासः
आग्नेयादिषु कोणेषु हृषीकेशं ततो न्यसेत् ॥५२॥
तेषामायुधविशेषाः
शङ्खं हलं च मुसलं शूलं चैतेषु धारयेत्।
कोणान्तरालेष्वष्टसु जनार्दनविन्यासः
विकोणेष्वष्टसु तथा जनार्दनमथो न्यसेत् ॥५३॥
तेषामायुधविशेषाः
दण्डं कुन्तं तथा शक्तिं पशमङ्कुशमेव च।
वज्रं तथैव परशुं तथा शतमुखानलम् ॥५४॥
करेष्वमीषामेतानि विलिखेत्तु यथाक्रमम्।
तत्तत्पार्श्वेषु तत्तत्परीवारलेखनम्
प्रत्येकं परिवारांस्तु तेषां पार्श्वेषु विन्यसेत् ॥५५॥
ततो भूमौ भूम्या सह पुरुषोत्तमस्मरणम्
वराहरूपिणं देवं शङ्खचक्रगदाधरम्।
भूमौ च सहितं भूम्या संस्मरेत् पुरुषोत्तमम् ॥५६॥
अम्बरे नरसिंहस्मरणम्
अम्बरे नारसिंहं तु चिन्तयेदमितौजसम्।
भीषणं घटितानेकभूषणं दारितासुरम् ॥५७॥
प्रागादिषु चक्रगदाशार्ङ्गखड्गस्मरणम्
प्राच्यां दिशि महाज्वालागतं चक्रं स्मरेद्बुधः।
दक्षिणस्यां दिशि तथा स्मरेज्ज्वालागतां गदाम्॥ ५८॥
प्रतीच्यां शार्ङ्गमत्युग्रज्वालामध्यगतं स्मरेत्।
उत्तरस्यां दिशि तथा स्मरेत् खड्गं सुदारुणम् ॥५९॥
अस्य यन्त्रस्यापराङ्गकल्पनाय मध्ये चतुर्विंशत्यरचक्रकल्पनम्
अपराङ्गेऽथ यन्त्रस्य मध्ये चक्राब्जसंस्थितम्।
चतुर्विंशत्यरं चक्रं सुनेमि रुचिराकृति ॥६०॥
तन्मध्ये द्वादशदलपद्मलेखनम्
मध्येचक्रं न्यसेत् पद्मं युक्तं द्वादशभिर्दलैः।
तत्कर्णिकायामाग्नेयमण्डलन्यासः
चक्राब्जकर्णिकास्थाने न्यसेदाग्नेयमण्डलम् ॥६१॥
तन्मध्ये योगनृसिंहलेखनम्
तन्मध्ये योगपट्टेन पिनद्धाङ्गं सनातनम्।
नारसिंहं चतुर्बाहुं चतुश्चक्रधरं परम् ॥६२॥
समासीनमशोकस्य मूले कालानलद्युतिम्।
सर्वाभरणसंयुक्तं सर्वभक्तार्तिहारिणम्॥ ६३॥
अपारसंख्यकल्याणगुणपूर्णमहार्णवम्।
भक्तानुकम्पिनं नित्यं सर्वलोकैकनायकम् ॥६४॥
तत्पादपर्यन्ते द्वयोस्तद्भृत्ययोर्विन्यासः
एवं विन्यस्य तत्पादपर्यन्ते विन्यसेदुभौ।
तदाज्ञाकारिणौ भीमौ नीलनीरदविग्रहौ ॥६५॥
उदग्रकायौ भीमाक्षौ भीमायुधधरौ वरौ।
दंष्ट्राकरालवदनौ विन्यसेद् वृत्तलोचनौ ॥६६॥
चक्रस्य प्रागादिष्वष्टशक्तिध्यानम्
चिन्तयेदथ चक्रस्य समन्तादष्ट योषितः।
ऊर्ध्वमाबद्धकेशाढ्यास्तच्छक्तीः प्राप्तयौवनाः ॥६७॥
सर्वालंकारसंयुक्ता द्विभुजा माल्यधारिणीः।
प्राच्यां दिशि जयां देवीं पीतवर्णां विचिन्तयेत् ॥६८॥
आग्नेय्यां मोहिनीं देवीं श्यामलामायतेक्षणाम्।
याम्यामनुस्मरेद् देवीं विजयां कृष्णरूपिणीम् ॥६९॥
रक्तवर्णां तथा देवीं नैर्ऋत्यां ह्लादिनीं तथा।
अजितां पीतवर्णां तु प्रतीच्यां संस्मरेत् पराम्॥ ७०॥
वायव्यां दिशि मायां तु कृष्णवर्णां सनातनीम्।
उदीच्यां रक्तवर्णां तामाशायामपराजिताम् ॥७१॥
ऐशान्यां संस्मरेत् सिद्धिं धूम्रवर्णामतः परम्।
यथोक्तलक्षणयन्त्रमहिमा
एवमेतन्महायन्त्रं महापातकनाशनम् ॥७२॥
आयुरारोग्यधनदं पुत्रमित्रकलत्रदम्।
सर्वविघ्नोपशमनं सर्वदुष्टनिवारणम् ॥७३॥
यो यदर्थी लिखेद्यन्त्रं तत् तदस्य प्रयचछति।
मणिविद्रुममुक्ताढ्यं कुर्याद् यन्त्रं हिरण्मयम् ॥७४॥
राजा चेद्राज्यमाप्नोति निष्कण्टकमनामयम्।
भूर्जपत्रलिखितस्यापि यन्त्रस्य सर्वफलसाधनता
भूर्जपत्रे लिखित्वैतत् कुङ्कुमैश्चन्दनेन तु ॥७५॥
यो मर्त्यः शिरसा धत्ते तस्य स्यात् सर्वमीप्सितम्।
पिशाचोरगरक्षांसि क्षिप्रं नश्यन्ति तस्य वै ॥७६॥
एतद्यन्त्रशिलाप्रतिष्ठाया मुक्तिसाधनत्वम्
शिलाप्रतिष्ठां यः कुर्यादेतस्य जगतीतले।
सर्वान् कामानिहावाप्य विष्णुसायुज्यमाप्नुयात् ॥७७॥
लोहादिभिर्यन्त्रप्रतिमानिर्माणफलम्
लोहैर्वा रजतेनाथ यः कुर्यात् प्रतिमां बुधः।
त्रिवर्गफलमाप्नोति निर्वाणमचिरात् पुनः ॥७८॥
कर्षणादिप्रतिष्ठान्तायतननिर्माणफलम्
कर्षणादि प्रतिष्ठान्तं कुर्यादायतनं च यः।
आप्नुवन्ति च तद्वंश्याः पुण्यलोकाननुत्तमान् ॥७९॥
भयादिषु यन्त्रस्मरणए फलम्
भयागमे च संग्रामे वादे वा यः स्मरेदिदम्।
विजयस्तस्य हस्तस्थो नात्र कार्या विचारणा ॥८०॥
त्रिसंध्यं यन्त्रार्चनं मुक्तिसाधनम्
अर्चयेद्यस्त्रिसंध्यं वै यन्त्रमेतदनुत्तमम्।
तापत्रयविनिर्मुक्तो विष्णुलोके महीयते ॥८१॥
रक्षाविधौ राज्ञां वैशेषिकविध्यारम्भः
राज्ञां रक्षाविधाने तु विशेषं श्रृणु नारद।
राज्यार्थी हृतराज्यो वा परिभूतोऽथवा नृपैः॥ ८२॥
तत्र प्रथममाचार्यपूजाविधिः
सौदर्शनस्य यन्त्रस्य प्रदातारं गुरुं परम्।
सर्वेभ्यो ह्यधिकं मत्वा तमभ्यर्च्यं महाधनैः ॥८३॥
ततो भगवदाराधनविधिः
ततो नारायणं देवं पुण्डरीकायतेक्षणम्।
श्यामलं पीतवसनं सर्वाभरणभूषितम् ॥८४॥
आराधयेच्चतुर्बाहुमाचार्योक्तविधानतः।
ततो यन्त्रनिर्माणम्
तप्तजाम्बूनदमयं मणिविद्रुमचित्रितम् ॥८५॥
सर्वालंकारसंयुक्तं कारयेद्यन्त्रमुत्तमम्।
यन्त्रनिर्माणस्य राज्यप्राप्तिहेतुत्वम्
एतत्करणमात्रेण राज्यमाप्नोत्यनामयम् ॥८६॥
प्रतिष्ठापूर्वकार्चनस्य सप्तद्वीपान्तभूमिप्राप्तिहेतुत्वम्
प्रतिष्ठाप्यार्चयेदेतत् सादरं सर्वसिद्धिदम्।
ततो भूमिमवाप्नेति सप्तद्वीपां सपत्तनाम् ॥८७॥
अन्ततस्त्रैलोक्यपालयितृत्वसिद्धिः
वश्या भवन्ति सततं सिद्धगन्धर्वदानवाः।
त्रैलोक्यराज्यमखिलं पालयत्यवनीतले ॥८८॥
परकृताभिचारपरावर्तनसिद्धिः
अभिचाराः परकृताश्चैनमप्राप्य भीषिताः।
प्रविशन्ति प्रयोक्तारमापगेवाचलाहता ॥८९॥
अवग्रहादिपरिहारसिद्धिः
अवग्रहाश्च नश्यन्ति शत्रवो विद्रवन्ति च।
अपमृत्युमृगव्यालचोररोगादिभिर्भयम् ॥९०॥
न तस्य राज्ये भवति विद्यते तत्कुले बलम्।
सर्वेषां स्वधर्मप्रवृत्तिसिद्धिः
सर्वे स्वेष्वेव धर्मेषु प्रवर्तन्ते सदा मुने ॥९१॥
दुर्वाससा सप्तस्येन्द्रस्य यन्त्रेणानेन पुनः स्वपदप्राप्तिः
पुरा दुर्वाससः शापाद्धृतराज्ये शचीपतौ।
एतत्प्रसादादखिलं पुनः प्राप त्रिविष्टपम् ॥९२॥
चतुर्मुखस्य भगवत्सकाशाद्यन्त्रप्राप्तिः
एतत् पुरा महायन्त्रं ब्रह्मणे प्रोक्तवान् हरिः।
चतुर्मुखेन विश्वकर्मणा यन्त्रविमानयोर्निर्मापणम्
ब्रह्मा च विश्वकर्माणमाहूयैतदकारयत् ॥९३॥
विमानं च तदारभ्य देवगन्धर्वदानवाः।
तदा प्रभृति यन्त्रस्यैव रक्षासाधनत्वम्
अनेन रक्षणविधिं चक्रुः पूर्वे नृपास्तथा।
तस्माद्राज्ञां च सर्वेषामेष रक्षाविधिः परः ॥९४॥
अध्यायार्थनिगमनम्
अभिनवदिननाथप्रोज्ज्वलद्बिम्बतुल्यं
कमलभवमुखाद्यैः संश्रितं देवबृन्दैः।
परिगतमपि भूतैः पञ्चभिः सेव्यमानं
प्रकृतिमहदहंकारैः स्मरेद्यन्त्रराजम् ॥९५॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां महासुदर्शनयन्त्रलक्षणं नाम षड्विंशोऽध्यायः
आदितः श्लोकाः १५६५
N/A
References : N/A
Last Updated : March 08, 2021
TOP