युद्धकाण्डम् - काव्य ४५१ ते ५००

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


तं वायुतन य स्तस्य समासाद्य रथं रणे
उवाच दक्षिणं बाहुमुद्यम्याद्भुतविक्रमः, ॥४५१॥
‘ अवध्यत्वं कं ज जस्य वराद्देवासुरादिभिः
प्राप्तं त्वया दशग्रीव ! वानरेभ्यस्तु ते भयम्. ॥४५२॥
दक्षिणो मम य त्तोऽयं बाहुरद्य समुद्यतः
विधमिष्यति ते देहे भूतात्मानं चिरोषितम्. ’ ॥४५३॥
संक्रुद्धो यातु रा जस्तमब्रवी‘त्प्रहर द्रुतम्
ततः पराक्रमं ज्ञात्वा त्वां वधिष्यामि वानर ! ’ ॥४५४॥
तमब्रवीत्स म रुतः सूनुः क्रुद्धं दशाननम्,
‘ त्वं मया निहतं पूर्वमक्षमात्मसुतं स्मर. ’ ॥४५५॥
रोषेण बंधुः श्री दस्य तलेनोरसि मारुतिम्
आजघानाहतस्तेन स चचाल मुहुर्मुहुः. ॥४५६॥
स्थैर्यं कृत्वा सु रा रातिं तलेनैवाजघान सः
दशग्रीवः कंपितोऽभूद्भूमिकंपे यथाचलः. ॥४५७॥
दृष्ट्वा विसंज्ञ म मरा ऋषयो वानरा मुदा
विनेदुः स त्वथाश्वास्य रावणो हरिमब्रवीत्, ॥४५८॥
‘ साधु वानर ! ज न्ये त्वं श्लाघनीयोऽसि वीर्यतः. ’
तमब्रवीत्कपि‘र्वीर्यं धिगस्तु मम रावण ! ॥४५९॥
जीवस्यद्यापि य स्त्वं मे निःशंकं तलताडितः
सकृत्तु प्रहरेदानीं दुर्बुद्धे ! किं विकत्थसे ? ॥४६०॥
ततस्त्वामम रा रा ते ! मामको मुष्टिरुद्धतम्
लोकपीडाकरं मत्तं नयिष्यति यमक्षयम्, ’ ॥४६१॥
ततः स पर म क्रुद्धो मुष्टिमावृत्य दक्षिणम्
पातयामास वेगेन वानरोरसि वीर्यवान्. ॥४६२॥
स प्रभंजन ज स्तेन ताडितो दृढमुष्टिना
पुनःपुनः संचचाल प्रवाते विटपी यथा. ॥४६३॥
दृष्ट्वा वायोः का य जंतं व्याकुलं दशकंधरः
समत्सृज्य महातेजा नीलं प्रति समभ्यगात्. ॥४६४॥
समाश्वस्तः सोंऽ ज नाजो दृष्ट्वा नीलेन संगतम्
उवाच मारुति‘र्नेदं युक्तं ते दशकंधर ! ’ ॥४६५॥
क्षिप्ता नीलेन य इलाधरा वृक्षाश्च भूरिशः
रावणस्तान्प्रचिच्छेद शरैरशनिसन्निभैः. ॥४६६॥
हस्वरूपः सु रा रातेर्ध्वजाग्रे निपपात सः
जज्वाल रावणः क्रोधात्ततो नीलो ननाद च. ॥४६७॥
सौमित्रिहनु म द्रामा रावणास्याग्निनंदनम्
दृष्ट्वा ध्वजाग्रे चापाग्रे किरीटाग्रे च विस्मिताः. ॥४६८॥
तथैव बंधुः श्री दस्य कपिलाघवविस्मितः
अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम्. ॥४६९॥
चुक्रुशुर्वान रा हृष्टा भ्रान्तं दृष्ट्वा दशाननम्
क्रुद्ध आग्नेयसंयुक्तं शरमादाय रावणः, ॥४७०॥
अब्रवीन्नील ‘ म द्य त्वं जीवितं रक्ष वानर ! ’
इत्युक्त्वास्त्रप्रयुक्तेन शरेण तमताडयत्. ॥४७१॥
नीलः पपात ज गतीपृष्ठे तत्कालमेव सः
परं पितुश्चात्मनश्च तेजसा न मृतस्तदा. ॥४७२॥
ततो‍ऽरातिर्ज य प्रेप्सुः सौमित्रिमभिदुद्रुवे
स तमा‘हार्हसि कपीन्न योद्धुं पश्य मां स्थितम्. ’ ॥४७३॥
तमुवाच सु रा राति‘र्दिष्ट्या दृष्टोऽसि राघव
अस्मिन् क्षणे मृत्युलोकं यास्यसि त्वं ममाशुगैः. ’ ॥४७४॥
अब्रवीत्स स म न्युस्तं ‘ किं पाप ! त्वं विकत्थसे ?
महाप्रभावा गर्जंति न जातुचिदसत्तम ! ’ ॥४७५॥
ततः श्रीदानु न श्चक्रे युद्धं सौमित्रिणा सह
सौमित्रिश्च महातेजास्तस्य चिच्छेद सायकान्. ॥४७६॥
सुमित्रातन य स्याथ ललाटे स दशाननः
निचखान शरं घोरं ब्रह्मदत्तं पविप्रभम्. ॥४७७॥
स रामस्यानु ज स्तेन व्याकुलोऽभूत्क्षणं पुनः
संज्ञां प्रपय महातेजाः शत्रोश्चिच्छेद कार्मुकम्. ॥४७८॥
त्रिभिस्तीक्ष्णैः सा य कैस्तमाजघानाशु मर्मणि
स चचाल पुनः संज्ञां कृच्छ्रात्प्राप दिगाननः. ॥४७९॥
ततः शक्तिं ख रा माशु ब्रह्मदत्तां महाबलः
प्रेषयामास संक्रुद्धां कालीं व्यालीं नवामिव. ॥४८०॥
शरैरस्त्रैः स म र्थैस्तां जघान भरतानुजः
तथापि शक्तिः सा तस्य विवेशैव भुजांतरम्. ॥४८१॥
ब्रह्म्यापि शक्त्या श्री मान्त्स ताडितोऽपि स्तनांतरे
विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत्. ॥४८२॥
द्वाभ्यां भुजाभ्यां रा जा तं जग्राहोपैत्य सत्वरम्
चालनेऽपि क्षमो नाभूत्किं तस्योद्धरणे पुनः. ॥४८३॥
तदानीं द्रुत म भ्येत्य रावणं वायुनंदनः
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना. ॥४८४॥
राजराजानु ज स्तेन वमन्रुधिरमाकुलः
पपात मूर्च्छितो नेदुर्देवदैत्यमहर्षयः. ॥४८५॥
अपिस्तमान य त्तूर्णं रामाभ्याशं सुभक्तिमान्
शक्तिस्तमुत्सृज्य गता रावणस्य रथं प्रति. ॥४८६॥
आश्वस्तोऽभूद रा तिघ्नो मुहूर्ताद्भरतानुजः
रावणोऽपि पुनर्योद्धुं धनुर्बाणान्समाददे. ॥४८७॥
दृष्टप्लवंग म वधो रामो रक्तांतलोचनः
हनूमंतं समारुह्य रावणं समभिद्रवत्. ॥४८८॥
तमाह मनु ज च्छद्मा, ‘ तिष्ठ कृत्वा ममाप्रियम्
क्क नु राक्षसशार्दूल ! गत्वा मोक्षमवाप्स्यसि ? ॥४८९॥
कर्ता तव क्ष य स्याहं पुत्रैः पौत्रैः प्रियैः सह
क्षणाद्येन जनस्थानं सर्वं नीराक्षरं कृतम्. ’ ॥४९०॥
एवमुक्तः सोंऽ ज नाजं वहंतं राघवं रणे
आजघान शरैर्दीप्तैः पूर्ववैरमनुस्मरन्. ॥४९१॥
तस्यांजनाका य भुवः कालानलविषोपमैः
ताडितस्य शरैर्भूयस्तेजोर्वृद्धिरभूत्तदा. ॥४९२॥
रामो राक्षस रा जेन दृष्ट्वा भक्तं कृतव्रणम्
चकार विरथं सूतं हयान् हत्वा निरायुधम्. ॥४९३॥
छित्वा ध्वजं हि म करप्रभं छत्रमथेषुभिः
किरीटकूटं चिच्छेद जघानोरसि राक्षसम्. ॥४९४॥
वज्रप्रहारैः श्री मान्यो न चचाल दशाननः
स रामबाणाभिहतो मुमोह धनुरत्यजत्. ॥४९५॥
तमुवाच प रा धीनं राघवो विरथं खलम्,
‘ अलं श्रांतोऽसि राजंस्त्वं युद्धे नास्त्यद्य ते बलम्. ॥४९६॥
गच्छ मुक्तो‍ऽस्य म र्त्यारे ! विश्रांतः श्वस्त्वमाहवम्
पुनः सैन्यैः परिवृतो योद्धुमेहि मया सह. ॥४९७॥
प्रेक्षिप्यसि भु ज स्थं मे वीर्यमाजौ स्वकैः सह
परिश्रांतं मृत्युवशं नयामि त्वां न राक्षस ! ’ ॥४९८॥
एवमुक्तो भ य व्याप्तो हतदर्पो निशाचरः
विवेश लंकां रामेण लीलया युधि निर्जितः. ॥४९९॥
श्रीरामेण प रा भूतो बभूव व्यथितेंद्रियः
मातंग इव सिंहेन गरुडेनेव पन्नगः. ॥५००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP