अहिर्बुध्नसंहिता - अध्यायः १३

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः
प्रमाणार्थविषयकः प्रश्नः
नारदः---
नमस्ते देवदेवेश नमस्ते मरुतां पते।
भवानीपतये तुभ्यं नमस्ते वृषकेतन ॥१॥
त्वद्वक्त्रकमलोद्भूता अर्था अवधृता मया।
यत् कारणं च जगतामाधारो जगतां च यः ॥२॥
जगतां यत् प्रमाणं च त्रयं तदवधारितम्।
प्रमाणार्थमिदानीं मे वक्तुमर्हसि शंकर ॥३॥
यश्च यादृक् च यावांश्च प्रमाणास्यार्थ इष्यते।

तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः---
श्रृणु नारद तत्त्वेन प्रमाणस्यार्थमुत्तमम् ॥४॥
विष्णुसंकल्पमूलो यो बहुधा प्रविजृम्भते।
प्रमाणशब्दनिर्वचनम्
मितिर्मा गदिता सद्धिः प्रकृष्टा मा प्रमा स्मृता॥

प्रकर्षश्च मितेः सोऽयं यद्यथार्थावधारणम्।
धीसाधकतमं यत् तत् प्रमाणमिति शब्द्यते ॥६॥
प्रमाणार्थस्वरूपम्
प्रमाणेनार्थ्यते यद्धि स प्रमाणार्थ उच्यते।
यत् पुंसो हितमत्यन्तं सर्वदेशेषु सर्वदा ॥७॥
स प्रमाणार्थ इष्टोऽत्र स द्वेधा व्यवतिष्ठते।
तस्य द्वैविध्यम्
हितं च साधनं चेति तयोस्तत्त्वमिदं श्रृणु ॥८॥
हितस्वरूपम्
आत्यन्तिकी निवृत्तिस्तु पुंसो या दुःखसंततेः।
तयोपलक्षितं नित्यं सुखं यत् तद्धितं स्मृतम् ॥९॥
साधनस्वरूपम्
तस्य योऽव्यभिचारेण साधनत्वं प्रपद्यते।
हितसाधनमित्युक्तः सोऽर्थो वेदान्तपारगैः ॥१०॥
हितस्वरूपयाथात्म्यम्
स्वरूपभूतं यत् पुंसो हितं सुखमुदीरितम्।
भगवन्मयता सास्य भगवत्तापराह्वया ॥११॥

साधद्वैविध्यम्
अत्यन्तसाधनं तस्य यत् तद् द्वेधा व्यवस्थितम्।
विधा ज्ञानमिति त्वेका धर्म इत्यपरा विधा ॥१२॥
तयोर्हेतुहेतुमद्भावः
हेतुमद्धेतुभावस्तु विधयोरनयोः स्मृतः।
ज्ञानद्वैविध्यम्
ज्ञानं तु हेतुमत् तत्र तच्च द्वेधा व्यवस्थितम् ॥१३॥
साक्षात्कारमयं चैकं परोक्षं परमीर्यते।
तयोरपि हेतुहेतुमद्भावः
हेतुमद्धेतुभावोऽयं द्वयोरपि निरूप्यते ॥१४॥
हेतुमत्त्वपरोक्षं यत् परोक्षं हेतुरुच्यते।
कर्मणां ज्ञानहेतुत्वम्
अनयोर्ज्ञानयोर्धर्मः स हेतुरिति गीयते ॥१५॥
साक्षात् परोक्षे तत्साध्ये हेतुस्तन्मुखतो ह्यसौ।
कर्मणा द्वैराश्यम्
अस्यापि द्वे विधे दृष्टे तत्त्वशास्त्राब्धिपारगैः ॥१६॥

साक्षादाराधनात्मैकः परस्तु व्यवधानतः।
व्यवहितकर्मस्वरूपम्
अपारं तत् परं ब्रह्म शक्तिमत् परमेश्वरः ॥१७॥
नारायणसमाख्यातं नित्यं षाड्गुण्यमव्ययम्।
विभूतयस्तु तस्येमे ब्रह्माद्याः स्थावरान्तिमाः ॥१८॥
भावनात्रयसंमिश्रास्तत्सुदर्शनजृम्भिताः ।
या सा भूतिः पुरा शक्तेः कोट्यंशेनोदिता मया॥ १९॥
तदंशलेशाद् ब्रह्माद्या विष्णुसंकल्पजृम्भिताः।
एतद्विभूतिमुखतो यो ह्यकामहतैर्नरैः ॥२०॥
ब्रह्मार्णणेन क्रियते स धर्मो व्यवधानवान्।
अव्यवहितधर्मस्वरूपम्
विभूतिमत् परं ब्रह्म तदेवाव्यवधानतः ॥२१ ।
येन प्रीणयते योगी स साक्षाद्धर्म इष्यते।
पाञ्चरात्रस्याव्यवहितधर्मपरत्वम्
सात्त्वतं शासनं सर्वं तस्यैतस्यावबोधकम् ॥२२॥
शशिरस्कस्य वेदस्य व्यवहितधर्मपरत्वम्
यस्तु पूर्वस्त्रयीभागः परभागार्थतां गतः।
अपरस्य स धर्मस्य निष्कामानां निरूपकः ॥२३॥

पाशुपतस्यैकविभूतिविषयकधर्मपरत्वम्
धर्म एकविभूतिस्थो मया पाशुपते स्मृतः।
उग्रव्रतैर्नरैः शश्वद् ब्रह्मप्रीत्यै स साध्यते ॥२४॥
सांख्यस्य परोक्षज्ञानफलकत्वम्
साक्षाच्च व्यवधानाच्च यत् तन्मोक्षस्य साधनम्।
परोक्षं तत् प्रसंख्यानं ज्ञानं सांख्येन चिन्त्यते ॥२५॥
वेदान्तानामपरोक्षज्ञानफलकत्वम्
अन्तरङ्गसमाद्यङ्गभक्तिश्रद्धापुरः सरम्।
त्रय्यन्तैर्ब्रह्मविज्ञानमपरोक्षं विभाव्यते ॥२६॥
योगस्यापरोक्षज्ञानाङ्गयमादिपरत्वम्
बहिरङ्गान्तरङ्गाख्ययमाद्यङ्गकलापवान्।
चित्तवृत्तिनिरोधात्मा योगो योगानुसासने ॥२७॥
शश्वदभ्यासवैराग्यपरेशप्रणिधानतः।
साक्षात्कारावभासांख्यसिद्धशुद्धापवर्गदः ॥२८॥
गुणप्रधानभावेन सर्वत्र सर्वोपदेशः
यथोक्ततत्त्वविज्ञानं नानाहेतुविधान्वितम्।
धर्मो बहुविधश्चेति सर्वं सर्वैर्निरूप्यते ॥२९॥

शास्त्रेषु विविधफलान्तरसाधनान्तरोपदेशस्याभिप्रायकथनम्
हितप्रवृत्तेर्लोकानां तनूकाराय पाप्मनाम्।
रागद्वेषप्रयुक्तानामायुर्वेदोपदेशवत् ॥३०॥
नानारूपफलावाप्त्यै नानानियमभेदिताः।
शास्त्रैर्धर्मा विधीयन्ते नानारूपा धियस्तथा ॥३१॥

लौकिकपुरुषार्थद्वयोपक्षेपः
तदित्थं सविशेषं ते पुमर्थद्वयमीरितम्।
अथान्यल्लोकिकं शास्त्रैः पुमर्थद्वयमीरितम् ॥३२॥
१७अर्थकामौ तयोः कामः स्मृतो वैषयिकेरितः।
अर्थो गोभूहिरम्यादिप्रेक्षोत्थानफलात्मकः ॥३३॥
त्रिवर्गस्य मिथः साध्यसाधनभावविवेकः
अर्थो धर्मस्य कामस्य तथार्थस्यापि साधनम्।
धर्मो धर्मस्य कामस्य तथार्थस्यापि साधनम् ॥३४॥
कामो धर्मस्य कामस्य तथार्थस्यापि साधनम्।
अर्थः कामश्च सर्वत्र व्यभिचारेण साधनम् ॥३५॥
धर्मः सर्वस्य साध्यस्य नियमेनैव साधनम्।
तदेतत् त्रितयं प्रोक्तं त्रिवर्ग इति पण्डितैः ॥३६॥

मोक्षस्य सर्वदा साध्यत्वमेव
मोक्षश्च साध्य एवेति पुरुषार्थचतुष्टयम्।
अर्थकामयोः प्रमाणनिरूपणम्
दण्‍डनीतिः सवार्ता सा सोपवेदचतुष्टया ॥३७॥
प्रमाणत्वेन निर्दिष्टा पण्डितैरर्थकामयोः।
इतिहासादेस्तत्त्वज्ञानसहकारित्वम्
इतिहासपुराणाख्य उपवेदो हि यः स्मृतः ॥३८॥
सहायभावं शास्त्राणां तत्त्वज्ञाने व्रजत्यसौ।
इति ते लेशतः प्रोक्ता पुरुषार्थचतुष्टयी ॥३९॥
धर्मादीनामन्तरङ्गसाधनानि
अन्तरङ्गममुष्यास्तु साधनं श्रृणु नारद।
निर्व्याजा निरुपस्कारा दया धर्मस्य साधनम्॥ ४०॥
हेतुरुत्थानमर्थस्य देशकालोपपादितम्।
हेतुः कामस्य संकल्पो निर्व्याजो निरुपस्कृतः ॥४१॥
हेतुस्तु सर्वसंन्यासो मोक्षे ज्ञानपुरस्कृतः।
तेषामेव बहिःसाधनानि
न्याय्यं धर्मादि धर्मस्य बहिःसाधनमुच्यते ॥४२॥
बहिः साधनमर्थस्य तन्त्रावापादिचिन्तनम्।
कामे पाणिग्रहाद्युक्तं बहिरङ्गं विचक्षणैः ॥४३॥
निष्कामधर्मकृत्यादि बहिर्मोक्षस्य साधनम्।
विजृम्भितमिदं भूतेः पुरुषार्थचतुष्टयम् ॥४४॥
संकल्पो वैष्णवस्तस्य विजृम्भाहेतुरुच्यते।

अध्यायार्थोपसंहारः
इति ते सकला प्रोक्ता प्रमाणार्थगतिः परा।
ससाधना सप्रकारा किं भूयः श्रोतुमिच्छसि ॥४५॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः
आदितः श्लोकाः ७८३

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP