संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य १००१ ते १०५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य १००१ ते १०५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १००१ ते १०५० Translation - भाषांतर उत्तरं तीर म स्याब्धेरेतद्देवि ! मनोरमम् अत्र पूर्वं महादेवः प्रसादमकरोद्विभुः. ॥१००१॥इदं तु तीर्थं श्री मद्यत्तीर्थमन्यत्ततोऽधिकम्सेतुबंध इति ख्यातं भव्यं कव्यंचितं हितम्. ॥१००२॥अत्र राक्षस रा जोऽयमाजगाम बिभीषणः, सुग्रीवस्य पुरी चैषा किष्किंधा वालिपालिता. ’ ॥१००३॥सीतोवाच, ‘ म म स्त्रीभिः सुग्रीवस्य महात्मनःताराप्रभृतिभिर्गंतुं सार्धमिच्छा पुरीं प्रभो ! ’ ॥१००४॥एवमस्त्वित्य ज कुलश्रेष्ठः प्रेष्ठः स तां प्रियाम् उक्त्वोवाच त अथा कर्तुं सुग्रीवं वानरेश्वरम्. ॥१००५॥स सुग्रीवः प्रि य तमां स्वयं तारां तथाब्रवीत्सा चाहूय प्लवंगानां सर्वा भार्याः स्वलंकृताः ॥१००६॥ताभिः सह त्व रा युक्ता पुष्पकं सा समारुहत् सीता तया कपींद्रस्य योषिता तोषिताभवत्. ॥१००७॥ततो रघूत्त म स्तत्र पुष्पके द्रुतगामिनि वैदेहीमित्युवाचायमृष्यमूकः स भूधरः. ॥१००८॥यत्राहं वारि ज स्पर्धिमुखि ! प्रियतमे ! सति ! अनेन राज्ञा कीशानां सुग्रीवेण समागतः. ॥१००९॥ त्वया विहीनो य त्राहं विलापपरमोऽभवम्एषा सा दृश्यते पंपा शंपाकंपावहप्रभे ! ॥१०१०॥अत्र सीते ! यो ज नोग्रबाहू राहू रसागतः कबंधो निहतो भ्रात्रा लक्ष्मणेन तथा मया. ॥१०११॥ न्यग्रोधं पश्य य त्र त्वां त्रातुं मम पितुः सखा प्रवृत्तः समरे तातो जटायुर्निहतोऽरिणा. ॥१०१२॥रक्षसां यत्र रा ज्ञा त्वं रावणेव हृता बलात् एषा गोदावरी रम्या प्रसन्नसलिला शुभा. ॥१०१३॥एतत्तदाश्र म पदमस्माकं वरवर्णिनि ! पर्णशाला तथा चित्रा दृश्यते शुभदर्शने ! ॥१०१४॥कांतेऽतिपुण्य श्री वासः कुंभजस्यायमाश्रमः शरभंगस्य च मुनेरत्रेः कुलपतेरयम्. ॥१०१५॥चित्रकूटो च रा रोहे ! शैलेंद्रोऽयं प्रकाशते कैकेय्या अत्र पुत्रो मां प्रसादयितुमागतः. ॥१०१६॥राजपुत्रि ! य म स्यैषा सा स्वसा यमुना नदी भरद्वाजाश्रवश्चैष दृश्यते सुकृताकरः. ॥१०१७॥ इयं च गंगा ज गतां सेव्या देव्याश्रितेष्टदा श्रृंगबेरपुरं चैतद्रुहो यत्र सखा मम. ॥१०१८॥ सैषा सतां प्रि य तमा राजधानी पितुर्ममअयोध्यां कुरु वैदेहि ! प्रणामं पुनरागता. ॥१०१९॥ततस्ते वान रा ऋक्षा राक्षसाश्च सनायकाःउत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा. ॥१०२०॥शुभ्रहर्म्योत्त म प्राज्यप्रोच्चप्रासादमालिनीम् अपश्यंस्ते पुण्यवंतः साक्षादिंद्रपुरीमिव. ॥१०२१॥रामो भरद्वा ज मुनिं तं ववंदे तदाश्रमे पूर्णे चतुर्दशे वर्षे पंचम्यां रचितांजलिः. ॥१०२२॥स्ववृत्तं कथ य न् रामो मातॄणां भरतस्य च पप्रच्छ मुनिशार्दूलं भरद्वाजं द्विजेश्वरम्. ॥१०२३॥कुशलं स द्वि ज श्रेष्ठः कथयामास सर्वतः भरतस्य व्रतं तीव्रं भक्तिं तत्पादुकार्चने. ॥१०२४॥द्रुमेष्वतिश य स्तस्मात्फलानां वरदान्मुनेः वव्रे बद्धांजली रामो मार्गे यावन्निजं पुरम्. ॥१०२५॥मारुतिं च त्वं रा युक्तं भरतं प्रति राघवःप्रेषयामास कुशलागमं कथयितुं प्रभुः. ॥१०२६॥स श्रृंगबेर म गमन्नररूपोऽवदद्गुहम् कुशली ते सखा, श्वस्त्वं द्रक्ष्यस्यत्रैव राघवम्. ॥१०२७॥ ततः स तूर्णं श्री मंतं भरतं जटिलं कृशम् ‘ आगतः प्रभु’रित्युक्त्या चकार मुदितं भृशम्. ॥१०२८॥स प्रहर्षभ रा द्भूमौ पपात भरतस्तदा उत्थाय कपिमालिंग्य तं सिषेचा श्रुबिंदुभिः. ॥१०२९॥अथाब्रवी‘त्त्व म मरो नरो वा करुणागतःप्रियाख्यानस्य ते सौम्य ! ददामि ब्रुवतः प्रियम् ॥१०३०॥कन्या धन्याः कं ज नेत्र्यः षोडश स्वर्णभूषिताः गवां शतसहस्त्रं च ग्रामाणां च शतं मतम्. ॥१०३१॥बहून्यहो ! हा य नानि गतस्य सुमहद्वनम् शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्. ॥१०३२॥कल्याणियं प रा गाथा लौकिकी प्रतिभाति मेएति जीवंतमानंदो नरं वर्षशतादपि. ’ ॥१०३३॥कुशलं वृत्त म खिलं संपृष्टो भरतेन सः कथयामास मुदितो बृस्यां समुपवेशितः. ॥१०३४॥‘ सलक्ष्मणं वि ज यिनं सदारं सखिसंयुतमअविघ्नपुष्ययोगेन श्वो रामं द्रष्टुमर्हसि. ’ ॥१०३५॥प्रहृष्टहृद य स्तुत्वा मारुतिं भरतोऽब्रवीत्, ‘ चिरस्य खलु मे पूर्णो हृदि रूढो मनोरथः. ’ ॥१०३६॥प्रहृष्टं सोऽनु ज मथ भरतः सत्यसंगरःस्वयमाज्ञापयामास पुरमार्गाद्यलंक्रियाम्. ॥१०३७॥जयंतो विज य स्तद्वत्सिद्धार्थश्चार्थसाधकः अशोको मंत्रपालश्च सुमंत्रो धृष्टिरष्टमः. ॥१०३८॥ ते प्रधानास्त्व रा युक्ताः पौराः सूर्योदये द्विजाः निर्ययू राजदाराश्च रामं द्रष्टुं समुत्सुकाः ॥१०३९॥द्विजातिनैग म श्रेष्ठैः सचिवैर्भरतो वृतः धर्मज्ञः शिरसा भव्ये गृहीत्वा रामपादुके ॥१०४०॥छत्रं च राज श्री चिह्नं पुरस्कृत्य शशिप्रभम् शुभ्रे च वालव्यजने शंखभेरीशतस्वनैः ॥१०४१॥प्रत्युद्ययौ न रा धीशं रमं चीराजिनांबरः उपवासकृशो दीनः प्रमाश्रुभिरभिप्लुतः. ॥१०४२॥तदा तुरंग म खुरै रथचक्रैश्च तद्रवैः बृंहितैर्दंतिनां वाद्यैः संचचालेव मेदिनी. ॥१०४३॥अदृष्ट्वा तद्रा ज यानमपृच्छन्मारुतिं पुनः,‘ कच्चिन्नानुगतस्तात, कापेयीं रीतिमात्मनः. ॥१०४४॥गर्जंति हर य स्तेषां नादः संश्रूयते महान् अयमागत एवार्य ’ इत्युवाच स तं कपिः. ॥१०४५॥अथ तद्राज रा जस्य विमानं पुष्पकं महत् आराददृश्यत व्योम्नि शशिसूर्यसमप्रभम्. ॥१०४६॥दृष्ट्वा हर्षेण म हता रामोऽयमिति कीर्तिते स्त्रीबालयुववृद्धानां निःस्वनो दिवमस्पृशत्. ॥१०४७॥स्यंदनेभ्यः कुं ज रेभ्यस्तुरगेभ्योऽवतीर्य ते महीं गतास्तं ददृशुर्नराः सोममिवांबरे. ॥१०४८॥प्रांजलिः प्रण य प्रह्वो भरतो राघवोन्मुखः ववंदे पुष्पकस्थं तं मेरुस्थमिव भास्करम्, ॥१०४९॥ततो विमानं ज गतीं पपात प्रभुकामतः ववंदे भरतो रामं बाष्पकंठः पुनःपुनः. ॥१०५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP