युद्धकाण्डम् - काव्य १०१ ते १५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


ततः प्रहस्तो ‘ ज गति देवादिभ्यो न नो भयम्. ’
इत्यब्रवीद्भृशं मत्तो, बिभीषण उवाच तम्. ॥१०१॥
‘ कर्तुं पराज य स्तस्य रामस्य न मया त्वया
कुंभकर्णेन वा शक्यो राज्ञा वापि च सर्वथा. ॥१०२॥
राममुक्ताः श रा घोरा न प्रविष्टास्तनौ तव
तेन प्रहस्त ! पुरतो रावणस्य विकत्थसे. ॥१०३॥
अयं राजा तु म हता व्यसनेनांतहेतुना
अन्वास्यते पराभूतो भवद्भिरहितैर्जडैः. ॥१०४॥
रक्ष्यः सुहृद्भिः श्री मांस्तु निगृह्यापि कचग्रहात्
यथा भीमबलैर्भूतैर्गृहीतो हितकारिभिः ’ ॥१०५॥
द्म्द्रजित्तं प रा नर्थशांतिकामं पितुर्हितम्
गर्हयामास दुर्वृत्तो सद्वृत्तं सदसि स्फुटम्. ॥१०६॥
‘ त्वमत्र वंशे म हिते भीरुरल्पबलोऽबुधः
भीरो ! भीषयसे किं न पिता मे रत्नभुक् प्रभुः. ॥१०७॥
जितो जयंत ज नको मया वज्रधरो रणे
क्क वयं वीश्वजेतारं क्क प्लवंगसखो नरः ? ’ ॥१०८॥
तमाबभाषे य क्षेंद्रशीलः साधुर्बिभीषणः
मंत्रे बालस्त्वमानीतो येन वध्यः स दुर्मतिः. ॥१०९॥
इंद्रजित्त्वं न रा ज्ञोऽस्य हितः पुत्रोऽस्यारिर्ध्रुवम्
निवारयसि न प्रपतं रामान्नाशं सुदुर्मते ! ॥११०॥
अविवेकी त्व म ल्पज्ञस्तीक्ष्णो वध्योऽसि बालिशः
रामलक्ष्मणयोर्बाल ! वज्रकोट्यधिकाः शराः. ’ ॥१११॥
उक्तवंतं नि ज हितं शुद्धभावं बिभीषणम्
अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥११२॥
‘ ज्ञातीनां ज्ञात य स्तुष्टा भवंति व्यसने सदा
वसेत्सहाहिना, नैव ज्ञातिना शत्रुसेविना. ॥११३॥
दले सरसि ज स्यांबुबिंदुः श्लेषं न गच्छति
तथेषदप्यनार्ये हि सौहृदं सर्वथा जने. ॥११४॥
मम भाग्योद य स्ते न प्रियो ज्ञातिरसि स्फुटम्
विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम्. ’ ॥११५॥
एवं वक्ता प रा सुः स मुहूर्तेऽस्मिन् भवेत्परः
कृतघ्न ! त्यक्तमर्याद ! त्वां तु धिक् कुलपांसन !. ’ ॥११६॥
एवमुक्तः स म तिमान् परुषं वाक्यमुच्चकैः
न्यायवादी गदापाणिरुत्पपातासनात् द्रुतम्. ॥११७॥
सार्धं चतुर्भिः श्री मान् स्वैः सचिवैर्नभसि स्थितः
अब्रवीद्रावणं क्रुद्धः सभायामवमानितः, ॥११८॥
‘ यथेष्टं ब्रूहि रा जन्मां ज्येष्ठः पितृसमोऽसि मे
परुषं न क्षमाम्युक्तं न त्वं धर्मपथे स्थितः. ॥११९॥
हितकामेन म हितं वाक्यमुक्तं दशानन !
न गृह्णंत्यकृतात्मानः कालस्य वशमागताः. ॥१२०॥
सुलभास्ते ह्य ज स्रं ये पुरुषाः प्रियवादिनः
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः. ॥१२१॥
तन्मर्षयतु य च्चोक्तं गुरुत्वाद्दितमिच्छता
आत्मानं सर्वथा रक्षपुरीं चेमां सराक्षसाम्. ॥१२२॥
स्वस्ति तेऽस्तु सु रा राते ! सुखी भव मया विना
त्वामापृच्छय गमिष्यामि धर्मन्यायौ मतौ मम. ’ ॥१२३॥
तमेवमुक्त्वा म तिमान् यत्र रामः सलक्ष्मणः
तं देशमागतो व्योम्नि चतुर्भिः सचिवैः सह. ॥१२४॥
दृष्ट्वा तं व्योम्नि ज गतीधराभं रावणानुजम्
सुग्रीवस्याज्ञया हंतुमुत्पेतुः कपयो रुषा. ॥१२५॥
स महात्मा वि य द्वर्ती सुग्रीवं तांश्च वानरान्
उवाच, राक्षसपतेरनुजोऽहं बिभीषणः, ॥१२६॥
जनस्थानाद्रा ज कन्या जानकी मायया हृता
दशकंठेन सा रुद्धा शुद्धाचारा प्रभुप्रिया. ॥१२७॥
स मया सम य ज्ञेन प्रार्थितो तद्धितार्थिना
साधु निर्यात्यतां सीता रामायेति पुनःपुनः. ॥१२८॥
हितं वचो न रा ज्ञा मे गृहीतं परुषं बहु
प्रोक्तं ततस्तं त्यक्त्वाहं रामं शरणमागतः. ॥१२९॥
शरण्याय स म र्थाय राघवाय महात्मने
निवेदयत मां क्षिप्रं बिभीषणमुपस्थितम्. ’ ॥१३०॥
स्वयं कपींद्रः श्री राममुवाच, ‘ रघुनंदन !
रावणस्यानुजः साक्षादागतोऽत्र बिभीशणः. ॥१३१॥
निवेदयत रा माय क्षिप्रं मां शरणागतम्
इति वक्ति महाराज ! चतुर्भिः सचिवैः सह. ॥१३२॥
अहं तु वध्यं म न्ये तं, शत्रुपक्षे न विश्वसेत्. ’
पप्रच्छ रामः सर्वांस्ता‘न्कथं कार्यमि’ति प्रभुः. ॥१३३॥
तत्र तारात्म ज स्तद्वदृषभो जांबवानपि
अन्ये च शंक्य इत्याहुः परीक्ष्यश्च विशेषतः. ॥१३४॥
अंजनातन य स्तज्ञ्ज्ञः प्रोवाच प्रांजलिस्तदा,
‘ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि. ॥१३५॥
शरणं त्वां ध रा धीश ! शरण्यं भक्तवत्सलम्
बिभीषणोऽयं संप्राप्त इति मन्ये रघूत्तम ! ॥१३६॥
न लक्ष्यतेऽस्य म तिमन् ! ब्रुवतो दुष्टभावता
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः. ॥१३७॥
निःशंकोऽयं रा ज वर्य ! न शठः परिसर्पति
न चास्य दुष्टा वागस्ति तस्मान्मे नास्ति संशयः. ॥१३८॥
उद्योगं ते न य ज्ञस्य दृष्ट्वा दुष्टं च रावणम्
वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम्. ॥१३९॥
राज्यकामस्त्रि ज गतां नाथायं रावणानुजः
बुद्धिपूर्वमिह प्राप्तः कार्यस्ते तस्य संग्रहः. ॥१४०॥
यथाशक्त्याश य स्तस्य ज्ञात्वोक्तोऽयं मया प्रभो !
प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर ! ’ ॥१४१॥
प्रसन्नात्माथ राजेंद्रस्तच्छ्रुत्वा मारुतेर्वचः
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्. ॥१४२॥
विवक्षितं म म श्राव्यं भवद्भिः श्रेयसि स्थितैः
मित्रभावेन संप्राप्तं न त्यजेयं कथंचन. ॥१४३॥
मामागतो यः श्री मान्त्स सत्कार्यो बंधुवन्मया
दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्. ’ ॥१४४॥
सुग्रीवः पुन रा हा‘र्य ! व्यसनं प्राप्तमग्रजम्
यस्त्यक्तवान् कृतघ्नोऽयंण कमन्यं न परित्यजेत्. ’ ॥१४५॥
तमुवाचासी म सत्त्वः प्रभु कारुण्यसागरः
व्यसनेषु पहर्तारो ज्ञातयोऽन्ये च शत्रवः. ॥१४६॥
सुप्रसिद्धं रा ज वृत्तमिदं लक्ष्मण ! लौकिकम्
पापाद्राज्ञो भयं प्राप्तस्तस्मादयमिहागतः. ॥१४७॥
मम त्वस्माद्भ य प्राप्तिर्नास्ति ज्ञातेर्हि साध्वसम्
राज्यकामः स्वोपजीव्यविरोधं न करिष्यति. ॥१४८॥
संत्येव चतु रा लोके सर्वत्र प्लवगेश्वर !
तस्माद्बिभीषणो ग्राह्यः प्राप्तो भ्रातुर्महद्भयम्. ॥१४९॥
न भ्रातरः स म स्तास्तु भवंति भरतोपमाः
पुत्रा वा मद्विधास्तात ! सुहृदो वा भवद्विधाः. ’ ॥१५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP