संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ३०१ ते ३५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ३०१ ते ३५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ३०१ ते ३५० Translation - भाषांतर उवाच रक्षो रा जस्तं, ‘ वनादानीय सुंदरीम् किमर्थं प्रतिदास्यामि मनुष्यस्य भयादहम् ? ॥३०१॥द्विधा भज्येय म प्येव न नमेयं तु कस्यचित् एष मे सहजो दोषः स्वभावो दुरतिक्रम. ॥३०२॥कृपणो मनु ज स्तं तु रणे शास्त्रामृगाश्रयम् वधिष्यामि प्रतिज्ञेयं सत्या विश्वजितो मम. ’ ॥३०३॥व्रीडितः स्वाल य मगात्क्रुद्धे रक्षसि माल्यवान् लंकायास्तु तदा गुप्तिं कारयामास रावः. ॥३०४॥पूर्वद्वारे प रा सह्यं प्रहस्तं वाहिनीपतिम् लंकाया दक्षिणद्वारे महापार्श्वमहोदरौ ॥३०५॥ज्येष्ठं च पश्चि म द्वारे स्थापयामास नंदनम् व्यादिदेशोत्तरद्वारे रावणः शुकसारणौ. ॥३०६॥ राजराजानु ज स्तस्मिन्त्स्वयं च कृतनिश्चयः कथयामास लंकाया गुप्तिं ज्ञात्वा बिभीषणः. ॥३०७॥ अमात्यास्तस्य य त्नेन लंका गत्वा विरूपिणः पन्सानलसंपातिप्रभृत्याख्याः समागताः. ॥३०८॥तैः संविधानं ज वनैलकाया यन्निवेदितम् तत्सर्वं विनिवेद्याथ कुंभकर्णानुजोऽब्रवीत्. ॥३०९॥‘ अयुते द्वे ह य स्थानां गजारोहास्तथाऽयुतम् अयुतं च रथारूढाः साग्रा कोटिश्च रक्षसाम्. ॥३१०॥ एकैकस्यात्र रा जेंद्र ! युद्धार्थं रक्षसः प्रभो ! परीवारः सहस्राणां सहस्रमुपतिष्ठति. ॥३११॥ कर्तव्यो नात्र म न्युस्त्वां कोपयेऽहं न भीषये, समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे. ’ ॥३१२॥ ततोऽब्रवीत्स श्री रामो, ‘ नीलो वानरपुंगवः प्रहस्तं प्रतियोद्धा स्याद्बानरैर्बहुभिर्वृतः. ॥३१३॥ अंगदः कपि रा जस्य पुत्र एष महाबलः दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ. ॥३१४॥ हनूमान् पश्चि म द्वारे निष्पीड्येंद्रजितं स्वयम् प्रविशत्वप्रमेयात्मा कपिभिर्बहुभिर्वृतः. ॥३१५॥यः सदाशावि ज यकृत् प्रजापीडक उद्धतः तस्याहं राक्षसेंद्रस्य स्वयमेव वधे धृतः. ॥३१६॥ वानरेंद्रः स्व य मयं जांबवाम्श्च महायशाः राक्षसेंद्रानुजश्चैष गुल्मे भवतु मध्यभे. ॥३१७॥ वयं सदा न रा काराःसप्त योत्स्यामहे परान् न कार्यं मानुषं रूपमृक्षैः कपिभिराहवे. ’ ॥३१८॥ एवमुक्त्वा स म तिमान्ससुग्रीवबिभीषणः आरुरोह सुवेलाद्रिं लक्ष्मणेन सह प्रभुः. ॥३१९॥ते सुवेलस्य ज गतीधरस्य शिखरे स्थिताः ददृशुर्यूथपा व्योम्नि रचितामिव तां पुरीम्. ॥३२०॥प्राकारवल य स्थैस्तैर्नीलवर्णैर्निशाचरैः ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्. ॥३२१॥ तान् दृष्ट्वा ते वि ज यिनो राक्षसान् युद्धकांक्षिणः मुमुचिर्विविधान्नादान् वानरा रामसन्निधौ. ॥३२२॥वानरैः प्रल य प्रोद्यद्धनैरिव महारवैःलंका प्रकंपिता सर्वा धीः श्रीश्चामरविद्विषाम्. ॥३२३॥सततं भ्रम रा लुब्धाः सौगंधिक इवांबुजे अमराः समरापास्तस्वरिपोर्यशसि प्रभोः. ॥३२४॥ततोस्तमग म त्सूर्यः संधय्या प्रतिरंजितः पूर्णचंद्रप्रदीप्ता च क्षपा समभिवर्तत. ॥३२५॥ सौवर्णमेकं श्री मत्ते त्रिकूटशिखरं वरम् ददृशुस्तत्र तां लंकां निर्मिता विश्वकर्मणा. ॥३२६॥वित्तित्रां भास्व रा कारां प्रासादैरुपशोभिताम् दशयोजनविस्तीर्णामद्भुतां द्विगुणायताम्, ॥३२७॥ वनैर्मनोर म गुणैः समंतादुपशोभिताम् प्रातर्विलोक्य हरयो रम्याण्युपवनानि ते ॥३२८॥विविशुर्वायु ज वनाः सुग्रीवस्य निदेशतः जग्मुर्दिशो भयात्तेषां नागाः सिंहाः खगा मृगाः. ॥३२९॥ ततो रामो वि य त्युच्चैः सुवेलस्य महागिरेः आरुरोह ससुग्रीवश्चित्रं शृंगं द्वियोजनम्. ॥३३०॥तत्र स्थितः स रा जेंद्रो दिशः सर्वा विलोकयन् ददर्श लंकां कनकप्राकारेण विराजिताम्. ॥३३१॥ दशकंठं चा मराभ्यां श्वेतच्छत्रेण शोभितम् तस्या गोपुरशृंगस्थं ददर्श सुदुरासदम्. ॥३३२॥ तं कुबेरानु ज न्मानं दृष्ट्वाऽशु स कपीश्वरः उत्थाय पुप्लुवे क्रोधात्प्रभो रामस्य पश्यतः. ॥३३३॥ सुग्रीवो निर्भ य स्वांतस्तृणीकृत्य दधाननम् पतितो गोपुरे स्थाने सोऽब्रवीत्परुषं वचः ॥३३४॥‘ भर्तू रामस्य ज गतां सखा दासोऽस्मि राक्षस ! न मया मोक्ष्यसेऽद्य त्वं पार्थिवेंद्रस्य तेजसा. ’ ॥३३५॥ इत्युक्त्वा सर य स्तार्क्ष्य इव तस्योपरि द्विषः पपाताकृष्य मुकुटं पातयामास भूतले. ॥३३६॥ तमाह र क्षो रा जो, ‘ रे ! निर्मर्याद प्लवंगम ! सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि. ’ ॥३३७॥ततः प्लवंग म पतिर्निशाचरपतिर्बले नियुद्धं चक्रतुर्घोरं विश्वविस्मयकारकम्. ॥३३८॥ कृत्वा नियुद्धं श्री दस्य भ्रात्रा तेन सहातुलम् सुवेलस्य पुनः शृंगमाजगाम महायशाः. ॥३३९॥तमुवाच न रा धीशः, ‘ सखे ! सुग्रीव ! साहसम् कर्तुं नार्हसि भूयस्त्वं मम प्राणो बहिश्चरः. ’ ॥३४०॥अथावरुह्य म हतः सुवेलाग्राद्रघूत्तमः रुरोध, तानि लंकाया द्वाराणि, प्रबलैर्बलैः. ॥३४१॥अनुस्मरन् रा ज धर्ममाहूयांगदमब्रवीत्, ‘ गत्वा सौम्य ! दशग्रीवं ब्रूहि मद्वचनादिदम्. ॥३४२॥ऋषिदेवाहि य क्षाणामवलिप्तेन यत्त्वया त्यक्त्वा ह्रियं दयां नानाप्रकारं पीडनं कृतम्. ॥३४३॥तद्गोविप्रसु रा रा ते ! दाराहरणकर्षितःआगतोऽह्गं ससुग्रीवो लंकाद्वारे व्यवस्थितः. ॥३४४॥गमिष्यसि त्वं म हर्षिराजर्षिपदवीमरे ! मद्बाणैर्निहतो युद्धे भविष्यसि यदि स्थिरः. ॥३४५॥बलेन येन ज नकतनयां माययाधम ! मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय. ॥३४६॥सीतां त्वमादा य यदि त्वभ्येषि शरणं न माम् अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः. ॥३४७॥धर्मात्मा तेऽनु ज न्मायं श्रेष्ठो मां शरणं गतः लंकैश्वर्यमिदं श्रीमत् ध्रुवं प्राप्नोत्यकटकम्. ॥३४८॥न राजमन य ज्ञेन भोक्तुं क्षणमपि त्वया शक्यं मूर्खसहायेन पापेनाविदितात्मना. ॥३४९॥ कृत्वा धृतिं प रा मद्य त्वं युत्ध्यस्व मया सह,मृतो रणे मद्विशिखैः पाप ! पूतो भविष्यसि. ॥३५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP