अहिर्बुध्नसंहिता - अध्यायः ८
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
जगदाधारनिरूपणं नाम अष्टमोऽध्यायः
सृष्टौ वादिनां बहुधा विप्रतिपत्तिः
नारदः---
भगवन् देवदेवेश भगनेत्रविनाशन।
श्रुतं मयैतदखिलं तव वक्त्राम्बुजस्रुतम् ॥१॥
व्याकुलस्त्वन्तरात्मा मे नानाज्ञानविमोहितः।
केचित् त्रैभूतिकीं सृष्टिं ब्रुवते तत्त्ववादिनः ॥२॥
चतुर्भूतमयीमन्ये केऽप्यन्ये पाञ्चभौतिकीम्।
तां षड्धातुमयीमेके सप्तधातुमयीं परे ॥३॥
अष्टप्रकृतिकां केचिन्नवप्रकृतिकां परे।
दशतत्त्वमयीमेके केचिदेकादशात्मिकाम् ॥४॥
एवमुच्चावचां संख्यां तत्त्वप्रकृतिगोचराम्।
वदन्ति मुनयः सिद्धा देवा वेदास्तथैव च ॥५॥
अण्डजामपरे सृष्टिं पद्मजामपि चापरे।
पावकीमपरे सृष्टिं केचित् कायान्तरोद्भवाम् ॥६॥
विद्यागर्भमयीमेके शून्यरूपमथापरे।
तत्र तत्त्वजिज्ञासया प्रश्नः
इत्थमुच्चावचार्थास्ते नानाशास्त्रमहोदधौ ॥७॥
नानादर्शनकल्लोलजातकोलाहलोद्भटे।
विमुह्यत्यवमग्नेयमप्लवा बुद्धिरद्य मे ॥८॥
निर्णयप्लवदानेन तामुत्तारय शंकर।
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
उचितं तव देवर्षे यदयं प्रश्न ईरितः ॥९॥
मुह्यन्त्यत्र महान्तोऽपि शृणु मे तत्त्वनिर्णयम्।
परमात्मा परो देव एकः षाड्गुण्यमुज्ज्वलम् ॥१०॥
वेदवाचोऽपि कार्त्स्न्येन तत्त्वावगाहनासामर्थ्यम्
वागनादिरनन्तापि तत्त्वं तन्नावगाहते।
गुणैस्तटस्थितैस्तैस्तैरजानानेव सा स्थिता ॥११॥
विप्रतिपत्तौ हेतुकथनम्
यद्गुणे नाम्नि ये श्रान्तास्तत्र तत्त्वविदो मुने।
मनुभिस्तद्गुणैस्तैस्तैस्ते ते तत्त्वविदां वराः ॥१२॥
निर्दिशन्ति जगद्धेतुं १स्वनिरूढैर्महामुने।
नानागुणनिमित्तैस्तैर्नानावक्तृसमीरितैः ॥१३॥
भेदं व्यवस्थिताः शब्दैरपर्यायविदो जनाः।
एकस्या अपि लक्ष्म्या नानाशब्दगोचरत्वम्
एवं विष्णोः प्रिया भाः सा शक्तिः षाड्गुण्यविग्रहा ॥१४॥
नानानामभिरेकापि तत्त्वविद्भिरुपास्यते।
तत्त्वविदां स्वस्वदृष्टार्थवादित्वम्
तस्यां प्रवर्तमानायां स्वसंकल्पेन सर्जने ॥१५॥
तथा निवर्तमानायां स्वसंकल्पेन संहृतौ।
विज्ञानबलवैषम्याद्ये ये तत्त्वविदो मुने ॥१६॥
न्यूनाधिकविभेदेन यावतीर्ददृशुर्भिदाः।
तावतीस्तावतीस्ते ते प्रोचुः शिष्याभिचोदिताः॥ १७॥
अतश्चासर्वदृग्बुद्धिः संख्यासु प्रविमुह्यति।
पितामहादयो ये च जगत्कार्याधिकारिणः ॥१८॥
१तेषां न्यूनाधिभावोऽपि वक्तृभेदात् प्रकल्पितः।
स्वातन्त्र्यमनियोज्यं तु विष्णोः षाड्गुण्यरूपिणः ॥१९॥
तद्बुद्धिरुचिवैचित्र्यादण्डपद्मादिसंभवः।
नानुयोजनमर्हन्ति परमात्मप्रवृत्तयः ॥२०॥
भगवात्प्रकारान्त्यम्
स यथा चेष्टते सृष्टौ स्थितौ संहरणेऽपि वा।
तथा तथा प्रकारास्ते ह्यनन्ताः कालवैभवात् ॥२१॥
वादिनामेकैकप्रकारवादित्वम्
एवं प्रकारनानात्वे देवस्य हरिमेधसः।
कश्चिदेकं परोऽन्यं तु प्रकारमपरोऽपरम् ॥२२॥
धिया विदित्वा प्रोवाच शिष्याय हितकाम्यया।
अतः शास्त्रवैविध्यम्
चित्रा सृष्ट्यादिशास्त्राणां प्रवृत्तिरत ईदृशी ॥२३॥
यथाद्यत्वे मनुष्याणां कर्मवैषम्यसं भवा।
अहोरात्रादिभेदेषु सुखदुःखव्यवस्थितिः ॥२४॥
तथा ब्राह्मेष्वहः स्विष्टा सुखदुःखव्यवस्थितिः।
ब्राह्मकल्पानां नानारूपत्वम्
केचिद्वाताकुला घस्रा ब्रह्मणो मुनिसत्तम ॥२५॥
तथा वर्षाकुलाः केचित् केचिदातपसंकुलाः।
प्रभूतशत्रवः केचित् केचित् सुखमनोहराः ॥२६॥
अनेन निश्चयेनैव धियमास्थाय शाश्वतीम्।
संस्तम्भयान्तरात्मानं व्यामोहस्ते विनश्यतु ॥२७॥
इति नानाविधाकारं क्रियाभूतिविभेदितम् ।
निमित्तोत्पादकाकारं कारणं कथितं मुने ॥२८॥
श्रुतार्थानुवादः
नारदः----
कारणं कथितं देव सर्बज्ञ वृषकेतन।
या सा शक्तिर्जगद्धातुः कथिता समवायिनी ॥२९॥
लक्ष्मीर्नाम द्विधा सा तु क्रियाभूतिविभेदिनी।
या क्रिया नाम संकल्पः स सुदर्शननामवान् ॥३०॥
भूतिर्नाम जगद्रूपा कालाव्यक्तपुमात्मिका।
अशुद्धा शुद्धरूपा तु सा व्यूहविभवात्मिका ॥३१॥
क्रिया प्रवर्तिका भूतेः सा सुदर्शनरूपिणी।
इत्येतद्दर्शितं तत्त्वं देवदेवेन मे श्रुतम् ॥३२॥
द्वितीयप्रश्नस्मारणम्
अधुना श्रोतुमिच्छामि द्वितीयं प्रश्नमीश्वर।
आधारो नाम यः प्रोक्तो जगतां वृषभध्वज ॥३३॥
सुदर्शनस्य जगदाधारत्वम्
अहिर्बुध्न्यः----
श्रृणु नारद तत्त्वेन य आधार उदीर्यते।
येनेदं ध्रियते विश्वं तन्तुना मणयो यथा ॥३४॥
या सा शक्तिर्हरेराद्या लक्ष्मीर्नाम महामुने।
या सा सर्वात्मनो विष्णोर्भावाभावानुयायिनी ॥३५॥
तस्या अल्पायुतांशांशः स्वस्वातन्त्र्यविजृम्भितः।
क्रियाभूतिविभेदेन समुदेतीति वर्णितम् ॥३६॥
सुदर्शनेन क्रियया शङ्कुनेव छदो मुने।
भूतिः सा ध्रियते शश्वद्विस्तरं तत्र मे शृणु ॥३७॥
तत्र महारात्रिधरचक्रं प्रथमम्
संहृताखिलभूतस्य स्तैमित्यं ब्रह्मणो हि यत्।
अप्ययः सा महारात्रिस्तत्संकल्पेन धार्यते ॥३८॥
महारात्रिधरो नाम तदरं वै सुदर्शनम्।
तदेकारं महच्चक्रमद्यत्वे चिन्त्यते सुरैः ॥३९॥
उषश्चक्रं द्वितीयम्
यत् सिसृक्षामयं रूपं ब्रह्मणः शक्तिसंभवम्।
ज्वालेन वायुना वह्नेः संकल्पेन तदीर्यते ॥४०॥
उषश्चक्रं तदुद्दिष्टमरद्वितयभूषितम्।
भूतिकामैरजस्रं तद्ब्रह्मणा चैव धार्यते ॥४१॥
उदयचक्रं तृतीयम्
यः स संकर्षणोन्मेषो यो धारयति तं सदा।
साक्षादुदयचक्रं तद्विज्ञानत्रितयात्मकम् ॥४२॥
स संकर्षणसंकल्पो ज्ञानकामैर्निषेव्यते।
ऐश्वर्यचक्रं चतुर्थम्
यः स प्राद्युम्न उन्मेष ऐश्वर्यमय ऊर्जितः ॥४३॥
वैष्णवेनैव २लाक्ष्मेण स संकल्पेन धार्यते।
तद्वै प्रद्युम्नसंकल्पमैश्वर्यमयमूर्जितम् ॥४४॥
सम्यक् चतुररं चक्रमैश्वर्यस्था उपासते।
शक्तिमहाचक्रं पञ्चमम्।
आनिरुद्धो य उन्मेषः शक्तितेजोविदीपितः ॥४५॥
संकल्पो ब्रह्मशक्त्युत्थस्तं धारयति सर्वदा।
तद्वै शक्तिमहाचक्रं पञ्चारं परिकल्पितम् ॥४६॥
शक्तितेजःसमृद्धयर्थं विश्वे देवा उपासते।
षडरचक्रं षष्ठम्
व्यूहान्तरसमाख्यातं केशवादिद्विषट्ककम् ॥४७॥
सुदर्शनेन ध्रियते येन संकल्परूपिणा।
षडरं तन्महाचक्रं व्यूहान्तरविभावकम् ॥४८॥
ऋत्वरं तत् समाख्यातं व्रतकामा उपासते।
महासुदर्शनचक्रं सप्तमम्
विभवो यः पुरा प्रोक्तः पद्मनाभादिरूर्जितः ॥४९॥
स येन ध्रियते विष्णोः संकल्पेन महामुने।
महासुदर्शनं नाम द्वादशारं तदुच्यते ॥५०॥
विभवान्तरसंज्ञं तद्यच्छक्त्यावेशसंभवम्।
धृतं तद् द्वादशारेण तत्संकल्पेन चक्रिणा ॥५१॥
सहस्रारचक्रमष्टमम्
यत्तु तत् परमं व्योम यद् विष्णोः पदमूर्जितम्।
सहस्रारेण चक्रेण तत्संकल्पेन धार्यते ॥५२॥
एते सौदर्शना व्यूहाः समासेन प्रकीर्तिताः।
आधाराधेयभावेन वर्तन्ते ते स्वयं मुने ॥५३॥
संकल्पः कोटिकोट्यंशः शक्तेर्भूतिस्तथा द्विधा।
शक्तिः सा वैष्णवी सत्ता बहुधैवं प्रभासते ॥५४॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जगदाधारवर्णनं नाम अष्टमोऽध्यायः
आदितः श्लोकाः ५२०
N/A
References : N/A
Last Updated : March 08, 2021
TOP