युद्धकाण्डम् - काव्य २५१ ते ३००

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


‘ एष नीलो ग ज श्चैष सेतुहेतुर्नलस्तथा
एषोंऽगदो वालिपुत्रो जांबवानृक्षराड्यम्. ॥२५१॥
तन्नामरूपं य त्तेजः सैन्यं चापि प्रधानतः
सारणः कथयामास तौ च श्रीरामलक्ष्मणौ. ॥२५२॥
सैन्यसंख्या गि राऽशक्या सुग्रीवसचिवा हि ये
एषां कोटिसहस्राणि नव पंच च सप्त च. ॥२५३॥
प्रसंख्यातास्तेऽ म राणां तेजोगुणसमन्विताः
तथा शंकुसहस्राणि तथा वृंदशतानि च. ’ ॥२५४॥
श्रुत्वोत्कर्षं रा ज राजभ्राता रामस्य वर्णितम्
भर्त्सयामास तौ वीरौ कथांते शुकसारणौ. ॥२५५॥
‘ हन्यां भवंतौ य न्मूढौ शत्रुपक्षप्रशंसिनौ
यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत्. ’ ॥२५६॥
गतावमात्यौ ज नितत्रासौ तावथ रावः
शार्दूलं प्रेषयामास चरमन्यैश्चरैः सह. ॥२५७॥
प्रविश्य सैन्यं य त्नेन स पश्यन् मायया वृतः
बिभीषणेन शार्दूलो ग्राहितः पापधीरिति. ॥२५८॥
मोक्षितः सोऽपि रा मेण वध्यमानः प्लवंगमैः
अन्येऽपि राक्षसाः कीशैर्निगृहीता दयालुना. ॥२५९॥
स शार्दूलः स्व म थनं बलिभिर्वानरैः कृतम्
पृष्टो राक्षसराजेन कथयामास सांजलिः, ॥२६०॥
‘ यथा समर्थः श्री रामस्तथा राजन् ! बिभीषणः
तेन सैन्ये प्रविष्टोऽहं गृहीतस्ताडितः परैः. ॥२६१॥
परिणीतोस्मि रा जंस्तैर्बलमध्येऽत्यमर्षणैः
यथा हनूमान् लंकायां बध्वाऽस्माभिः पुरा प्रभो ! ॥२६२॥
परिणीव च मन्यूग्रै रक्तार्द्रो‍ऽहं प्लवंगमैः
रामसंसदि नीतोऽस्मि कृपया तेन मोचितः. ॥२६३॥
कपिसैन्ये व्र ज न् वध्यश्चरस्तेषामसंशयम्
आयुःशेषात्प्रसादाच्च प्रभोर्जीवन्निहागतः. ’ ॥२६४॥
इत्युक्त्वा स भ य व्यग्रः शार्दूलः सुरशत्रुणा
पुनः पृष्टो‍ब्रवीन्मुख्यान्सुग्रीवादीन्सुरांशजान्. ॥२६५॥
विद्युज्जिह्वं सु रा रातिर्महामायमथाब्रवीत्
‘ शिरो रामस्य सशरं धनुश्च कुरु माचिरम्. ’ ॥२६६॥
चक्रे तथैव म नसः सीताया मोहकृत्स तत्
दृष्ट्वा दशाननस्तस्मै भूषणं स्वं ददौ मुदा. ॥२६७॥
ततः श्रीदानु ज स्तन्वीमशोकवनिकागताम्
सीतां ददर्श दुष्टात्मा तामुवाच पतिव्रताम्. ॥२६८॥
‘ जानक्याश्रित्य य स्य त्वं वीर्यं मामवमन्यसे
स हतो राक्षसै रात्रौ, सुप्तोऽब्ध्युत्तररोधसि. ॥२६९॥
छिन्नं मूलं ते ज ढेऽद्य त्वद्दर्पो निहतो मया,
भव मैथिलि ! भार्या मे, किं मृतेन करिष्यसि ? ॥२७०॥
बिभीषणो नि य मितो, हतौ सुग्रीवमारुती
दिशं प्रव्राजितः शेषैर्लक्ष्मणः प्लवगैः सह. ॥२७१॥
प्रहस्तेन प रा भूतो हतो भर्ता तवाबले !
क्षतजार्द्रं रजोध्वस्तमिदं तस्याहृतं शिरः. ’ ॥२७२॥
शृण्वंत्यां पर म क्रूरां वार्तां तस्यां दशाननः
उवाच राक्षसीं ‘ येन रामस्य शिर आहृतम्. ॥२७३॥
तमानयाशु, श्री हीनं पत्युः पश्यत्वियं शिरः ;
इति श्रुत्वा तयाहूतो विद्युज्जिह्वो निशाचरः. ॥२७४॥
तच्छिरो धनु रा दाय मायावी विनयान्वितः
प्रणाभं शिरसा कृत्वा रावणस्याग्रतः स्थितः. ॥२७५॥
तमुवाच स म र्त्यांशो, ‘ विद्युज्जिह्व ! सकार्मुकम्
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः. ’ ॥२७६॥
धनुः शिरोंबु ज युतं सीतायाः पुरतस्तदा
निक्षिप्यादर्शनमगात्स मायावी क्षपाचरः. ॥२७७॥
सीता दृष्ट्वा प्रि य स्यैव मत्वा तत्कार्मुकं शिरः
विजगर्हेऽत्र कैकेयीं क्रोशंतीं कुररी यथा. ॥२७८॥
बाला गता ध रा मार्ता सा छिन्ना कदली यथा
तच्छिरः समुपाघ्राय विललापायतेक्षणा. ॥२७९॥
‘ हा ! हतास्म्यद्य म न्नाथ ! पितृवाक्पालनव्रत !
त्वन्नाशात्पश्चिमावस्थां गतास्मि विधवा कृता. ’ ॥२८०॥
विलप्य देवी ज गतीसंभवा बहुशस्तदा
उवाच रावणं दीना मर्तुकामा पतिव्रता. ॥२८१॥
‘ साधु मां घात य क्षिप्रं रामस्योपरि रावण !
समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्. ’ ॥२८२॥
विलपंत्यां रा ज पुत्र्यामागत्य रजनीचरः
उवाच राक्षसं ‘ त्वाशु प्रहस्तो द्रष्टुमिच्छति. ’ ॥२८३॥
एतच्छ्रुत्वा स य क्षेशभ्राता क्षिप्रं विनिर्गतः
जगामादर्शनं शीर्षं तच्च कार्मुकमुत्तमम्. ॥२८४॥
राक्षसानां स रा जा तु मंत्रिभिः सह निश्चयम्
युद्धस्य कृत्वा स्वबलं सित्धं चक्रे महाबलः. ॥२८५॥
सीतां मोहनि म ग्नां तां सरमा नाम राक्षसी
आश्वासयामास सखी बिभीषणमनःप्रिया. ॥२८६॥
मा भैस्त्वमार्ये श्री मांस्ते कुशली सानुजः पतिः
रावणेन कृता माया माऽयासं शोकतो व्रज. ॥२८७॥
सिंधुमुत्तीर्य रा मस्ते सखि ! साध्वि ! समागतः
उपस्थितं त्वां कल्याणं, शीघ्रं पत्या समेष्यसि. ॥२८८॥
दशकंठस्य म रणं प्राप्तं नास्त्यत्र संशयः
मोक्ष्यते ग्रथितां रामो वेणीमेणीदृशस्तव. ॥२८९॥
त्वमाज्ञां कुरु ज न्माहं कृतार्थं कर्तुमात्मनः
आगमिष्यामि रामे ते निवेद्य कुशलं वचः. ’ ॥२९०॥
सीतोवाचा‘ऽऽश य स्तस्य रावणस्य दुरात्मनः
त्वया निवेदनीयो मे वर एष वृतः सखि !. ’ ॥२९१॥
सत्वरा सत्व रा शिः सा सरमा परमादृता
तथेत्युक्त्या द्रुतं गुप्ता ययौ यत्र दशाननः. ॥२९२॥
बिभीषणस्य म हिषी बुद्ध्वा दशमुखाशयम्,
आगत्य पार्श्वं जानक्या प्रीत्या दत्तासनाऽब्रवीत्. ॥२९३॥
‘ शृणु सीते‍ऽस्य ज ननी तथा मातामहश्च यः
ताभ्यां बोधः कृतो यत्नात्त्वन्मोक्षार्थं पुनःपुनः. ॥२९४॥
बोधितोऽप्यन य ज्ञोऽयं रावणः सखि ! दारुणः
न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा. ॥२९५॥
अमृतस्त्वां रा ज पुत्रि ! क्रूरो मोक्तुं दशाननः
जातु नोत्सहते स्पष्टो निश्चयोऽस्य समंत्रिणः. ॥२९६॥
एनं पापाश य मरिं हत्वा रामः सलक्ष्मणः
सीतेऽयोध्यां प्रति क्षिप्रं त्वां नेष्यत्यसितेक्षणे !. ’ ॥२९७॥
मंत्रकाले सु रा रातेर्भेरीशंकरवाकुलः
शब्दोऽभूत्कपिसैन्यानां कंपयन् धरणीं मुहुः. ॥२९८॥
माल्यवान्नाम म तिमान् राज्ञो मातामहः स्वयम्
धर्मन्यायविदां मुख्यो बोधयामास रावणम्. ॥२९९॥
‘ न नाशनीया श्री रेषा त्वयाऽधर्मेण रावण !
रामाय दातुं योग्येयं सीता, प्राप्तं यतो भयम्. ’ ॥३००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP