युद्धकाण्डम् - काव्य ८०१ ते ८५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


रावणे व्यसृ ज द्रामः शरवर्षाणि संततम्
रामेऽपि रावणो, वीरावुभौ शस्त्रास्त्रपारगौ. ॥८०१॥
अस्त्रप्रयोगं य त्तौ तौ चक्रतुर्युद्धपंडितौ
खंदितौ यौ न कुत्रापि समरे जयमंडितौ. ॥८०२॥
लक्ष्मणोऽथ ध्व ज च्छेदं शिरश्छेदं च सारथेः
ततश्चक्रे धनुश्छेदं सायकैर्जयदायकैः. ॥८०३॥
बिभीषणो ह य श्रेष्ठान् भ्रातुर्ज्येष्ठस्य संगरे
जघानाप्लुत्य गदया न दयास्त्यतिपापिनि. ॥८०४॥
ततः खरत रा माशु क्रोधादशनिसन्निभाम्
बिभीषणाय चिक्षेण शक्तिं शक्तिमतां वरः. ॥८०५॥
अप्राप्तामेव म ध्ये तां लक्ष्मणस्त्रिभिराशुगैः
चिच्छेद खेदयन्युद्धे दशकंठस्य मानसम्. ॥८०६॥
अन्यां च शक्र श्री हर्ता शक्तिं जग्राह दारुणाम्
त्रातुं बिभीषणं तस्थावग्रतस्तस्य लक्ष्मणः. ॥८०७॥
तमुवाच श रा सारैश्छादयंतं स रावणः,
बिभीषणो मोक्षितश्चेत्त्वयीयं विनिपात्यते. ’ ॥८०८॥
इत्युक्त्वा शक्ति म त्युग्रां चिक्षेप मयनिर्मिताम्
मोघा भवेति रामोक्ता तद्वक्षसि ममज्ज सा. ॥८०९॥
पपात मोहं ज नयन् रामेऽपि भुवि लक्ष्मणः.
न विषादस्य कालोऽयमिति संचिंत्य राघवः ॥८१०॥
कौसल्यातन य श्चक्रे तुमुलं युद्धमोजसा
विचकर्ष ततः शक्तिं तां विकृष्य बभंज च. ॥८११॥
तदा खराः श रा स्तस्य शक्तिं निष्कर्षतोऽरिणा
बलीयसा दशास्येन गात्रे रामस्य पातिताः. ॥८१२॥
अचिंतयित्वा म र्मघ्नांस्तानिषूनरिणेरितान्
समाश्लिष्यानुजं रामः सुग्रीवादींस्तदाब्रवीत्. ॥८१३॥
‘ परिवार्यैव न न्येऽमुं तिष्ठध्वं वानरोत्तमाः
यावद्धन्म्यहितं, कालः प्राप्तोऽयं मे चिरेप्सितः. ॥८१४॥
जाओतऽक्षिविष य श्चायं नैव जीवितुमर्हति
विनतातनयेनेव दृष्टो दुष्टो भुजंगमः. ॥८१५॥
करिष्यामि त्रि ज गति ख्यातं कर्माद्य यत्सुराः
नराश्च कथयिष्यंति यावद्भूश्चंद्रभास्करौ. ’ ॥८१६॥
एवमुक्त्वा सा य कौघैराजघान दशाननम्
स साध्बसात्प्रदुद्राव यथा वातहतोंऽबुदः. ॥८१७॥
दशग्रीवं प रा भूय केसरीव महागजम्
ददर्श करुणासिंधुर्लक्ष्मणं मूर्च्छितं भुवि. ॥८१८॥
ततः सुषेण म गदंकादं रघुवरोऽब्रवीत्,
‘ लक्ष्मणोऽयं यदि मृतः, प्राणैः किं मे प्रयोजनम् ? ’ ॥८१९॥
तदा सुषेणः श्री मंतं तं हनूमंतमब्रवीत्
‘ गच्छ तात ! द्रुतं त्वं ता ओषधीः पुनरानय. ’ ॥८२०॥
गत्वा शृंगं ध रा भृत्तो गृहीत्वा पुनरागतः.
सुषेणस्तं प्रशस्याथ गृहीत्वा तां महौषधिम् ॥८२१॥
संक्षोदयित्वा म तिमांस्तद्रसं सोऽमृतोपमम्
लक्ष्मणाय ददौ नस्तो न स्तो यस्मान्मृतिव्यथे. ॥८२२॥
विशल्यो विरु ज स्तूर्णमुदतिष्ठत्स लक्ष्मणः
तमालिंग्याभवद्रामो बाष्पपर्याकुलेक्षणः. ॥८२३॥
प्रहृष्टा हर य स्तं ते पूजयामासुरुत्थितम्
रामरावणयोर्युद्धं प्रवृत्तं पुनरद्भुतम्. ॥८२४॥
भूमौ स्थितस्य रा मस्य रथस्थस्य च रक्षसः
न समं युद्धमित्याहुर्देवगंधर्वकिंनराः. ॥८२५॥
तच्छ्रुत्वा शत म न्युः स्वं सखायं सूतमब्रवीत्,
‘ मातले ! गच्छ रामं त्वं मद्रथे स्थापयाश्वि’ति. ॥८२६॥
शक्राज्ञया प्रां ज लिना प्रार्थितस्तेन राघवः
आरुह्य स्यंदनं दिव्यं युयुधे सह रक्षसा. ॥८२७॥
गांधर्वमथ य द्दैवमस्त्रं राक्षमद्भुतम्
प्रत्युक्तमरिणा रामः प्रत्यस्त्रेण जघान तत्. ॥८२८॥
स चकार ध्व ज च्छेदं मर्दयित्वा प्रभुः शरैः
ऐन्द्रानपि जघानाश्वान् विद्ध्वा मर्मसु मातलिम्. ॥८२९॥
त्रिदशा ऋष य स्त्रस्ता दृष्ट्वार्तं रघुनंदनम्
व्यथिता वानरेंद्राश्च बभूवुः सबिभीषणाः. ॥८३०॥
तदा क्रूरत रा जाता उत्पाता बहवो रणे
जगाम सुमहाक्रोधं रामस्तामरसेक्षणः. ॥८३१॥
तस्मिन्क्रुद्धे स म र्थे भूः प्राकंपत सपर्वता
सर्वभूतानि वित्रेसुः क्षुभितः सरितां पतिः. ॥८३२॥
शूलं गृहीत्वा श्री दत्य भ्राता परमदारुणम्
हतोऽसीति ब्रुवन् रामं प्रतिचिक्षेप कोपतः. ॥८३३॥
दग्ध्वात्मनः श रा न् घोरानापतंतं महाप्रभम्
रामो वासवशक्त्या तं शूलं चिच्छेद भीमया. ॥८३४॥
शरैस्तुरंग म श्रेष्ठांस्तस्य विद्ध्वा रघूत्तमः
निर्बिभेदोरसि क्रूरं ललाटेऽपीषुभिस्त्रिभिः. ॥८३५॥
रामोऽपि प्रति ज ग्राह शरानुग्रस्य रक्षसः
दृष्टः शोणितदिग्धांगः स फुल्ल इव किंशुख. ॥८३६॥
कौसल्यातन य स्तस्य च्छित्वा शस्त्राण्युवाच तम,
‘ शून्याश्रमात्वया चौरचर्यया राक्षसाधम ! ॥८३७॥
भार्या मम प रा मृष्टा तस्मात्त्वं नासि वीर्यवान्
अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्. ॥८३८॥
गर्वमद्य स म स्तं ते संहर्तुं शिरसा सह
स्थितोऽस्मि पुरतस्तिष्ठ त्वं पाप ! पुरुषो भव. ’ ॥८३९॥
एवमुक्त्वा भ्रा ज मानैस्ताडयामास तं शरैः
कपयश्चाश्मभिर्जघ्नुः स तदा व्याकुलोऽभवत्. ॥८४०॥
सारथिः सुप्रि य स्तस्य तदवस्थं निरीक्ष्य तम्
शनैर्युद्धादसंभ्रांत शतांगं सोऽपवाहयत् ॥८४१॥
स मोहमुक्तो ज नितक्रोधो धिक्कृत्य सारथिम्
उवाच परुषं प्राज्यं कालनष्टमतिर्हि यत्. ॥८४२॥
सूतस्तमाह, ‘ य द्राजन् ! कश्मलं त्वयि संगरे
दृष्टं मया न तत्पूर्वं तेन त्वमपवाहितः. ॥८४३॥
दद्वक्ष्यस्यद्य रा जन् ! मां तत्करिष्याम्यसंशयम्
नाहं भीतो नोपजप्तः स्नेहेनैतत्कृतं मया. ’ ॥८४४॥
श्रुत्वेति वाक्यं म धुरं प्रसन्नहृदयोऽभवत्
ददौ तस्मै शुभं ह्येकं हस्ताभरणमात्मनः. ॥८४५॥
सूतो रवं तं श्री दस्य भ्रातुर्वचनगौरवात्
निनाय रघुवीरस्य पुरतः प्रेरयन्हरीन्. ॥८४६॥
दशाननप रा भूतिचिंतया व्यग्रमानसम्
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः. ॥८४७॥
‘ भो रामभद्र, म त्प्रोक्तं शृणु गुह्यं सनातनम्
येन सर्वानरीन्वत्स ! विजेष्यसि रणाजिरे. ’ ॥८४८॥
स एवमुक्त्वा ज यदमादित्यहृदयं ददौ
जप्त्वा विजेष्यस्यद्य त्वं रावणं शक्रशात्रवम्. ॥८४९॥
उपदिश्येति य शसानुपमोऽ‍थ जगाम सः
रामोऽपि जप्त्वा स्तोत्रं तत्परं हर्षमवाप्तवान्. ॥८५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP