अहिर्बुध्नसंहिता - अध्यायः २४

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


यन्त्रदेवताध्याननिरूपणं नाम चतुर्विंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
उक्तानामष्टानां चक्राणां संक्षेपेण फलकथनम्
अहिर्बुध्न्यः---
सोमसूर्यदहनप्रभोज्जवलं
चक्रमेतदुदितं महामुने।
वाङ्भयं सकलमन्त्रसंमितं
शब्दशब्द्यमखिलं यदुद्गतम् ॥१॥
ब्रह्मचक्रमुदितं यदान्तरं
केवलं विमलधीप्रदं मुने।
विष्णुचक्रमुदितं यदद्भुतं
व्याप्तिकान्तिमतिविक्रमप्रदम् ॥२॥
यत् तृतीयमुदितं महाद्भुतं
चक्रमुज्ज्वलयशोऽर्थदं तु तत्।
यत्तु चक्रमुदितं तुरीयकं
मोक्षदं मुनिगणोदितं मुने ॥३॥
पञ्चमं विजयदायि कीर्तिदं
षष्ठमुग्रगदमृत्युनाशनम्।
ब्रह्मवर्चसविधायि सप्तमं
संपदर्थविजयार्थमष्टमम् ॥४॥
विस्तरेण तन्महिमवर्णनस्याशक्यत्वम्
एकैकशोऽल्पश इदं गदितं फलं ते
चक्राष्टके सकलयोगिमुनीन्द्रवन्द्ये।
वर्षायुतैर्बहुभिरप्यखिलान्मकस्य
शक्या न विस्तृतिरमुष्य मयाभिधातुम् ॥५॥
मन्त्राक्षरप्रथितभावविभेदपूर्वं
मन्त्री यजेत विधिवन्मनुदेवतास्ताः।
आकारशक्तिपरिवारविभूषणास्त्र-
वीर्यप्रभावविषयैश्च विचिन्तयेत् ताः ॥६॥

तत्तच्चक्रदेवतास्वरूपतद्ध्यानादिप्रपञ्चन्म्
आद्यं निरञ्जनमशेषजगत्प्रसूति-
त्राणप्रमाथनियमोद्यदनुहग्रहस्थम्।
संपूर्णशक्तिमतरङ्गमहार्णवाभं
ध्यायेद्धरिं प्रणवगोचरमादिचक्रे ॥७॥
श्वेतं प्रसन्नवदनं कमलायताक्षं
पीताम्बरं पृथुलवक्षसमात्मयोनिम्।
पीनोरुदीर्घभुजबृन्दधृतारिशङ्ख-
कौमोदकीसरसिजं खलु विष्णुचक्रे ॥८॥
श्यामं किरीटिनमुदारचतुर्भुजस्थ-
कौमोदकीकमलवारिजवर्यचक्रम्।
नारायणं नयननन्दनमादिदेवं
ध्यायेच्छ्रिया सह तृतीयपदस्थचक्रे ॥९॥
कुन्देन्दुगौरमरविन्ददलायताक्षं
शुद्धाक्षमालममलोद्यतबोधमुद्रम्।
बाहुद्वयीविधृतचक्रविशुद्धशङ्खं
तं वासुदेवमिति चिन्तय तुर्यचक्रे ॥१०॥
शङ्खारिपङ्कजगदाङ्कुशपाशशार्ङ्ग-
सौनन्दकान् दधतमष्टभिरुग्रहस्तैः।
तार्क्ष्यस्थितं रजतशैलनिभं पुराणं
संचिन्तयेदजितचक्रगतं पुमांसम् ॥११॥
क्रूरोग्रवक्रनखकोटिनिकृत्तदैत्य-
वक्षःस्थलोच्चलितशोणितदिग्धदेहम्।
घोरप्रकारनयनत्रयदुर्निरीक्षं
षष्ठे विचिन्तय मुने नरसिंहमीशम् ॥१२॥
सोमाग्निसूर्यकिरणोद्नमपुञ्जकुञ्जृ
मध्यस्थितं विधृतपद्मगदारिशङ्खम्।
छन्दःस्थितं भुवनकारणमप्रमेयं
श्रीशं विचिन्तय मुने पुरुषं पुराणम् ॥१३॥
मातृकाचक्रे लक्ष्म्या ध्येयत्वम्
गोक्षीरशङ्खहिमदीधितिदेवसिन्धु-
कुन्दप्रभाविमलपङ्कजशङ्खहस्ता।
स्मेरप्रसन्नवदना कमलायताश्री
ध्येया स्वचक्रभवनोपरि मातृका सा ॥१४॥
आलोलशूलदशकं त्रियुगाधिकं स्वै-
र्हस्तैर्द्विरष्टभिरथो दधती जपाभा।
चिन्तामणिस्थितिमती नयनत्रयाढ्या
शक्तिर्हरेरिति मुने मनसा विचिन्त्या ॥१५॥
पूर्णेन्दुशीतलरुचिर्धृतबोधमुद्रा
बाह्वन्तरस्थनिजबोधनपुस्तकाढ्या।
देवी परा परमपूरुषदिव्यशक्ति-
श्चिन्त्या प्रसन्नवदना सरसीरुहाक्षी ॥१६॥
पद्मारुणाभयवराङ्कुशपाशहस्ता
रक्ताम्बरा विपुलवारिजपत्रनेत्रा।
सूक्ष्मप्रभास्थितपरावरतत्त्वजाता
चिन्त्यादिशक्तिरपि सा च परावराख्या ॥१७॥
बाहुस्थपाशवलिताखिलजीववर्गा
बन्धूकपद्मकुसुमारुणदेहकान्तिः।
पीनस्तनी मदविघूर्णितनेत्रपद्मा
लक्ष्मीशपार्श्वनिलयाखिलदेवतेयम् ॥१८॥
वक्राग्रनासिनिशिताङ्कुशकीलितेन
नम्रेण जीवनिकरेण समीड्यमाना।
दिव्याङ्कुशस्थितिमती हरिशक्तिराद्या
ध्येया समाधिनिरतेन महाप्रभावा ॥१९॥
अङ्गमन्त्रदेवतातद्ध्यानादिप्रपञ्चनम्
अङ्गं तु चक्रमयदेवसमानरूप-
माचक्रपूर्वमखिलं गदितं यदादौ।
गायत्र्यपि ज्वलितपावकतुल्यवर्णा
चक्रेशतुल्यविभवा विपुलस्तनाढ्या ॥२०॥
ज्वालाकुलद्रुतसमस्तसुरारिवर्गं
प्राकारमग्निमयमेव वदन्ति सन्तः।
व्योमस्थशक्तिरपि सूर्यसहस्रमाला
नीलाम्बुजद्युतिमती मनसा विचिन्त्या ॥२१॥
मालां चतुर्गतिमयीं वपुषा दधाना
वायुस्थशक्तिरपि धूम्रतनुर्विचिन्त्या।
कालान्‌लाख्यतरुणार्कसहस्रमाला
तेजःस्थशक्तिरपि रक्ततनुर्विचिन्त्या ॥२२॥
पीयूषरूपरचना सलिलस्थशक्ति-
धर्येया १४वराहनियुतायुतक्लृप्तमाला।
उत्तप्ककाञ्चनरुचिः पुरुषेश्वराढ्या
भूशक्तिरादिपुरुषस्य विचिन्तनीया ॥२३॥
सुदर्शनमयसर्वचक्रकूटध्यानम्
कालानलायुतसहस्रसमानरूपं
कूटं सुदर्शनमयं मनसा विचिन्त्यम्।
तापातुरक्वथदशेषसुरारिमेदो-
निष्यन्दमेदुरितदीप्तिशिखाजटालम् ॥२४॥
सौदर्शनसर्वमन्त्रमूलभूतशक्तिध्यानम्
सूर्येन्दुवह्निनयना तरुणार्कवर्णा
व्याप्य स्थिता जगदशेषमशेषवन्द्या।
चक्राणि बाहुनिवहैर्दधती सहस्रं
योनिः सुदर्शनमनोरिति चिन्तनीया ॥२५॥
उक्तेषु यन्त्रेषु द्विजस्यैवाधिकारः
लेशतो गदितमेतदुदारं
रक्षणं सकललोकहिताय।
भूपतेरनुमतो द्विजवर्यो
भावयेदनिशमेतदतन्द्री ॥२६॥

उक्तयन्त्राणामानुषङ्गिकफलपूर्वकमुक्तिरूपपरमफलसाधनत्वम्
नाद्रवन्ति दुरितानि कदाचि-
द्विद्रवन्ति निखिला ग्रहरोगाः।
वर्धते वसुमती बहुसस्या
न त्रिवर्गविहतिर्मनुजानाम् ॥२७॥
धर्मार्थकामबहुलाश्चिरजीविनश्च
हीनाश्च पाप्मभिरुदारयशः प्रतापाः।
आराध्य शास्त्रनिरता विहितक्रियाभि-
रन्ते विशन्ति विमलाः परमं पुमांसम् ॥२८॥
सौदर्शनमन्त्रेष्वभिक्रमनाशाद्यभावः
दिव्यो विधिः कथित एष मुने समस्तो
विप्रैर्नृपैर्धृतसमाधिभिरत्र भाव्यम्।
अस्मिन् समाधिविरही ललितक्रियोऽपि
यत्नोचितं लभत एव फलं मनुष्यः ॥२९॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां यन्त्रदेवताध्याननिरूपणं नाम चतुर्विशोऽध्यायः
आदितः श्लोकाः १४४४

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP