युद्धकाण्डम् - काव्य ९०१ ते ९५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


इत्युक्तो वायु ज स्तेन रामेणाक्लिष्टकर्मणा
तां पुष्पवाटिकां गत्वा सीतां नत्वेदमब्रवीत्. ॥९०१॥
कुशलं त्वाह य स्ते‍ऽतिप्रियः श्रीरघुसत्तमः
गतं रक्षो लयं देवि ! भास्करेणेव तत्तमः. ॥९०२॥
प्रियमाख्यामि रा ज्ञि ! त्वां भूयोभूयः सभाजये
रामस्याद्य प्रमुदिता देवर्षीणां सभा जये. ॥९०३॥
प्रभावात्ते सु म हिते रावणो निहतो रणे
बिभीषणसहायेन रामेणाद्भुततेजसा. ॥९०४॥
स दक्षिणो भु ज स्तस्य रामस्य कुशली सति !
लक्ष्मणः सुमहातेजाः सुग्रीवश्च महामतिः. ॥९०५॥
लब्धोऽयं विज य स्तेजो रामेण ख्यापितं महत्
लंका वशीकृता सीते ! स्वस्था भव गतज्वरा. ’ ॥९०६॥
सीतोवाच नि ज स्वांतप्रियं श्रुत्वानिलात्मजम्
तूष्णींभूता क्षणं पश्चात्’तेन संप्रार्थिता सती. ॥९०७॥
‘ वत्साख्यातुः प्रि य स्यास्य भवतो हितकारिणः
देयं वस्तु न पश्यामि सदृशं किंचिदप्यहम्. ’ ॥९०८॥
हनूमानाह रा ज्ञीं तां प्रांजलि‘र्देवि ! वत्सले !
स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिंदिते ! ॥९०९॥
एतदेव म म श्रेयः प्रियं भर्तृहिते रते
लब्धं सर्वं मया श्रुत्वा वाक्यमेतत्तवामृतम्. ॥९१०॥
देयो वरोऽध श्री मत्या मातर्यः प्रार्थ्यते मया
श्रोतुमर्हसि तं देवि म एविश्वख्यातसद्व्रते ! ॥९११॥
इमास्तु खलु रा क्षस्यो यदि त्वमनुमन्यसे
हंतुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा. ’ ॥९१२॥
जानक्युवाच, ‘ म तिमन् ! कुर्वतीनां पराज्ञया
विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ! ’ ॥९१३॥
इत्युक्तो वात ज स्तुष्टस्तामुवाच यशस्विनीम्,
‘ युक्ता रामस्य भवती धर्मपत्नी गुणान्विता. ॥९१४॥
वैदेहि ! हृदय य स्थं यत्तत्त्वं तत्त्वं मनस्विनि !
प्रतिसंदिश मां देवि ! गमिष्ये यत्र राघवः. ’ ॥९१५॥
एवमुक्ता न रा धीशसुता सीता हनूमता
साब्रवी ‘ द्द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम्. ’ ॥९१६॥
हनूमान् राम म हिषीमुवाच प्रांजलिस्तदा,
‘ पूर्णचंद्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्. ’ ॥९१७॥
एवमुक्त्वा भ्रा ज मानां सीतां साक्षादिव श्रियम्
आजगाम महातेजा हनूमान् यत्र राघवः ॥९१८॥
तस्याः सोऽकथ य त्सर्वं राघवायोत्तरं वचः
स्वयं चोवाच शोकार्तां द्रष्टुमर्हसि तामिति. ॥९१९॥
एवमुक्तस्त्रि ज गतां नाथो धर्मभृतां वरः
आगच्छत्सहसा ध्यानमीषद्वाष्पपरिप्लुतः. ॥९२०॥
‘ तामुपस्थाप य क्षिप्रं सीतां स्नातामलंकृताम् ’
बिभीशणमिति श्रीमानुवाच रघुनायकः. ॥९२१॥
आरोप्य प्रव रा मार्यां शिबिकां तां बिभीशणः.
आनयामास सुस्नातां प्रीतां सीतां स्वलंकृताम्.॥९२२॥
तदा प्लवंग म र्क्षांस्तान् वारितान् वेत्रपाणिभिः
दृष्ट्वा, बिभीषणं रामो मैवमित्यब्रवीत्क्रुधा. ॥९२३॥
अथाह रामः श्री मांस्तां विनीतां पार्श्वमागताम्,
‘ पौरुषाद्यदनुष्ठेयं मयैतदुपपादितम्. ॥९२४॥
निर्जितासि व रा रोहे ! शत्रुं जित्वा रणाजिरे
परिश्रमोऽयं वृत्तार्थः, न त्वदर्थं मया कृतः. ॥९२५॥
प्राप्तसंदेह म हिमा मम प्रतिमुखे स्थिता
दीपो नेत्रातुरस्येव प्रतिकूलासि म दृढा. ॥९२६॥
तद्रच्छ त्वं रा ज कन्ये ! यथेष्टं विवृता दिशः
कः कविः पुनरादद्यात्स्त्रियं परगृहोषिताम् ? ॥९२७॥
लक्ष्मणे वात्या य ताक्षि ! भरते वा नरोत्तमे
शत्रुघ्ने वा गुणाढ्ये त्वं कुरु बुद्धिं यथासुखम्. ॥९२८॥
सुग्रीवे वान रा धीशे राक्षसे वा बिभीषणे
निवेशय मनः सीते ! यथा वा सुखमात्मनः. ॥९२९॥
न त्वां दशस्यो म हिलां दिव्यरूपां बलाद्धृताम्
मर्षयेत्सुचिरं सीते ! स्वगृहे पर्यवस्थिताम्. ’ ॥९३०॥
अत्यप्रियं रा ज कन्या तदुपश्रुत्य सा प्रियात्
रुदती सुदती सीता भर्तारमिदमब्रवीत्. ॥९३१॥
‘ किमेवं हृदं य च्छेदि प्रभो ! मां श्रोत्रदारुणम्
रूक्षं श्रावयसे वाक्यं प्राकृतः प्राकृतामिव ? ॥९३२॥
न तथास्मि, नि ज स्वांते यथा मामवगच्छसि,
प्रत्ययं गच्छ मे, स्वेन चारित्रेण शपे स्वयम्. ॥९३३॥
अन्यासामन य ज्ञत्वाज्जातिं त्वं परिशंकसे
त्यज शंकां, परस्पर्शे कामकारो न मे प्रभो ! ॥९३४॥
शरीरेऽत्र प रा धीने किं करिष्याम्यनीश्वरी ?
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते. ॥९३५॥
निपीडितो म म करो न प्रमाणीकृतस्त्वया
न मे भक्तिर्न मच्छीलं, सर्वं ते पृष्ठतः कृतम्. ॥९३६॥
सैवं तदोक्त्वा श्री मंतं लक्ष्मणं दीनमानसम्
उवाच, ‘ व्यसनस्यास्य भेषजं कुरु मे चिताम्. ॥९३७॥
त्यक्त्वा देवर ! रा ज्ञाहमप्रीतेन गुणैर्मम
मिथ्यापवादोपहता प्रवेक्ष्ये हव्यवाहनम्. ॥९३८॥
प्रपतो वशम म र्षस्य स विज्ञाय प्रभोर्मतम्
चितां चकार सौमित्रिः परवान्भृशदुःखितः. ॥९३९॥
न हि रामं ते ज सोग्रं तदा कश्चिद्यमोपमम्
अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत्सुहृत्. ॥९४०॥
अधोमुखं प्रि य तमं रामं कृत्वा प्रदक्षिणम्
बद्धांजलिः सती सीता साब्रवीदग्निसंनिधौ. ॥९४१॥
‘ यथा मनो मे रा जेंद्रान्नापसर्पति राघवात्
तथा सर्वस्य साक्षी मां सर्वतः पातु पावकः. ॥९४२॥
यद्यहं शुद्धि म त्यस्मि श्रीमद्रामैकमानसा
केशवस्त्रादिकमपि माधाक्षीन्मम पावकः. ’ ॥९४३॥
एवमुक्त्वा ग ज गतिः परिक्रम्य हुताशनम्
सीता विवेश ज्वलनं निःशंकेनांतरात्मना. ॥९४४॥
महान् जनोच्च य स्तत्र ददर्शाश्रुसमाकुलः
प्रविशंतीं सतीमग्निं दीप्तं सौदामिनीमिव. ॥९४५॥
ददृशुस्तां रा ज कन्यां प्रविशंतीं हुताशनम्
ऋषयो देवगंधर्वाः पूर्णाहुतिमिवाध्वरे. ॥९४६॥
प्रचुक्रुशः स्त्रि य स्तास्तां दृष्ट्वा दीप्ते चितानले
पतंतीं संस्कृतां मंत्रैर्वसोर्धारामिव क्रतौ. ॥९४७॥
रक्षसां वान रा णां च ‘ हाहे’ति विपुलः स्वनः
तस्यामग्निं संविशंत्यां संबभूवाद्भुतोपमः. ॥९४८॥
ततो रामः का म खिन्नः श्रुत्वैव वदतां गिरः
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः. ॥९४९॥
शक्रो यमोऽथ श्री दश्च शंभुर्ब्रह्मा सुरैः सह
लंकां विमानैरागत्य तेऽभिजग्मू रघूत्तमम्. ॥९५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP