अहिर्बुध्नसंहिता - अध्यायः १४
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
जीवस्य संसारहेतुतदुद्धरणप्रकारवर्णनं नाम चतुर्दशोऽध्यायः
तत्रादौ मुक्तिविषयः पुनः प्रश्नः
नारदः---
अज्ञानतिमिरप्लोषिललाटनयनत्विषे।
नमस्ते त्रिपुराराते नमस्तेऽन्तकविद्विषे ॥१॥
पुरुषार्थाः श्रुताः सर्वे मुख्यगौणविकल्पिताः।
पुरुषार्थः श्रुतो मुख्यस्तत्र मुक्त्यभिसंज्ञितः॥ २॥
भगवत्तामयी प्रोक्ता मुक्तिश्च त्रिपुरद्विषा।
तस्याश्च साधनं साक्षात् तत्त्वज्ञानं द्विधा स्थितम्॥ ३॥
सादनं तस्य च प्रोक्तो धर्मो निरभिसंधिकः।
भूयो विस्तरतः शंस मुक्तिं तां चन्द्रशेखर ॥४॥
यतो यस्य च या मुक्तिस्तच्च मे द्वितयं वद।
न ह्यन्तं प्रष्टमर्हामि त्वामृते सर्ववेदिनम् ॥५॥
जीवस्वरूपसंक्षेपः
अहिर्बुध्न्यः--
अनादिरपरिच्छेद्यश्चिदानन्दमयः पुमान्।
भगवन्मय एवायं भगवद्भावितः सदा ॥६॥
जीवस्य भगवच्छक्त्यंशलेशत्वम्
या सा शक्तिर्महासत्ता विष्णोस्तद्धर्मधर्मिणी।
तस्याः कोट्यर्बुदांशेन शक्ती द्वे कथिते तव ॥७॥
भूतिश्चेति क्रिया चेति भाव्यभावकसंज्ञिते।
भूतिः सा क्रियाया ज्वाला मरुतेव प्रणर्त्यते ॥८॥
नानाभेदवती भूतेर्विभूतिः कथिता पुरा।
शुद्ध्यशुद्धिवशाद् द्वेधा शुद्धा सा बहुधोदिता ॥९॥
पुंशक्तिः कालमय्यन्या पुमान् सोऽयमुदीरितः।
तस्य कालवश्यत्वात् संसारप्राप्तिः
कालशक्तिविकारस्थः सोऽयं संसरति ध्रुवम् ॥१०॥
साधननिष्पत्त्या स्वरूपाविर्भावः
सोऽयं शास्त्रीयमासाद्य मार्गं स्वेनाभिजायते।
तत्र पुनः प्रश्नः
नारदः---
भागवन् देवदेवेश त्रिपुरान्तक शंकर ॥११ ।
कालशक्तिविकारस्थः कथं संसरति ध्रुवम्।
कथं वोपायमासाद्य पुमान् स्वेनाभिजायते ॥१२॥
भगवत्स्वातन्त्र्यस्यापर्यनुयोज्यत्वम्
अहिर्बुध्न्यः---
सर्वैरननुयोज्यं तत् स्वातन्त्र्यं दिव्यमीशितुः।
अवाप्तविश्वकामोऽपि क्रीडते राजवद्वशी ॥१३॥
भगवत्संकल्पस्य पञ्चधा विभागः
संकल्पो नाम यस्तस्य सुदर्शनसमाह्वयः।
सत्यप्यनन्तरूपत्वे पञ्चधा स विजृम्भते ॥१४॥
सृष्टिस्थित्यन्तकारेण निग्रहानुग्रहात्मना।
निग्रहशक्त्या जीवस्याकारादितिरोधानम्
तिरोधानकरी शक्तिः सा निग्रहसमाह्वया ॥१५॥
पुमांसं जीवसंज्ञं सा तिरोभावयति स्वयम्।
आकारैश्वर्यविज्ञानतिरोभावनकर्मणा ॥१६॥
तिरोधायकपर्यायशब्दाः
मायाविद्या महामोहो महातामिस्रमित्यपि।
तमो बन्धोऽथ हृद्ग्रन्थिरिति पर्यायवाचकाः ॥१७॥
जीवापुत्वादि
आकारस्य तिरोधानादणुत्वं पुंस इष्यते।
ऐश्वर्यस्य तिरोभावादकिंचित्करता स्मृता ॥१८॥
पुंसो विज्ञानसंकोचादज्ञत्वं समुदाहृतम्।
तिरोहितः पुमाञ्छक्त्या विष्णुसंकल्परूपया ॥१९॥
अणुः किंचित्करश्चेति किंचिज्ज्ञश्चेति कथ्यते।
अणुत्वादेर्मलत्वं बन्धत्वं च
मलत्रयमिदं प्रोक्तं बन्धत्रयमिदं बुधैः ॥२०॥
अविद्यादिभिर्मलविवृद्धिः
तिरोभावनशक्त्यैवं वैष्णव्या बन्धमेयुषः।
अविद्यास्मित्वरागाद्या मलं समुपचिन्वते ॥२१॥
इष्टानिष्टप्राप्तिपरिहारेच्छा
क्लिश्यद्भिः क्लेशितः क्लेशैरविद्यादिभिरीदृशैः।
नुन्नः प्रेप्साजिहासाभ्यामागमाननुसंपतन् ॥२२॥
इष्टार्थप्राप्तयेऽनिष्टविघाताय च लालसः।
कर्म तत् कुरुते कामी शुभाशुभफलोदयम् ॥२३॥
कर्मवशात् जात्यायुर्भोगप्राप्तिः
ततः कर्मविपाकस्थः शुभाशुभविमिश्रितान्।
जात्यायुरनुबन्धान् स प्राप्नोति विधिचोदितः ॥२४॥
सुखादिवासनास्तास्ताः संचिनोति शनैः शनैः।
एषा निग्रहशक्तेस्तु तिरोधानपरंपरा ॥२५॥
तिरोधाने सहकारिकारणम्
अंशो यौ कालशक्त्याख्यौ भूतेः समनुवर्तिनौ।
ताभ्यां पुंसस्तिरोभावं तनुते निग्रहात्मिका ॥२६॥
सृष्ट्यादीनां संचितकर्ममूलकत्वम्
अजस्य त्वनया शक्त्या तिस्रः सृष्ट्यादिशक्त्यः।
संचितैः संप्रवर्तन्ते तैस्तैः कर्मभिरूर्जितैः ॥२७॥
सहेतुकस्य बन्धस्यानादित्वम्
बन्धोऽनादिरयं प्रोक्तो बन्धहेतुश्च नादिमान्।
बद्धजीवे भगवत्कृपाविर्भावः
एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः ॥२८॥
जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते।
कृपाया अनुग्रहशक्तिपातरूपत्वम्
या ह्युक्ता पञ्चमी शक्तिर्विष्णुसंकल्परूपिणी ॥२९॥
अनुग्रहात्मिका शक्तिः सा कृपा वैष्णवी परा।
शक्तिपातः स वै विष्णोरागमस्थैर्निगद्यते ॥३०॥
कृपाविषयस्य जीवस्य कर्मसाम्यप्राप्तिः
अनुग्रहात्मना शक्त्या सुदर्शनमयात्मना।
स्वीकृतो हि यदा विष्णोः करुणावर्षरूपया ॥३१॥
समीक्षितस्तदा सोऽयं करुणावर्षरूपया।
कर्मसाम्यं भजत्येव जीवो विष्णुसमीक्षितः ॥३२॥
शक्तिपातः स वै जीवमुत्तारयति संसृतेः।
कर्मणी च समे तत्र तूष्णींभावमुपागते ॥३३॥
सदृष्टान्तं कर्मणामुदासितृत्वोपपादनम्
यथा हि मोषकाः पान्थे परिबर्हमुपेयुषि।
निवृत्तमोषणोद्योगाः समाः सन्त उदासते ॥३४॥
अनुग्रहात्मिकायास्तु शक्तेः पातक्षणे तता।
उदासाते समीभूय कर्मणी ते शुभाशुभे ॥३५॥
मुमुक्षोर्मोक्षोपायप्राप्तिप्रकारः
तत्पातानन्तरं जन्तुर्युक्तो मोक्षसमीक्षया।
प्रवर्तमानवैराग्यो विवेकेऽभिनिवेशवान् ॥३६॥
आगमाननुसंचिन्त्य गुरुनप्युपसद्य च।
लब्धसत्त्वप्रकारैस्तैः प्रबुद्धो बोधपालनः ॥३७॥
अक्षिण्वन् गुरुसंबोधं क्षिण्वन् क्लेशादिकानपि।
विचिन्वन् सर्वतः सारमुपचिन्वन् परां धियम् ॥३८॥
सांख्ययोगसमावेशी सत्कर्मनिरतः स्वयम्।
उग्रव्रतधरो ज्ञानी वेदान्तज्ञाननिश्चलः ॥३९॥
संहतैर्विगृहीतैश्च मार्गैरेभिः सुनिश्चयैः।
क्लेशेन महता स्थानं वैष्णवं प्रतिपद्यते ॥४०॥
लब्धज्ञानस्य मोक्षप्राप्तिः
संप्राप्य ज्ञानभूयस्त्वं निर्मलीकृतचेतनः।
अनाविलमसंक्लेशं वैष्णवं तद्विशेत् पदम् ॥४१॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जीवस्य संसारहेतुतदुद्धरणप्रकारवर्णनं नाम चतुर्दशोऽध्यायः
आदितः श्लोकाः ८२४
N/A
References : N/A
Last Updated : March 08, 2021
TOP