अहिर्बुध्नसंहिता - अध्यायः २०
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
मन्त्रग्रहणादिदीक्षाविधानं नाम विंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
आचार्यलक्षणम्
अहिर्बुध्न्यः---
वेदवेदान्ततत्त्वज्ञो विद्यास्थानविचक्षणः।
ऊहापोहविधानज्ञो दैवपित्र्यक्रियापरः ॥१॥
अवक्ता चापवादानामकर्ता पापकर्मणाम्।
अमत्सरी परोत्कर्षे परदुःखे घृणापरः ॥२॥
दयावान् सर्वभूतेषु हृष्टः परसुखोदये।
पुण्येषु मुदितायुक्त उपेक्षावान् कुबुद्धिषु ॥३॥
तपःसंतोषशौचाढ्यो योगस्वाध्यायतत्परः।
पाञ्चरात्रविधानज्ञस्तन्त्रान्तरविचक्षणः ॥४॥
तन्त्राणामन्तरज्ञश्च मन्त्राणां कृत्यतत्त्ववित्।
पदवाक्यप्रमाणज्ञो हेतुवादविचक्षणः ॥५॥
सामान्यस्यापवादस्य वेत्ता यन्त्रविचक्षणः।
कुण्डमण्डलभेदज्ञः क्रियाकारविचक्षणः ॥६॥
अध्यात्मज्ञानकुशलः शान्तो दान्तो जितेन्द्रियः।
सदन्ववायसंभूत आचार्यो नाम वैष्णवः ॥७॥
शिष्यलक्षणम्
आचार्यमाश्रयेच्छिष्यः श्रेयोऽर्थी सुसमाहितः।
विनयव्रतशाली च द्विजातिः संस्कृतः शुचिः ॥८॥
ब्रह्मचर्यपरो धीमान् स्वदारनिरतोऽथवा।
अच्छलेन यथावत् स्वकृताकृतनिवेदकः॥ ९॥
संसाराङ्गारमध्यस्थः पच्यमानः स्वकर्मभिः।
भवन्तं शरणं प्राप्त उपसन्नोऽस्म्यधीहि भोः ॥१०॥
इत्येवं प्रतिपद्येत शिष्य आचार्यसत्तमम्।
दीक्षाक्रमः
इत्येवं संप्रपन्नाय शिष्यायाच्छलवादिने ॥११॥
प्रत्यक्षाभिः परोक्षाभिरुपाधिभिरनेकधा।
शोधितायैकरूपाय रहस्याम्नायगोपिने ॥१२॥
अशठायानसूयाय लोभमोहाद्यसेविने।
संवत्सरं परीक्ष्यैवं परितः परितो धिया ॥१३॥
निष्कम्पाय वदेद्विद्यां यावती यादृशी च सा।
अङ्गन्यासकरन्यासौ
मातृकामादितो८ देवीं विन्यसेद्वपुषि स्वके ॥१४॥
अङ्गन्यासकरन्यासौ मन्त्रवर्णैः समाचरेत्।
मृजेत् प्रकोष्ठमेकैकं त्रिर्मन्त्रेण त्रिरूपिणा ॥१५॥
एवं पाणितलद्वन्द्वमङ्गुलीष्वथ विन्यसेत्।
उभाभ्यां मध्यमाग्राभ्यामुभयस्मिंस्तलद्वये ॥१६॥
तारकं तारिकां लक्ष्मीं प्रणवाद्यन्तगां न्यसेत्।
प्रणवाद्यन्तगं सोमं मध्यमेङ्गुष्ठपर्वणि ॥१७॥
सबिन्दुं विन्यसेत् प्राणमेवं तर्जनिपर्वणि।
न्यसेद्वर्णास्तृतीयादीनङ्गुल्यन्तरपर्वसु ॥१८॥
लाङ्गलं परमास्त्रं तु न्यसेदूर्ध्वाङ्गुलीष्वथ।
ऋष्यादीनां स्थानभेदः
ऋषिं शिरसि विन्यस्येच्छन्दो वदनगोचरम् ॥१९॥
नारायणमनाद्यन्तं देवतां हृदये स्मरेत्।
परसूक्ष्मस्थूलमन्त्राणामृषयः
पराकारस्य मन्त्रस्य परमात्मा ऋषिः स्मृतः ॥२०॥
संकर्षणस्तु सूक्ष्मस्य स्थूलस्याहमृषिः स्मृतः।
सुदर्शनमन्त्रस्याथर्वणवेदसारतमत्वम्
अथर्वाङ्गिरसो नाम पञ्च शाखा महामुने ॥२१॥
तासु त्वन्तर्हितो दिव्यः कृतान्तो मन्त्रराट् स्वयम्।
संकर्षमाज्ञया अहिर्बुध्न्येन तदुद्धरणम्
मया त्रेतायुगादौ तु तप्त्वा वर्षायुतं तपः ॥२२॥
दिव्यात् संकर्षणादेशात् परमेण समाधिना।
सर्व आथर्वणो वेदो मथितस्तु शनैः शनैः ॥२३॥
मथ्यमानात् ततस्तस्माद् दध्नो घृतमिवोद्धृतः।
मन्त्रोऽयं सपरीवारः साङ्गोपाङ्गः सनातनः ॥२४॥
स्थूलस्य मन्त्रनाथस्य ततो मामृषिमूचिरे।
दैवी ब्राह्मी तथार्षी च गायत्री छन्द उच्यते ॥२५॥
परः सूक्ष्मस्तथा स्थूलः परमात्मा च देवता।
देहे संहारन्यासक्रमः
विन्यसेदथ गात्रेषु मन्त्रनाथ सनातनम् ॥२६॥
परसूक्ष्मादिभावेन सोमार्कानलदीधितिम्।
प्रणवादित्रयं मूर्ध्नि ललाटे सोममेव च ॥२७॥
आस्ये सूर्यं गले स्रां च हृदिं रं नाभिगं तु हुं।
मूलाधारे तु फट्कारं तारादित्रितयं हृदि ॥२८॥
नाभौ समूलगं हं च पादयोः स्रां च रं हृदि।
हुं वक्त्रे फट् शिरोदेशे ततः सर्वात्मना क्रिया॥१९॥
अङ्गोपाङ्गन्यासः
हृदयादीन्यथाङ्गानि स्वेषु स्थानेषु विन्यसेत्।
उपाङ्गेषु तथा न्यासं मान्त्रैर्वर्णैः समाचरेत् ॥३०॥
देहस्य त्रेधा विभावनम्
स्थूलसूक्षअमपरत्वेन देहं विद्यात् ततस्त्रिधा।
अङ्गप्रत्यङ्गकोसाढ्यं प्रत्यक्षं स्थूलमुच्यते ॥३१॥
पुर्यष्टकं तु सूक्ष्माख्यं परमाणव उच्यते।
वह्न्यर्ककोटिसंकाशज्वालाकोलाहलाकुले ॥३२॥
त्रिविधे मन्त्रनाथेऽस्मिंस्त्रिविधं भावयेद्वपुः।
तेजो दिव्यं महच्छुभ्रं मनः स्थं हृत्स्थमव्ययम्॥ ३३॥
नारायणमयं ध्यायेदात्मानं ज्योतिषां पतिम्।
ततस्तच्चक्रमध्याक्षसोमसूर्यानलात्मनि ॥३४॥
मज्जयित्वा स्वमात्मानं निर्वासनमथोद्धरेत्।
सृष्टिन्यासः
ततः परादिभावस्थान् मन्त्रनाथान् सनातनात् ॥३५॥
तेनैव क्रमयोगेन तनूस्ता विसृजेत् पुनः।
तासु प्रवेश्य चात्मानं पुनर्न्यासं समाचरेत् ॥३६॥
हस्तदेहादिगो न्यासो यावत् पूर्वमुदाहृतः।
शिष्यावेक्षणम्
अथ मन्त्रतनुर्दिव्यो मन्त्रात्मा मन्त्रसारथिः ॥३७॥
विष्णुसंकल्पजं रूपं वहन् सौदर्शनं वपुः।
नेत्रैः शिष्यमवेक्षेत वह्न्यर्केन्दुमयैः क्रमात् ॥३८॥
शिष्यस्य संहारन्यासः
अथ स्थूलादिभावेन दहेन्मन्त्रेण तद्धिया।
पूर्वोक्तक्रमयोगेन शिष्यात्मानं परात्मनि ॥३९॥
सृष्टिन्यासः
निमज्जयित्वेत्याद्यं तु क्रमं सर्वं समाचरेत्।
मनसा शुष्कदग्धोत्थे शिष्यदेहे तथा तथा ॥४०॥
विन्यसेत् क्रमयोगेन मन्त्रन्यासं धिया ततः।
मन्त्रोपदेशः
अथ तस्योपदेष्टव्यः सङाङ्गो मन्त्रनायकः ॥४१॥
सार्थः सप्रतिपत्तिश्च यो यो भावः पुरोदितः।
विंशोऽध्यायः
एवं गृहीतमात्रे तु मन्त्रनाथे सनातने ॥४२॥
उत्पद्यते स्वयं चित्ते प्रत्ययो देवनिर्मितः।
शिष्यकृत्यम्
सम्यगित्थं गृहीतेन मन्त्रेणानेन मन्त्रवित् ॥४३॥
कृतार्थं मन्यमानः स्वं गुरवेऽथ निवेदयेत्।
आत्मानमथ चात्मीयं यत् किंचिदुत् विद्यते ॥४४॥
विना पापमनिष्टं च सर्वं तस्मै निवेदयेत्।
एवं निवेद्य मन्वीत कृतार्थोऽहमिति स्वयम् ॥४५॥
एवंधियो ह्यच्छलेन मन्त्रः स्वेन प्रकाशते।
भावस्य तारतम्येन तत्तद्दीक्षादिसाधनम् ॥४६॥
दीक्षया दीक्षयित्वाथ पात्रयित्वाथवा धिया।
संस्कारेणाथर्वणेन यद्वा संस्कृत्य मन्त्रतः ॥४७॥
मन्त्रोऽयमुपदेष्टव्यो गुरुणा गुरुसेविनः।
इत्थं ग्रहणसिद्धेन साधनेनाथ वाग्यतः ॥४८॥
मन्त्रेणानेन सिद्धेन कुर्याल्लोकहितं सुधीः।
क्षुद्रार्थं मन्त्रो न प्रयोज्यः
न जातु यस्य कस्यापि क्षुद्रस्यात्मन एव वा ॥४९॥
लौकिकेऽर्थे विधिः कार्यः क्षुद्रकृत्यं हि तत् स्मृतम्।
मन्त्रप्रयोगविषयाः
त्रैलोक्यस्याथ रक्षायै भुवश्चक्रस्य वा कृते ॥५०॥
राष्ट्रस्य वाथ राज्ञो वा राजमात्रस्य वा कृते।
भावायैव विधिः कार्यो नैवाभावाय कर्हिचित् ॥५१॥
पुरश्चरणार्थप्रदेशविधिः
पर्वताग्रे नदीतीरे विष्णोरायतनेऽपि वा।
ऋषीणामाश्रमे वापि सिद्धानामालयेऽपि वा॥ ५२॥
गवामायतने वापि वह्न्यायतन एव वा।
कृच्छ्रादिभिः शरीरशोधनम्
त्रिभिः कृच्छ्रैर्विशोध्य स्वं गायत्रीनियुतेन वा॥ ५३॥
त्रिभिर्वा ब्रह्मकूर्चोत्थैः स्नानैः सात्त्वतचोदितैः।
पुरश्चरणाङ्गनियमाः
अहरेकं हरेर्बिम्बमापादमवलोकयेत्॥ ५४॥
ततो भैक्षहविष्याशी यावकेनोत वर्तयेत्।
पयोव्रतो हविष्याशी यथा वा शक्नुयान्नरः ॥५५॥
मन्त्रजपादिसंख्या
जपेल्लक्षाणि षण्मन्त्री जुहुयाच्चायुतानि षट्।
तावच्च तर्पयेत् तोयैर्ब्राह्मणानथ तर्पयेत् ॥५६॥
मन्त्रसिद्धिः
अच्छलेनेतिवृत्तस्य मन्त्रनाथः प्रसीदति।
तेन लोकसंरक्षा
प्रसन्नेनाथ मन्त्रेण रक्षा लोकानुकम्पया ॥५७॥
राजार्थितेन वै कार्या नार्थकार्पण्यतः क्वचित्।
इति ते दर्शितः सम्यङ् मन्त्रनाथस्य विस्तरः।
मन्त्रानधिकारिणः
नादान्तैः श्रावणीयोऽयं नैव यादृशतादृशैः ॥५८॥
N/A
References : N/A
Last Updated : March 08, 2021
TOP