अहिर्बुध्नसंहिता - अध्यायः २
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
षाड्गुण्यब्रह्मविवेको नाम द्वितीयोऽध्यायः
अहिर्बुध्न्यं प्रति नारदप्रश्नः
नारदः----
मन्त्रग्रामानशेषांस्तान् सूर्यवैश्वानरोपमान्।
अनायासेन जग्राह हरेश्चक्रं सुदर्शनम् ॥१॥
सांसिद्धिकप्रभावोऽयमस्य सांसर्गिकोऽपि वा।
किं तत् सुदर्शनं नाम कश्च शब्दार्थ उच्यते ॥२॥
अहिर्बुध्न्येन संकर्षणात् स्वस्य ज्ञानप्राप्तिकथनम्
अहिर्बुध्न्यः---
श्रृणु नारद तत्त्वेन यत् तज्ज्ञानमनुत्तमम्।
वर्षायुतगणान् घोरं तपस्तप्त्वा मया पुरा ॥३॥
प्राप्तं संकर्षणात् साक्षाद् विज्ञानबलवारिधेः।
ब्रह्मादिषु यदन्येषु ४न महर्षिषु विद्यते ॥४॥
सुदर्शनस्वरूपं तत् प्रोच्यमानं मया श्रृणु।
श्रुते यत्राखिलाधारे संशयास्ते न सन्ति वै ॥५॥
परब्रह्मस्वरूपसंक्षेपः
अनाद्यन्तं परं ब्रह्म यत् तदक्षरमव्ययम्।
अनामरूपसंभेद्यमवाङ्मनसगोचरम् ॥६॥
सर्वशक्ति समस्ताख्यं षाड्गुण्यमजरं ध्रुवम्।
सुदर्शनशब्दार्थनिरूपणम्
तस्य स्यामिति संकल्पो भावतोऽभावतोऽपि वा ॥७॥
स्वातन्त्र्याननुयोज्येन रूपेण परिवर्तते।
यत् तत् प्रेक्षणमित्युक्तं दर्शनं तत् प्रगीयते ॥८॥
वस्तुतः कालतो देशात् तस्य त्वव्याहहिर्हि या।
पूजा सात्र सुशब्दार्थस्तत् सुदर्शनमीर्यते ॥९॥
सर्वस्य सुदर्शनाधीनत्वम्
कारणं जगतो यत् तदाधारो जगतश्च यः।
प्रमाणं जगतो यत् तत् प्रमाणार्थोऽखिलश्च यः ॥१०॥
तत्राधिकारिणो ये च विभागा ये च तद्गताः।
रक्षाविधिश्च यस्तस्य स च यस्य प्रकीर्तितः ॥११॥
सर्वं सुदर्शनायत्तं सुदर्शनमयं च यत्।
इति सांसिद्धिकं रूपं तस्य सर्वातिशायि च ॥१२॥
अस्त्रग्रामेष्वशेषेषु यत् तत् सामर्थ्यमैश्वरम्।
एतदीयमशेषं तदित्याप्तं स्वेन तत् स्वकम् ॥१३॥
पुनर्नारदकृताः प्रश्नाः
नारदः---
देवदेव जगन्नाथ लोकत्रितयशंकर।
विमुह्यतीव चित्तं मे संशयो बहुलीकृतः ॥१४॥
षाड्गुण्यं किं परं ब्रह्मा किंप्रकारं च तद्भवेत्।
संकल्पः कीदृशस्तस्य कथं दर्शनतास्य च ॥१५॥
कथं चाविहतिस्तस्य सर्वदेशातिगोचरा।
किं कारणं च जगतः कीदृशं किंविधं च तत् ॥१६॥
को वा जगत आधारः कीदृक् कतिविधश्च सः।
किं तत् प्रमाणमित्युक्तं कीदृक् कतिविधं च तत् ॥१७॥
प्रमामार्थश्च को नाम कीदृक् कतिविधश्च सः।
के तेऽधिकारिणो नाम कीदृशाः किंविधाश्च ते ॥१८॥
सर्वस्यास्य च का रक्षा तद्विधिः कश्च किंविधः।
कश्च तत्राधिकार्यर्थः स च किंगुण इष्यते ॥१९॥
एतन्मे भगवन् ब्रूहि प्रश्नजातमशेषतः।
उपसंगृह्य चरणावुपसन्नोऽस्म्यधीहि भोः ॥२०॥
दुर्वासाः-----
ततो दर्शनपूताय प्रणिपत्याभियाचते।
उपसन्नाय मुनये सर्वं व्याचष्ट शंकरः ॥२१॥
विस्तरेण परब्रह्मस्वरूपनिरूपणम्
अहिर्बुध्न्यः---
एकं निर्दुः खनिः सीमसुखानुभवलक्षणम्।
अनाद्यन्तं परं ब्रह्म नारायणमनामयम् ॥२२॥
सर्वभूतकृतावासं सर्वं व्याप्य व्यवस्थितम्।
निरवद्यमविक्षिप्तमतरङ्गार्णवोपमम् ॥२३॥
परब्रह्मणः हेयप्रतिभटत्वं कल्याणगुणाकारत्वं च
अप्राकृतगुणस्पर्शमप्राकृतगुणास्पदम्।
भवोदधेः परं पारं निष्कलङ्कं निरञ्जनम् ॥२४॥
आकाराद् देशतः कालादनवच्छेदयोगतः।
पूर्णं नित्योदितं व्यापि हेयोपादेयतोज्झितम् ॥२५॥
इदमीदृगियत्ताभिरपरिच्छेद्यमञ्जसा।
परब्रह्मणः परमात्मादिसकलशब्दवाच्यत्वम्
उपर्युपरि तत्त्वानां पूर्वपूर्वात्मभाविनाम् ॥२६॥
पारम्येणात्मभावित्वात् परमात्मा प्रकीर्तितः।
ओमित्यापन्नयोगेन सर्वतत्त्वप्रवेशतः ॥२७॥
षाड्गुण्यगुणयोगेन भगवान् परिकीर्तितः।
समस्तभूतवासित्वाद् वासुदेवः प्रकीर्तितः॥ २८॥
आप्नोति जगदित्येवमात्मत्वेन निरूपितः।
रूपात् प्रकारतोऽव्यक्तेरव्यक्तः परिगीयते ॥२९॥
सर्वप्रकृतिशक्तित्वात् सर्वप्रकृतिरीरितः।
प्रधीयमानकार्यत्वात् प्रधानः परिगीयते ॥३०॥
नेतृत्वादनितृत्वाच्च नित्य इत्यपि पठ्यते।
अननाददनाच्चापि ह्यनन्तः परिपठ्यते ॥३१॥
परितो मित्यभावाच्च प्रोक्तोऽपरिमितो बुधैः।
अक्षयादक्षरः प्रोक्तो ह्यरिष्टो रिष्टवर्जनात् ॥३२॥
अविकार्यस्वभावत्वादव्याप्यत्वात् तथाच्युतः।
रागादिदोषनिर्मुक्तेः समधीगोचरत्वतः ॥३३॥
सर्वोपादानतासाम्यात् समः संपरिकीर्तितः।
ध्यानवर्त्मबहिर्भावात् स्वभावाननुयोगतः ॥३४॥
इयत्तयाप्यचिन्त्यत्वादचिन्त्यः परिकीर्तितः।
जगन्ति प्रबवन्त्यस्मात् सर्वत्र प्रभवत्यपि ॥३५॥
प्रकृष्टश्च भवो यस्मात् प्रभवः परिकीर्तितः।
सर्वप्रलभूमित्वादव्ययो व्ययनाशनात्॥ ३६॥
बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मोति श्रुतिगह्वरे।
कपिलः श्रेष्ठविद्यत्वात् तेजिष्ठत्वाच्च कापिलः ॥३७॥
हितश्च रमणीयश्च गर्भो हृदयनामवान्।
हिरण्यगर्भ इत्येवं योगिभिः समुदाहृतः ॥३८॥
अपनाशतपोयोगादपान्तरतपाः श्रुतः।
शिवंकरतया प्रोक्तः शिवः पाशुपते स्थितैः ॥३९॥
अदूरविप्रकर्षस्थैर्वस्तुतोऽनवगाहिभिः।
इत्येवमादिभिः शब्दैस्तत्त्वं तदुपलक्ष्यते॥ ४०॥
प्रतिबन्धविगमे ब्रह्माभवसंभवः
अनेकजन्मसंसिद्धपुण्यपापरिक्षये।
निकृत्ते वासनाजाले सम्यग्विज्ञानशस्त्रतः ॥४१॥
त्रैगुण्योपरमे तत्तु स्वेनानुभवितुं क्षमम्।
साक्षादिदमिति व्यक्तं वाचा वक्तुं न शक्नुमः ॥४२॥
ब्रह्मणः प्रयत्नलभ्यत्वविरहः
संवत्सरसहस्राणि पक्षिराडिव संपतन्।
नैवान्तं कारणस्यैति यद्यपि स्यान्मनोजवः ॥४३॥
उपर्युपरि गच्छन्तो विशिक्षन्तस्तथा तथा।
ज्ञानोद्यमदशायास्ते न व्यक्तिमधिकां गताः ॥४४॥
तत्र सर्वाणि तत्त्वानि निषीदन्ति परात्मनि।
भावाभावावुभौ प्रोतौ ज्ञानसूत्रमयात्मना ॥४५॥
ब्राह्मणः त्रिविधपरिच्छेदशून्यत्वम्
२सर्वप्रत्यक्षदर्शित्वात् सर्वात्मा तत् परं पदम्।
अतीतानागते काले मध्यतः प्रतिसंहृते ॥४६॥
वर्तमानं न तद् ब्रह्मा नातीतं नैव भावि तत्।
अग्रतः पृष्ठतो नैव नोर्ध्वतः पार्श्वयोर्द्वयोः ॥४७॥
न कल्माषं न विकलं न कृष्णं न च पिङ्गलम्।
न सारङ्गं पिशङ्गं न कपिलं नारुणं न च ॥४८॥
न बभ्रु नकुलं नैव न श्यामं न च रोहितम्।
न दीर्घं नैव च ह्रस्वं न स्थूलं नैव चाप्यणु॥ ४९॥
न वृत्तं नाप्यपावृत्तं नाश्रितं तदनाश्रितम्।
नैव भावो न चाभावस्तद्भावार्चितये न च ॥५०॥
न शीतं नापि चैवोष्णं नानुष्णाशीतमप्युत।
न दुःखं न सुखं नैव निर्दुःखं सुखमव्रणम् ॥५१॥
न मूलं नापि तन्मध्यं नैवान्तं कस्याचिन्मुने।
न शेते तन्न चैवास्ते न तिष्ठति न गच्छति ॥५२॥
सर्वद्वन्द्वविनिर्मुक्तं सर्वोपाधिविवर्जितम्।
षाड्गुण्यं तत् परं ब्रह्म सर्वकारणकारणम् ॥५३॥
नारदः---
किं तत् षाड्गुण्यमित्युक्तं देवदेव जगत्पते।
कथं च गुणहीनं तत् षाड्गुण्यं परिगीयते ॥५४॥
ब्रह्मणः षाड्गुण्यप्रपञ्चनम्
अहिर्बुध्न्यः---
अप्राकृतगुणस्पर्शं निर्गुणं परिगीयते।
श्रृणु नारद षाड्गुण्यं कथ्यमानं मयानघ ॥५५॥
ज्ञानस्वरूपनिरूपणम्
अजडं स्वात्मसंबोधि नित्यं सर्वावगाहनम्।
ज्ञानं नाम गुणं प्राहुः प्रथमं गुणचिन्तकाः ॥५६॥
ब्रह्मणो ज्ञानस्वरूपत्वं ज्ञानगुणकत्वं च
स्वरूपं ब्रह्मणस्तच्च गुणश्च परिगीयते।
शक्तिस्वरूपनिरूपणम्
जगत्प्रकृतिभावो यः सा शक्तिः परिकीर्तिता ॥५७॥
ऐश्वर्यस्वरूपनिरूपणम्
कर्तृत्वं नाम यत् तस्य स्वातन्त्र्यपरिबृंहितम्।
ऐश्वर्यं नाम तत् प्रोक्तं गुणतत्त्वार्थचिन्तकैः ॥५८॥
बलस्वरूपनिरूपणम्
श्रमहानिस्तु या तस्य सततं कुर्वतो जगत्।
बलं नाम गुणस्तस्य कथितो गुणचिन्तकैः ॥५९॥
वीर्यस्वरूपनिरूपणम्
तस्योपादानभावेऽपि विकारविरहो हि यः।
वीर्यं नाम गुणः सोऽयमच्युतत्वापराह्वयम् ॥६०॥
तेजःस्वरूपनिरूपणम्
सहकार्यनपेक्षा या तत् तेजः समुदाहृतम्।
शक्त्यादिगुणपञ्चकस्य ज्ञानगुणप्रकारत्वम्
एते शक्त्यादयः पञ्च गुणा ज्ञानस्य कीर्तिताः ॥६१॥
ज्ञानमेव परं रूपं ब्रह्मणः परमात्मनः।
षाड्गुण्यं तत् परं ब्रह्म स्वशक्तिपरिबृंहितम्।
बहु स्यामिति संकल्पं भजते तत् सुदर्शनम् ॥६२॥
इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां षाड्गुण्यब्रह्मविवेको नाम द्वितीयोऽध्यायः
आदितः श्लोकाः १३६
N/A
References : N/A
Last Updated : March 08, 2021
TOP