संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ७५१ ते ८०० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ७५१ ते ८०० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ७५१ ते ८०० Translation - भाषांतर मां जेतुं कोऽपि ज गति क्षमो नास्ति निशाचर ! वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ! ॥७५१॥अंतर्हितेन य स्तुच्छ ! भवताचरितस्तदा तस्कराचरितो मार्गो नैष वीरनिषेवितः. ॥७५२॥पुरतस्तेऽस्म्य रा तेऽहं स्थितो मार्गणगोचरे दर्शयस्वाद्य तत्तेजो वाचा किं त्वं विकत्थसे ? ’ ॥७५३॥इत्युक्तः सोत्य म र्षेण रावनिः समितिंजयःयुद्धं चकार तुमुलं तेन सौमित्रिणा सह. ॥७५४॥भन्गे शतांगे श्री मान्त्स लंकां गत्वा नवं रथम् समास्थायाभ्ययात्तूर्णं परैरनुपलक्षितः. ॥७५५॥रक्षोबलं श रा सारैः प्रममर्द बिभीषणः चतुर्भिः सचिवैः सार्धं मारुतिश्च द्रुमोपलैः. ॥७५६॥शस्त्रैरस्त्रैः स म र्थस्तं युद्धं कृत्वा स लक्ष्मणः ऐंद्रास्त्रेण जघानाजाविंद्रशत्रुं महाबलम्. ॥७५७॥कृते शिरोंबु ज च्छेदे रावणेरमाधिपः मुमुदे सह लोकेशैर्नेदुर्दुंदुभयो दिवि. ॥७५८॥पुष्पवृष्टिर्वि य त्संस्थैः कृता लक्ष्मणमूर्धनि ननृतुश्चाप्सरोमुख्या गंधर्वा ललितं जगुः. ॥७५९॥पादार्पितशि रा भ्राता रामेणालिंगितो मुदा बिभीषणेनेंद्रजितो वधस्तस्मै निवेदितः. ॥७६०॥मूर्ध्न्यु पाघ्राय म र्माणि व्रणितानि पराशुगैः पस्पर्श सदयं साश्रु श्रीरामो भ्रातृवत्सलः. ॥७६१॥अंकमारोप्य ज नकः प्रियं पुत्रमिवानुजम् रामोऽब्रवी‘दहोरात्रैस्त्रिभिः कृच्छ्राद्धतो रिपुः. ॥७६२॥निरमित्रोऽहं य शस्वी कृतोऽस्म्यद्य त्वया ध्रुवम् त्वया नाथेन दुष्प्रापा सीता भूश्च न लक्ष्मण ! ’ ॥७६३॥इत्युक्त्वा मनु ज श्रेष्ठः सुषेणं हरिमबवीत्, ‘ विशल्यः क्रियतां क्षिप्रं सौमित्रिर्मित्रवत्सलः ’ ॥७६४॥एवमुक्तः प्र य त्नेन स पटुर्हरियूथपः लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्. ॥७६५॥गंधमाघ्राय रा जीवलोचनस्तस्य तत्क्षणम् निर्वेदनो विशल्यश्च समपद्यत लक्ष्मणः. ॥७६६॥ते च प्लवंग म श्रेष्ठाः सामात्यश्च बिभीषणः कृता विशल्या मुदिताः सुषेणेन महात्मना. ॥७६७॥रामोऽतिहृष्टः श्री दस्य भ्राता शोकाकुलोऽभवत् सीतां हंतुं प्रगृह्यासिमशोकवनिकां ययौ. ॥७६८॥सीता दृष्ट्वा ख रा सिं तं भीता सस्मार राघवम् आर्यां शुशोत्त कौसल्यां मंथरां च निनिंद प्ता. ॥६७९॥सुपार्श्वो नाम म तिमानमात्यः शीलवांस्तदा वारयामास तं सीतावधात्सूक्तिशतैर्मतैः. ॥७७०॥ततो ज्येष्ठात्म ज स्यातिशोकव्याकुलमानसः राक्षसान्प्रेषयायामास हंतुं दाशरथी रणे. ॥७७१॥ चलच्छिलोच्च य निभा महोत्साहा महौजसःदशाननप्रिये युक्ता मुक्ताश्चापादिवेषवः. ॥७७२॥लब्धलक्षाः सु रा णां ये युद्धे कज्जलमेचकाः नरमांसशनाः क्रूराः शूराः परिघबाहवः. ॥७७३॥चतुरंगेण म हता बलेन परिवारिताः महाबलाः कवचिनः सर्वामरसुदुःखहाः. ॥७७४॥ते रावणस्यां ज लिना प्रहिता अहिता दिवः त्यक्तप्राणा विनिर्गत्य युयुधुर्विविधायुधाः. ॥७७५॥तानाजावज य न्कीशा दाशरथ्योश्च मार्गणाः गता यमक्षयं सर्वे मत्ताः सत्तापहेतवः. ॥७७६॥तन्योन्यमेव ज घ्नुस्ते रामसादृश्यमोहिताः गांधर्वास्त्रे संप्रयुक्ते राक्षसा विलयं गताः. ॥७७७॥बाणैः कौसल्ये य मुक्तैर्मुहूर्तद्वयतो रणे सप्तकोट्यस्तथैकोनत्रिंशल्लक्षाणि सद्रथाः. ॥७७८॥हताश्च कुंज रा मत्तास्ते सहस्राणि विंशतिःतथा द्वादश लक्षणि तथैव दश कोटयः. ॥७७९॥षष्टिस्तुरंग म वराः सहस्राण्यथ विंशतिःलक्षाणि ते दशशतकोटिसंख्याः प्रमर्दिताः. ॥७८०॥पदातयश्च श्री शेन निहताः शतकोटयः पंचचत्वारिंशदष्टाशीतिर्लक्षाणि चाहवे. ॥७८१॥सिद्धर्षयः सु रा श्चैव गंधर्वाश्चारणास्तथा साधु साध्विति रामस्य तत्कर्म समपूजयन्. ॥७८२॥उवाच रामो म धुरं सुग्रीवादीन्प्रति प्रभुः, ‘ एतदस्त्रबलं भीमं मम वा त्र्यंबकस्य वा. ’ ॥७८३॥ हत्वा रक्षोरा ज सेना शस्त्रास्त्रेषु जितक्लमः संस्तूयते स्म त्रिदशै रामो हृष्टैर्महर्षिभिः. ॥७८४॥राक्षसानां क्ष या स्तेन रावणेन श्रुतो महान् विलापो राक्षसीनां च शोकार्तानां सुदुःसहः. ॥७८५॥ शोकक्रोधप रा धीनो दशकंठस्ततः स्वयम् नगरान्निर्ययौ हंतुं सबलौ रामलक्ष्मणौ. ॥७८६॥ वृतः सैन्येन म हता रथारूढो महाबलः महोदरमहापार्श्वविरूपाक्षैः समन्वितः. ॥७८७॥ स्यंदनेन प्र ज वितप्रवराष्टहयेन सः द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ. ॥७८८॥तदोत्पाता भ य स्यारात्सूचका बहवोऽभवन् निष्प्रभोऽर्कः शिवा नेदुश्चस्खलुश्चास्य वाजिनः. ॥७८९॥राजराजानु ज मरिं दृष्ट्वायातं प्लवंगमाः विनेदुर्यातुधानाश्च घोरमंभोधरा इव. ॥७९०॥रावणेन क्ष य श्चक्रे कपीनां भूयसां शरैः परैः सोदुं न ये शक्या यैः सुरा विजिताः खरैः. ॥७९१॥सुग्रीवो वान रा धीशः प्रतापी पादपायुधःप्रतस्थेऽभिमुखं सार्धं यूथपैर्दशकंधरम्. ॥७९२॥ननर्द युधि म न्यूग्रः स्वरेण महता महान् पोथयन् राक्षसान् शिष्टान् दशग्रीवपुरःसरान्. ॥७९३॥रक्षोबलेषु श्री मान्त्स वृष्टिं चक्रे महीभृताम्ममर्द तान्महावातः प्रवृद्धानगमानिव. ॥७९४॥विरूपाक्षं दु रा पांतं कपिकंपप्रदायुधम् वानरेंद्रो व्यसुं चक्रे तं च वीरं महोदरम्. ॥७९५॥महापार्श्वत्य म थनं वालिनस्तनयोऽकरोत् चकार कोपं तद्दृष्ट्वा राक्षसानामधीश्वरः. ॥७९६॥तामसास्त्रेण ज यतो विधात्रा निर्मितेन सः हत्वा विद्राव्य च कपीन्बहून् राममुपाययौ. ॥७९७॥सुमित्रातन य स्तेन रावणेन सह स्वयम् युयुधे प्रथमं वीरो राहुणेव निशाकरः. ॥७९८॥ततैः शतैः श रा णां तं व्याकुलीकृत्य लक्ष्मणम् व्यसृजच्छरवर्षाणि राममासाद्य रावणः. ॥७९९॥भल्लैश्चिच्छेद म हतः शरौघांस्तस्य राघवः विव्याध रामं स पुनः शरैर्दर्शितलाघवः. ॥८००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP