अहिर्बुध्नसंहिता - अध्यायः ३३

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि॥

उक्तार्थानुवादः
नारदः---
भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा।
परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः ॥१॥
शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि।
एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् ॥२॥
सर्वेषामेव जन्तूनां वर्णानां परमेश्वर।
क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् ॥३॥
सुदर्शनप्रभावविषयकस्त्रिधा प्रश्नः
एतस्य यन्त्रराजस्य महिमा कथितः पुरा।
प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः ॥४॥
सुदर्शननृसिंहस्य किमु किं परिवारजः।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥५॥
विस्तरेण तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
सुदर्शनप्रभावोऽयं संक्षेपात् कथितो मया।
विस्तारमस्य देवर्षे कथ्यमानमिमं श्रृणु ॥६॥
सा भूमानं प्रति प्रायो महतां परिवारता।
न चेद्भूमास्य नास्त्येव परिवार्यत्वसंभवः ॥७॥
सर्वस्यापि सुदर्शनात्मकत्वम्
ततश्चक्रमयं सर्वं जगत् स्थावरजङ्गमम्।
सुदर्शनस्यैव कालचक्रात्मकत्वम्
चक्रात्मानमनाद्यन्तं कालं प्रथमतः श्रृणु ॥८॥
कालचक्रस्वरूपनिरूपणम्
त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम्।
संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् ॥९॥
सर्वस्यापि कालचक्रवशवर्तित्वम्
तद्वशे वर्तते विश्वं चेतनाचेतनात्मकम्।
परमात्मा कालचक्रप्रवर्तकः
परिवर्तयते देवस्तदेतच्चक्ररूपधृत् ॥१०॥
जगच्चक्रनिरूपणम्
अव्यक्तादिविशेषान्ततत्त्वरूपैररैर्वृतम्।
चतुर्विंशतिसंख्याकैः पुरुषात्मकनेमियुक् ॥११॥
परमात्मनस्तत्प्रेरकत्वम्
जगच्चक्रमिति ख्यातं तच्च प्रेरयति स्वयम्।
परमात्मनो नाभिचक्रप्रेरकत्वम्
स्थीयते द्वादशारेण नाभिचक्रेण देहिनः ॥१२॥
शरीरं तच्च तेनैव प्रेर्यते चक्ररूपिणा।
परमात्मनः सर्वप्रेरकत्वनिगमनम्
अतः प्रेरयिता देवः समस्तस्य जनार्दनः ॥१३॥
सुदर्शनवपुः श्रीमाननादिप्रभवाप्ययः।
तस्यैव जगत्सर्गस्थितिसंहारहेतुत्वम्
ज्ञानस्वरूपो भगवान् पूर्णषाङ्गुण्यविग्रहः ॥१४॥
स एव सर्वभूतानं स्रष्टा पालयितान्तकः।
तस्यैव शिवरूपधरस्य शैवेराराध्यत्वम्
स एव शिवरूपेण शैवेराराध्यते प्रभुः ॥१५॥
तस्यैव ब्रह्मरूपेण जगत्स्रष्टृत्वम्
स एव ब्रह्मरूपेण सृजत्येतच्चराचरम्।
तस्यैव स्वांशरूपेण जगत्पालकत्वम्
स एव पालयत्येतद् विष्णुर्भूत्वा जनार्दनः ॥१६॥

तस्यैव रुद्ररूपेण संहर्तृत्वम्
स एव रुद्ररूपेण संहरत्यखिलं जगत्।
तस्यैव बुद्धरूपत्वम्
बुद्धात्मना च बौद्धानां स एव जगति स्थितः ॥१७॥
तस्यैव दिगम्बररूपत्वम्
स एव शाम्बराणां च निरावरणरूपधृत्।
तस्यैव जिनरूपत्वम्
स एव चार्वाकमते जिनेश्वरवपुर्धरः ॥१८॥
तस्यैव यज्ञपुरुषरूपत्वम्
स एव याज्ञिकानां च यज्ञपूरुषसंज्ञकः।
मीमांसकैः स एवायमुपास्यत्वेन चोद्यते ॥१९॥
कापिलमते तस्यैव पुरुषरूपत्वम्
कापिलैः पुरुषत्वेन स एवाख्यायते विभुः।
सर्वस्वरूपत्वात् तस्यैव सर्वफलप्रदत्वम्
उपास्यत्वेन ये प्राहुर्यं यं तत्तद्वपुर्धरः ॥२०॥
तेषां मनीषितं सर्वं स एवाशु प्रयच्छति।

देवादिरूपधारणादपि चक्ररूपधारणं भगवतः प्रियतमम्
एतेषामेव देवानां स्वतनूनां जनार्दनः ॥२१॥
परं प्रीणाति भगवंश्चक्ररूपधरो हरिः।
तत्र हेतुनिरूपणम्
स्वसमाश्रितरक्षायां परेषां च निबर्हणे ॥२२॥
इदमेव वपुर्धत्ते सुदर्शनमयं हरिः।
रहस्यमेतत् कथितं भक्तोऽसीति तपोधन ॥२३॥

तत्रेतिहासोदाहरणम्
पुरावृत्तं सुरमुने श्रृणुष्व गदतो मम।
दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः ॥२४॥
प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन्।
धर्मतः पालयामास सप्तद्वीपवतीं महीम् ॥२५॥
वत्सला नाम तस्याभून्महिषी वरवर्णिनी।
सा तस्य जनयामास मणिशेखरमात्मजम् ॥२६॥
सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः।
रमणीयाकृतिः शूरः प्राप्तविद्यः परंतपः ॥२७॥
संप्राप्तयौवनः श्रीमान् प्राची भार्यामविन्दत।
सर्वलोकाधिपत्यार्हमेनं दुर्धर्षणः सुतम् ॥२८॥
निधाय राज्ये तत्रैव जगाम तपसे वनम्।

पितेव पालयामास स समुद्रवतीं महीम् ॥२९॥
प्राच्यां पुत्राः समभवंस्तस्य सप्त महात्मनः।
पालयत्यवनीं तस्मिन् निखिलां मणिशेखरे ॥३०॥
तस्मिन् काले समभवत् सर्वप्राणिभयंकरः।
विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली ॥३१॥
महासुरेण तेनैव पीडिता सकला मही।
तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही ॥३२॥
तेऽसुराः सर्वभूतानि पीडयन्ति स्म भीषणाः।

विकटाक्षसमाज्ञप्ता भीमरूपाः सहस्रशः ॥३३॥
कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नस्तरस्विनः।
द्विजातीनां मुनिश्रेष्ठ यज्ञव्यासेधमाचरन् ॥३४॥
सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम्।
अबाधिषत कर्माणि विहितानि यथातथम् ॥३५॥
पृथिव्यां यानि रत्नानि धनानि विपुलानि च।
स्वस्मै प्रदापयामास विकटक्षो महासुरः ॥३६॥
ततः संपीडिताः सर्वाः प्रजास्तेन दुरात्मना।
व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेशरभूभुजे ॥३७॥
क्रोधेन महाताविष्टो राजा राजीवलोचनः।

अभियोद्धुं मनश्चक्रे विकटाक्षं महासुरम् ॥३८॥
समानीय ततः सर्वान् सैनिकान् समनह्यत।
तस्य संनाहमालोक्य मन्त्रिणस्तस्य संगताः । ३९॥
इदमुचुरवध्यत्वं तस्य सेनाभियोगतः।
पुरा दुरात्मावृणुत तपःसंतोषिताद्विधेः ॥४०॥
ये मामभिमुखायाताः शत्रवस्तैरवध्यताम्।
एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः ॥४१॥
ततः प्रभृत्यजय्योऽभूच्छत्रुभिः संमुखागतैः।
तस्मात् त्वमपि संनाहमुपसंहर तं प्रति ॥४२॥
ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम्।
ततः संग्रमसंनाहाद् विरराम महीपतिः ॥४३॥
ततः क्रतुं समाहूय पुरोधसमनागसम्।
मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् ॥४४॥
विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः।
परैरजय्यतां चास्य युद्धे संमुखवर्तिभिः ॥४५॥
येनोपायेन भगवन् जेष्यामस्तं दुरासदम्।
ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः ॥४६॥
एवमुक्तस्तदा तेन भूभूजा स पुरोहितः।
चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् ॥४७॥

सत्यं न शक्यते जेतुं युद्धे स वरदर्पितः।
भगवन्तमृते विष्णु शङ्खचक्रगदाधरम् ॥४८॥
नीलजीमूतसंकाशं पुण्डरीकायतेक्षणम्।
अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् ॥४९॥
उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम्।
नास्त्युपायान्तरं लोके तत्समं जगतीपते ॥५०॥
अतस्तं शरणं गच्छ सर्वभावेन भूपते।
चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् ॥५१॥
तत्प्राप्त्युपायं जानाति दुर्वासा मुनिसत्तमः।
तत्प्रसादात् तमसुरं संहर्तुं सकलं क्षमम् ॥५२॥
तमृषिं सर्वभूतानां भीषणं गच्छ सांप्रतम्।
एवमेवेति निश्चित्य राजा परमधार्मिकः ॥५३॥
निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा।
हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् ॥५४॥
वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम्।
जटाजिनधरं शान्तं ज्वलत्पावकसंनिभूम् ॥५५॥
तं तथावस्थितं राजा जगाम सपुरोहितः।
स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ ॥५६॥
तौ समभ्यर्च्य विधिना स्वगतं व्याजहार ह।

इमं देशमनुप्राप्तौ किमर्थं वनगोचरम् ॥५७॥
भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे।
प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् ॥५८॥
सप्तद्वीपवती पृथ्वी तव वश्येति शुश्रुम।
सर्वेष्वङ्गादिधर्मेषु भवतः किमनामयम् ॥५९॥
प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते।
क्रतुं पुरोहितं लब्ध्वा भवतः किं न सेत्स्यति ॥६०॥
अनूचानो मुनिः श्रेयान् सर्वेषां च तपस्विनाम्।
शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः॥ ६१॥
धर्मज्ञः सर्वशास्त्रज्ञः सर्वकर्मसु कोविदः।
कर्मठः शीलसंपन्नो यायजूको निरामयः ॥६२॥
कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान्।
दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः ॥६३॥
सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे।
षण्णां समयधर्माणामभिज्ञो नयकोविदः ॥६४॥
दयालुरभिजातश्च साधकः सर्वमन्त्रवित्।
अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः ॥६५॥
ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः।
अनेन सर्वकार्याणि कुरुष्व मणिशेखर ॥६६॥

तथापि कैश्चिदरिभिः परिभूत इवागतः।
आख्याहि सर्वं नृपते किमागमनकारणम् ॥६७॥
एवमुक्त्वा महातेजा विरराम तपोधनः।
अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति ॥६८॥
राजकार्यमशेषेण समागमनकारणम्।
स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना ॥६९॥
बलं महासुरस्यास्य दुर्जयत्वमरातिभिः।
प्रजापतेर्वरप्राप्तिं तत्संततिविजृम्भणम् ॥७०॥
एवं बहुविधं तस्य चेष्टतं लोकगर्हितम् ।
व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः ॥७१॥
ब्रूहि तस्य जयोपायं त्वामयं शरणं गतः।
त्वमापदः परित्राहि राजानं धर्मवत्सलम् ॥७२॥
परित्रातान्यनेनैव भुवनानि तपोधन।
एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ ॥७३॥
कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम्।
सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् ॥७४॥
अनेन साधयाभीष्टमेतेनैव पुरोधसा।
पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः ॥७५॥
विशेषेणास्य देवस्य प्रतिष्ठाराधनादिषु।

वैगुण्यमस्य तत् सर्वमपराधात् पुरोधसः ॥७६॥
तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते।
अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै ॥७७॥
इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः।
वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः ॥७८॥
उज्जहार भुवं कल्पे वाराहे सलिलात् ततः।
तदाह परमप्रीता देवं देवी वसुधरा ॥७९॥
प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया।
वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा ॥८०॥
एवमुक्तस्तया देव्या तदा प्रभृति केशवः।
सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः ॥८१॥
सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः।
अद्यापि देशमाहात्म्याद् भक्तानामनुकम्पया ॥८२॥
भुवः प्रार्थनया तत्र नित्यं संनिहितो हरिः।
अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् ॥८३॥
मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः।
ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः ॥८४॥
भगवान् पुण्डरीकाक्षः सुर्शनवपुर्धरः।
संनिधत्ते सदा तत्र सन्मङ्गलगुणार्णवः ॥८५॥
तद्देशवासिनो मर्त्याः सुरास्तिर्यञ्च एव च।
तरवश्चाचलाः सर्वे चक्रमुद्राङ्कितास्तदा ॥८६॥
सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम्।
चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना ॥८७॥
तत्प्रसादात् सपत्नांस्त्वं जहि दुष्टविचेष्टितान्।
ततो निष्कण्टकां भूमिं पालयैनां पुरा यथा ॥८८॥
एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम्।
उपारराम भगवान् दुर्वासा यमिनां वरः ॥८९॥
ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः।
जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति ॥९०॥
सालग्रामं ततो गत्वा भगवन्तं जनार्दनम्।
संभृत्य सर्वसंभारांश्चक्ररूपं जगत्पतिम् ॥९१॥
पुरोधसैव नृपतिरर्चयामास मन्त्रतः।
अर्चनेन जपेनैव ध्यानेन च महीपतिः ॥९२॥
तोषयामास मासेन भक्त्या परमया हरिम्।
आविर्बभूव स तदा चक्ररूपी महीपतेः ॥९३॥
गदामुसलशङ्खारिधनुः पाशाङ्कुशाम्बुजान्।
अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः ॥९४॥
ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः।
दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः ॥९५॥

रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः।
दिव्यमालाधरोरस्कः सस्मितं समुदैक्षत ॥९६॥
समुदियाय ततो हरिवक्षसः
प्रतिहताखिललोकविलोचनम्।
वलयिताचिररोचिरिवाम्बरात्
परमचक्रमथैन्द्रमतिद्युति । ९७॥
प्रथममेकमथो दश तत्छतं
दशशतक्रमतो नियुतायुते।
भवदथो बहुधा सकलं नभः
कलितचक्रमभूदतिभीषणम् ॥९८॥
युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह।
तदिहाविषयं व्यतिष्ठत क्षणमाप्लुत्य ययौ सुदर्शनः॥ ९९॥
शशास पृथ्वीं ससमुद्रकाननां
जिताखिलद्वीपवतीं सपत्तनाम्।
यथा शचीशस्त्रिदिवं सदैवतं
पवित्रकीर्तिर्मणिशेखरस्तथा ॥१००॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः
आदितः श्लोकाः २०४८

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP