युद्धकाण्डम् - काव्य ६०१ ते ६५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


सतालं वाम म पि तं रामश्चिच्छेद तद्भुजम्
तेनापि चूर्णिता रक्षःकपिभूरुहपर्वताः. ॥६०१॥
दृष्ट्वा छिन्नभु ज द्वंद्वमागच्छंतं जवेन तम्
तत्पादावर्धचंद्राभ्यां चिच्छेदाशु रघूत्तमः. ॥६०२॥
तस्य पादौ क्ष य करावुग्रौ वानररक्षसाम्
विनादयंतौ प्रदिशो दिशोऽब्धिं च निपेततुः. ॥६०३॥
यथैव चंद्रं रा हुः स व्यादायास्यं भयंकरम्
रामं दुद्राव पादाभ्यां भुजाभ्यां रहितोऽप्यरिः. ॥६०४॥
अपूरयद्धे म पुंखैः शरैस्तस्याननं प्रभुः
शशाक वक्तुं न तदा चुकूज च मुमूर्च्छ च. ॥६०५॥
अथाददे ते ज सेद्धं कालकल्पं शरं वरम्
वायुवेगं प्रत्तिक्षेप कुंभकर्णाय राघवः. ॥६०६॥
स कृतारिल य स्तस्य चकर्त सहसा शिरः
प्रयुक्तो वासवेनेव वज्रो वृत्रस्य विद्विषः. ॥६०७॥
देहं तत्तस्य ज लधौ छेदवेगोत्थितं शिरः
पपात पुरि वेश्मानि प्राकारं चाप्यपातयत्. ॥६०८॥
दृष्ट्वा हतं सं य ति तं हृष्टा देवा महर्षयः
प्लवगाः पूजयामासुः श्रीरामं जयभागिनम्. ॥६०९॥
कुंभकर्णं प रा सुं तं राघवेण कृतं रणे
श्रुत्वा शोकाकुलो राजा स मुमोह पपात च. ॥६१०॥
विललाप स म र्थोऽपि दैन्यं प्राप्य स रावणः,
‘ हा वीर ! बंधो ! व्यसने त्यक्त्वा मां त्वं कथं गतः ? ॥६११॥
त्वया विना मे श्री र्नेष्टा किं कार्यं सीतया तया ?
राज्येन नास्ति मे कृत्यं जीविते नास्ति मे मतिः. ॥६१२॥
प्राप्तो मया प रा नर्थः सुहृद्वाक्यमगृह्णता
बिभीषणेन विदुषा यदुक्तं सत्यमेव तत्. ॥६१३॥
शोकदोऽयं म म प्राप्तो विपाकस्तस्य कर्मणः
यन्मया धार्मिकः श्रीमान् स निरस्तो बिभीषणः. ’ ॥६१४॥
एवं बह्वनुय ज ध्वं साद्विलपंतं दशाननम्
तत्सुतस्त्रिशिरा वीरः सांत्वयन्नित्युवाच तम्, ॥६१५॥
‘ दैवाद्धतोऽद्या य माजौ मध्यमो नः पिता बली
पराड्मुखहतः शोच्यो नैव योऽभिमुखो रणे. ॥६१६॥
विलपंति न रा जन् ये शूराः सूरातितेजसः
त्रैलोक्यस्यापि विजये समर्थस्त्वमसि प्रभो ! ॥६१७॥
स त्वं कस्मात्स म र्थोऽपि शोचस्यात्मानमीदृशम्
मा प्राकृत इव प्राज्ञ ! शोकं कुरु सुरुग्घरम्, ॥६१८॥
ब्रह्मदत्तास्ति ज यिनी शक्तिश्च कवचं धनुः
दिव्यः शरः स्यंदनोऽपि सहस्रखरसंयुतः. ॥६१९॥
त्वया शचीप्रि य मुखा विशस्ता दैत्यदानवाः
स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि. ॥६२०॥
यथेष्टं त्वं रा ज वर्य ! तिष्ठाहं भ्रातृभिः सह
गमिष्यामि हनिष्यामि रणे रामं सलक्ष्मणम्. ॥६२१॥
श्रुत्वा स्वतन य स्यैवं वाक्यं रात्रिचरेश्वरः
पुनर्जातमिवात्मानं मेने कालेन मोहितः. ॥६२२॥
प्रेषितस्त्रिशि रा राज्ञा देवांतकनरांतकौ
अतिकायश्च ते तस्य सर्वे लब्धवराः सुताः. ॥६२३॥
वैमात्रेयौ स म र्थौ च भ्रातरौ वरदर्पितौ
पुत्रैश्चतुर्भिः सहितौ महापार्श्वमहोदरौ. ॥६२४॥
नरांतकं तु श्री मत्तं पित्रा संप्रेषितोंऽगदः
मुष्टिनैवावधीदुग्रं कपिसैन्यतृणानलम्. ॥६२५॥
मारुतेः प्रख रा न्मुष्टिप्रहाराद्भिन्नमस्तकः
देवांतको जहौ प्राणान् यः पुरान्वर्थनामकः. ॥६२६॥
नीलो गृहीत्वा म हतो गिरेः शृंगं सपादपम्
क्षिप्तेन तेन हतवान् गजारूढं महोदरम्. ॥६२७॥
महापार्श्वः सं य दुर्गो भ्राता लंकापते रणे
ऋषभेण महातेजास्तस्यैव गदया हतः, ॥६२८॥
महापार्श्वः सं य दुग्रो भ्राता लंकापते रणे
ऋषभेण महातेजास्तस्यैव गदया हतः, ॥६२९॥
अतिकायः सु रा रातिरस्त्रविद्रणदारुणः
सौमित्रिणा हतः संख्ये ब्रह्मास्त्रेण रणाजिरे. ॥६३०॥
स्वपुत्रभ्रातृ म रणं श्रुत्वा शोकपरायणम्
दीनं सभायामालोक्य तातमिंद्रजिदब्रवीत्, ॥६३१॥
‘ मयि जीवत्य ज प्राप्तद्विषद्भंगवरे युधि
न तात ! मोहं त्वं गंतुमर्हस्वद्य महाभुज ! ॥६३२॥
द्विषां समुद य स्याहमंतको हंत कोविध
पश्याद्य रामं मद्वाणभिन्नदेहं सलक्ष्मणम्. ’ ॥६३३॥
शक्रशत्रुर्नि ज प्राज्यतेजो दर्शयितुं रणे
जगाम राक्षसानीकैर्वृतो वृत्र इवापरः. ॥६३४॥
ततस्स विज य प्राप्त्यै द्रव्यैर्युद्धभुवि स्थितः
जुहुवे हुतभोक्तारमभिचारविधानतः. ॥६३५॥
कृष्णच्छागं सु रा रातिर्हुत्वा जीवंतमस्त्रवित्
पुनर्ब्रह्मास्त्रोपदेशं ब्रह्मणा समकारयत्. ॥६३६॥
स लब्ध्वा ब्राह्म म स्त्रज्ञस्तेन स्वधनुरादिकम्
युद्धोपकरणं सर्वं स विद्वानभ्यमंत्रयत्. ॥६३७॥
अंतर्हितः स श्री दस्य भ्रातृव्यः सर्ववानरान्
पातयामास विशिखैः पुनर्दाशरथी च तौ. ॥६३८॥
रामोऽब्रवीच्छ रा क्रांतं सौमित्रिं ‘ वत्स ! दुःसहम्
सहस्वाव्यग्रमनसा ब्रह्मणोऽस्त्रं मया सह. ’ ॥६३९॥
स तेनास्त्रेण म हता सैन्यं रामं सलक्ष्मणम्
निषूदयित्वा स्वपुरीं विवेश विजयी मुदा. ॥६४०॥
नीलस्तारात्म ज स्तद्वत्सुग्रीवो जांबवानपि
तस्मिन्काले शरैर्व्याप्ता न किंचित्प्रतिपेदिरे. ॥६४१॥
बिभीषणः सा य कार्तान् यूथपानब्रवीत्स तान्,
‘ विषादस्य न कालोऽयं मा भैष्ट कुशली प्रभुः. ’ ॥६४२॥
मरुत्पुत्रोऽथ रा त्रौ तन्मानयित्वास्त्रमुत्थितः
तमाह यो यः सप्राणस्तं तमाश्वासयावहे. ॥६४३॥
उल्काहस्तौ स म र्थौ तौ रणशीर्षे विचेरतुः
ददृशाते सप्तषष्टिकोटिकीशोत्तमान् हतान्. ॥६४४॥
युक्तं स्वभाव ज र या जांबवंतं शरार्दितम्
दृष्ट्वा बिभीषणोऽपृच्छत्कच्चित्त्वं तात जीवसि ? ’ ॥६४५॥
ब्रह्मणस्तन य स्तं स कृच्छ्रादुत्तरमब्रवीत्,
‘ त्वां स्वरेणाभिजानामि न पश्यामि बिभीषण ! ॥६४६॥
तात ! प्राणानां ज नेयः कच्चिद्धारयते रणे ? ’
इति श्रुत्वा जांबवंतमब्रवीत्स बिभीषणः, ॥६४७॥
‘ आर्य ! धर्मन य ज्ञस्त्वमतिक्रम्य रघूत्तमौ
सुग्रीवमंगदं चापि कस्मात्पृच्छसि मारुतिम् ? ॥६४८॥
न तथा वान  रा धीशे नांगदे नापि राघवे
आर्य ! संदर्शितः स्नेहो यथा वायुसुते परः. ’ ॥६४९॥
तमब्रवीत्स म तिमान्, ‘ हतमप्यहतं बलम्
अस्मिन् जीवत्यन्यथा तु जीवंतोऽपि मृता वयम्. ’ ॥६५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP