युद्धकाण्डम् - काव्य १०५१ ते १११८

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


अंके तमादा य मुदा श्रीरामः परिषस्वजे
अथाभ्यवंदद्भरतः सीतां स्वं नाम चाब्रवीत्. ॥१०५१॥
लक्ष्मणं च प रा क्रांतं वंदमानं महामतिम्.
प्रहृष्टं भरतश्चक्रे संभाव्यालिंगनादिना. ॥१०५२॥
ततः प्लवंग म श्रेष्ठं जांबवंतं तथांगदम्ं
अन्यांश्च नलनीलादीन् यूथपान् परिषस्वजे. ॥१०५३॥
‘ भ्राता चतुर्णां श्री मंस्त्वमस्माकमसि पंचमः ’
इत्यब्रवीत्परिष्वज्य भरतो वानरेश्वरम्. ॥१०५४॥
परिष्वज्याह रा जेंद्रनंदनस्तं बिभीषणम्,
‘ दिष्टया त्वया सहायेन कृतं कर्म सुदुष्करम् ’ ॥१०५५॥
शत्रुघ्नोऽपि न म स्कारं चकार प्रभुपादयोः
जानक्याश्च महादेव्याः कीर्तयन्नात्मनोऽभिधाम्. ॥१०५६॥
रामो ननाम ज ननीं कौसल्यामतिवत्सलाम्
सुमित्रां सत्त्वसंपन्नां कैकेयीं च यशस्विनीम्. ॥१०५७॥
वसिष्ठं स्वान्व य स्याद्यं ब्रह्मणा सदृशं गुरुम्
ऋषिजः पितुरन्यांश्च ववंदे स सतां गतिः. ॥१०५८॥
सचिवान्पितु रा प्तांस्तान् पौरान्त्सर्वान्यथार्हतः
हर्षयामास धर्मात्मा चकोरानिव चंद्रमाः. ॥१०५९॥
पादुके ते तु म हिते गृहीत्वा भरतः स्वयम्
चरणाभ्यां नरेंद्रस्य योजयामास धर्मवित्. ॥१०६०॥
अब्रवीच्च प्रां ज लिस्तं ‘ सफलो मे मनोरथः
एतत्ते सकलं राज्यं न्यासं प्रत्यर्पितं मया. ॥१०६१॥
पश्य नाथ ! प्र य त्नेन धनं धान्यं गृहं बलम्
भवतस्तेजसा सर्वं कृतं दशगुणं मया. ’ ॥१०६२॥
तथा ब्रुवाणं ज न्मीड्यं दृष्त्वा तं भ्रातृवत्सलम्
मुमुचुर्वानरा बाष्पं राक्षसश्च बिभीषणः. ॥१०६३॥
रामस्तं विन य स्यैकमालयं भरतं नतम्
अंकमारोप्य यानेन ययौ तेन तदाश्रमम्. ॥१०६४॥
व्योमयानव रा त्तस्मादवतीर्य रघूद्वहः,
‘ कुबेरं वह गच्छे’ति तदाज्ञापयदीश्वरः. ॥१०६५॥
आज्ञप्तमग म च्छ्रीदं विमानं तदनंतरम्
भरतः प्रार्थयामास, ‘ राज्यं स्वीकुर्वि’ति प्रभुम्. ॥१०६६॥
भ्रातुस्तथेति श्री रामः प्रतिजग्राह तद्वचः
शत्रुघ्नवचनात्प्राप्ता निपुणाः श्मश्रुवर्धनाः. ॥१०६७॥
पूर्वं भ्रातृषु रा जेंद्रः स्नातेषु भरतादिषु
सुग्रीवे राक्षसेंद्रे च स्नानं चक्रे ततः स्वयम्. ॥१०६८॥
शत्रुघ्नः पर म प्रेम्णा विश्वालंकारमग्रजम्
अलंकारैरलंचके सद्गुणैरप्यलंकृतम्. ॥१०६९॥
प्रतिकर्माथ ज गतीपुत्र्या दशरथस्रियः
चक्रुर्वानरपत्नीनां कौसल्या पुत्रवत्सला. ॥१०७०॥
सुमंत्रोऽथ ह य श्रेष्ठैर्युक्तं रथमुपानयत्
तमारुरोह श्रीरामः प्रभुः परपुरंजयः. ॥१०७१॥
रश्मीन् जग्राह रा जीवलोचनो भरतः स्वयम्
छत्रं पूर्णशरच्चंद्रप्रभं शत्रुघ्न आददे. ॥१०७२॥
बिभीषणोऽथ म तिमान् वालव्यजनमुत्तमम्
लक्ष्मणो व्यजनं तस्य तालवृंतमयं तदा. ॥१०७३॥
शत्रुंजयं कुं ज रेंद्रं चलत्पर्वतसंनिभम्
आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः. ॥१०७४॥
ययुः समास्था य बहून् वारणान् वानरोत्तमाः
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः. ॥१०७५॥
रामं सुरद्वि ज श्रेष्ठा द्रष्टुं व्योम्नि समागताः
प्रहृष्टाः पूजयामासुः स्तुतिभिः पुष्पवृष्टिभिः. ॥१०७६॥
साकेतं, शम य न्कृत्स्नं संतापं, प्रविवेश सः
तृषार्तं चातककुलं घर्मार्त इव वारिदः. ॥१०७७॥
शुश्राव मधु रा रामो गिरः स्वगुणपूरिताः
प्रजाः प्रापुः सुखं दृष्ट्वा मुखं रामस्य भूरि ताः. ॥१०७८॥
ददृशू राम म हिषीमयोध्यामहिलास्तथा
यथा कल्पलतां प्राप्तामर्थिनां चित्तवृत्तयः. ॥१०७९॥
ततः स रामः श्री मत्तत्प्राप मुख्यं पितृर्गृहम्
अथाह भरतं ‘ भक्तं हनूमंतं बिभीषणम् ॥१०८०॥
सुग्रीवं वान रा धीशं जांबवंतं तथांगदम्
यूथपैः सह मातॄणां वंदनार्थं शनैर्नय. ॥१०८१॥
वानरेंद्राय म द्रेहं समृद्धं त्वं निवेदय. ’
भरतस्तत्तथा कृत्वा वानरेश्वरमब्रवीत्, ॥१०८२॥
‘ दूतांस्त्वमद्य ज वनान् काकुत्स्थस्य महात्मनः
आज्ञापयाभिषेकाय जलमाहर्तुमंबुधीन्. ’ ॥१०८३॥
तदाज्ञया तो य माशु स्वर्णकुंभेन वानरः
सुषेण आनयामास पूर्वात्सिंधोर्महाबलः. ॥१०८४॥
ऋषभः साग रा दंभो दक्षिणाद्रवयः कपिः
पश्चिमादर्णवात्तूर्णं स्वयं मारुतिरुत्तरात्, ॥१०८५॥
अन्ये प्लवंग म वरा जांबवांश्चर्क्षभूपतिः
नदीशतानां पंचानां जलं कुंभैरुपाहरन्. ॥१०८६॥
वसिष्ठादिद्वि ज श्रेष्ठाः पीठे रत्नमये प्रभुम्
ससीतमभ्यषिंचंस्तैर्विधिना तीर्थवारिभिः. ॥१०८७॥
कन्याभिश्च प्रि य परैः सचिवैः शस्त्रिभिस्तथा
नैगमैर्लोकपालैश्च श्रीरामं तेऽभ्यषेचयन्. ॥१०८८॥
पूर्वं साक्षात्त्रि ज गतां कर्त्रा यन्निर्मितं वरम्
तत्किरीटं वसिष्ठेन स्थापितं राममस्तके. ॥१०८९॥
ऋत्विग्भिश्चाव्य य प्राज्यतेजोभिर्मणिभूषणैः
सभायां हेमक्लृप्तायां राघवः समलंकृतः. ॥१०९०॥
छत्रं च द्विज रा जाभं तस्य शत्रुघ्न आददे.
बिभीषणः कपींद्रश्व वालव्यजनमुत्तमम्. ॥१०९१॥
मुक्ताहारं हे म पद्ममालां रामाय मारुतः
ददौ सभायामागत्य मूर्तः शक्रप्रचोदितः. ॥१०९२॥
तत्राभिषेके श्री जाने रामस्यामिततेजसः
प्रजगुर्देवगंधर्वा ननृतुश्चाप्सरोगणाः. ॥१०९३॥
सस्यपूर्णा ध रा सर्वे फलवंतश्च पादपाः
गंधवंति च पुष्पाणि बभूवू रागह्वोत्सवे. ॥१०९४॥
सहस्त्रशत म श्वानां धेनूनां च गवां शतम्
ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः. ॥१०९५॥
त्रिंशत्कोटीः स ज गतीसुरेभ्यो हेम्न ईश्वरः
नानाभरणवस्त्राणि महार्हाणि ददौ पुनः. ॥१०९६॥
प्लवंगराजा य विभुः कांचनीं मणिविग्रहाम्
सूर्यरश्मिनिभां दिव्यां स्रजं प्रायच्छदीश्वरः. ॥१०९७॥
महार्हे रुचि रा कारे चंद्ररश्मिविभूषिते
सर्वरत्नमये श्रीमानंगदायांगदे ददौ. ॥१०९८॥
मुक्ताहारं स्वं म हार्हं सीतायै प्रददौ प्रभुः
तं कठादवमुच्याथ देवी राममुदैक्षत. ॥१०९९॥
तामिंगितज्ञो ज गतीप्रभवामब्रवीत्प्रभुः,
‘ प्रदेहि सुभगे ! हारं यस्य तुष्टासि भामिनि ! ’ ॥११००॥
अथांजनेया य ददौ तं हारं सा दयावती
ययावतीत्य स जगन्नान्यैः श्रीस्तेन यावती. ॥११०१॥
धृतिर्यशस्ते ज सी च दाक्ष्यं सामर्थ्यमुत्तमम्
यस्मिन् बुद्धिर्विक्रमश्च पौरुष्यं विनयो नयः, ॥११०२॥
सोंऽजनातन य स्तेन हारेण शुशुभे तथा
मंदाकिन्याः प्रवाहेण सुमेरु शैलराडिव. ॥११०३॥
सुग्रीवो वान रा धीशो राक्षसेंद्रो बिभीषणः
हनूमान् जांबवानन्ये श्रीरामेण समर्चिताः. ॥११०४॥
गतः प्लवंग म श्रेष्ठः किष्किंधां प्रभुसत्कृतः
लब्ध्वा कुलधनं लंकां हृष्टः प्रायाद्बिभीषणः. ॥११०५॥
स्वयौवराज्यं श्री रामो लक्ष्मणानुमते ततः
भरताय ददौ प्रेम्णा रागह्वो लाघवोज्झितम्. ॥११०६॥
श्रीरामः प्रपय रा ज्यं तद्वर्षाण्ययुतमेकराट्
दशाश्वमेधानाजहे सदश्वान् भूरिदक्षिणान्. ॥११०७॥
आसन्प्रजाः स म स्तास्ता वीतशोका निरामयाः
बहुवर्षायुषोऽत्याढ्या बहुपुत्रा बहुश्रुताः. ॥११०८॥
निकामवर्षी ज लदो नासीद् व्यालकृतं भयम्
न पर्यदेवन्विधवा रामे राज्यं प्रशासति. ॥११०९॥
तेजो बलं व य स्तेषां जनानां नाभवच्चलम्
निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत्. ॥१११०॥
लक्ष्मणानुच रा द्रामात्कामायुतशतोत्तमात्
सर्वान्मनोरथान्प्राप्ताः प्रजा मुमुदिरे भृशम्. ॥११११॥
समस्यातिस म र्थस्य तस्यानिशदयावतः
रामस्य मुमुदे विश्वं कीर्त्या विशदयावतः. ॥१११२॥
सर्वापि धन्या ज नताऽजनताभूत्तदानिशम्
भूनदनप्रभवना भवनाशकरात्प्रभोः. ॥१११३॥
साध्वसं नैव य मतो जातु जीवस्य कस्यचित्
सर्वेऽपि सुहृदः स्वैरं, वैरं केवलमेनसा. ॥१११४॥
भर्ता सर्वस्य ज गतः श्यामो रामो यथा घनः
भक्ता मयूरास्तं दृष्ट्वा यत्तेषां मुदितं मनः. ॥१११५॥
सर्वेषामपि य न्नाम स्मरतां भद्रसादरम्
श्रीमद्वाल्मीकिना गीतं चरितं सद्रसादरम्. ॥१११६॥
यशो विश्वाभि रा मस्य श्रीरामस्यातिपावनम्
गीतं वापि श्रुतं वापि यथामत्यनुमोदितम्. ॥१११७॥
रामनामैव म हितं सन्मनोऽनेन मोहितम्
यो हि तं प्राप्तुकामो द्राक् तस्यान्यत्खलु नो हितम्. ॥१११८॥
इति श्रीमन्मंत्ररामायणे श्रीरामनंदनमयूरविरचिते युद्धकांडे षडशीतितमो मंत्रः !

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP