युद्धकाण्डम् - काव्य ३५१ ते ४००
युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
चक्षुःपथं म म प्राप्य न जीवन्प्रतियास्यसि
यद्याविशसि लोकांस्त्रीन् खगीभूतो निशाचर ! ॥३५१॥
जघन्यजं त्वां श्री दस्य हितं वाक्यं ब्रवीम्यहम्
सुदृष्टा क्रियतां लंका क्रियतां चौर्ध्वदेहिकम्. ’ ॥३५२॥
इत्थमुक्तः स रा मेण तारेयोऽक्लिष्टकर्मणा
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्. ॥३५३॥
ददर्शासीन म व्यग्रं रावणं सचिवैः सह
तस्थौ तस्याविदूरेण निपत्याग्निसमप्रभः. ॥३५४॥
ततो भर्तुस्त्रि ज गतां श्रावयामास तद्वचः,
‘ दूतोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः. ॥३५५॥
अंगदस्तन यस्तस्य वालिनश्चेत्त्वया श्रुतः
आह त्वां राघवो रामः कौसल्यानंदवर्धनः. ॥३५६॥
निष्पत्य त्वं सु रा राते ! युत्ध्वस्व, पुरुषो भव,
हंतास्मि त्वां सहामात्यं सपुत्रज्ञातिबांधवम्. ॥३५७॥
त्रयो लोकाः सु म नसो भविष्यंति हते त्वयि
बिभीषणस्य चैश्वर्यं भविष्यति महात्मनः. ॥३५८॥
उद्धरिप्यामि ज गतीसुराणां त्वाद्यकंटकम्
हरेरिभ इव स्थातुं न त्वं मम पुरः क्षमः. ॥३५९॥
देवदानव य क्षाणां गंधर्वोरगपक्षिणाम्
शत्रुमन्मूलयिष्यामि त्वामहं लीलया रणे. ॥३६०॥
उक्तं सत्यं नि ज वचः करिष्यामि दशानन !
न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि.’ ॥३६१॥
तारायास्तन य स्येत्थं श्रुत्वा स परुषं वचः
रुष्टः शशास सचिवानसकृत्द्गृह्यतामिति. ॥३६२॥
जगृहुर्युव रा जानं चत्वारो रजनीचराः
ग्राहयामास तारेयो बलं दर्शयितुं तदा. ॥३६३॥
स तान् विहंग म समान् भुजसक्तान्महाबलः
समादायोत्पपाताशु प्रासादं शैलसन्निभम्. ॥३६४॥
यदोत्पपात श्री मान्त्स प्रबलः पक्षिराडिव
तस्योत्पतनवेगात्ते निर्धूताः पतिता मृताः. ॥३६५॥
तस्य पादभ रा क्रांतः प्रासादः स महानपि
पफाल शतधा वज्रप्रहाराद्धिमवानिव. ॥३६६॥
प्लवंगमानां म ध्ये स रामपार्श्वमुपागतः
भंक्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः. ॥३६७॥
ततः प्रवृत्तं ज न्यं तद्दारुणं कपिरक्षसाम्
कबंधा उत्थिता यत्र दुस्तराः शोणिता पगाः. ॥३६८॥
तारायास्तन य स्तत्र रात्रियुद्धे भयंकरे
तमिंद्रजितमत्युग्रं चकार विरथं बली. ॥३६९॥
महामायः स रा त्रौ तावदृश्यो रामलक्ष्मणौ
बबंध शरबंधेन कूटयोधी निशाचरः. ॥३७०॥
बद्धौ भुजंग म वरैर्विद्यया शरतां गतैः
निष्पंदौ पतितौ वीरौ मूर्च्छितौ रामलक्ष्मणौ. ॥३७१॥
स्रातौ स्वक्षत ज स्रुत्या भूयस्या समराजिरे
तौ रामलक्ष्मणौ दृष्टौ पुष्पिताविव किंशुकौ. ॥३७२॥
तावुवाच वि य द्वर्ती रावणिर्माम सुरेश्वरः
द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्. ॥३७३॥
यमलोकं रा ज पुत्रौ नयामीति वदन् शरैः
निर्बिभेद पुनस्तीक्ष्णैः प्रजहर्ष ननाद च. ॥३७४॥
तयोर्जगन्ना य कयोः शरीरेंऽगुलमंतरम्
न ह्यविद्धं बभूवोग्रैः फणिभिर्बाणतां गतैः. ॥३७५॥
दृष्ट्वा खरश रा क्रांतौ जगत्यां जगतां पती
बिभीषणश्च सुग्रीवः संतापं परमं गतौ. ॥३७६॥
कपयो हनु म न्मुख्या व्याकुलौ परिवार्य तौ
तस्थुर्द्या च भुवं चापि वीक्षमाणा वनौकसः. ॥३७७॥
सलक्ष्मणं तं श्री रामं परिवार्य स्थितान् कपीन्
यूथपानिषुभिर्घोरैरताडयदरिंदमः. ॥३७८॥
एवं सर्वान् प रा भूय हर्षयन् सर्वराक्षसान्
प्रहृष्टो रावणिर्लंकां प्रविवेश महायशाः. ॥३७९॥
बिभीषणोऽथ म तिमानब्रवीद्वानरेश्वरम्,
‘ पर्यवस्थापयात्मानमनाथं मां च संकटे. ॥३८०॥
त्वं वैक्लव्यं त्य ज क्षिप्रं न मृतौ रामलक्ष्मणौ,
पश्येमौ न जहाति श्रीरग्रेऽपीयं न हास्यति. ॥३८१॥
तस्मादाश्वास य स्वांतं बलं च प्लवगाधिप !
यावत्सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम्. ’ ॥३८२॥
एवमाश्वास्य रा जानं राक्षसेंद्रो बिभीषणः
विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः. ॥३८३॥
इंद्रजित्सुस म र्थस्तत्प्रियं पित्रे न्यवेदयत्
उत्पपातासनाद्धृष्टः स पुत्रं परिषस्वजे. ॥३८४॥
बिभीषणाग्र ज न्मा ता राक्षसीरब्रवीस्वयम्,
‘ हताविंद्रजिताख्यात वैदेह्या रामलक्ष्मणौ. ॥३८५॥
तां पुष्पकं प्र य त्नेन समारोप्यायतेक्षणाम्
दर्शयध्वं हतौ मर्त्यौ युद्धे दाशरथी इति. ॥३८६॥
यदाश्रयाद्रा ज पुत्री गर्वान्मां नोपतिष्ठते
सोऽस्या भर्ता सह भ्रात्रा निहतो रणमूर्धनि. ॥३८७॥
दृष्ट्वा रामक्ष र मियं निरपेक्षाद्य मैथिली
मामुपस्थास्यतेऽगत्या सर्वाभरणभूषिता. ’ ॥३८८॥
तथेत्युक्त्वाशु रा क्षस्यः सीतामारोप्य पुष्पकम्
निन्युस्त्रिजटया सार्धं सापश्यद्रामलक्ष्मणौ. ॥३८९॥
तौ मृतावेव म त्वा सा विललाप पतिव्रता,
‘ पुत्रिण्यविधवेत्यूचूर्ये मां तेऽनृतवादिनः ॥३९०॥
विहाय दीनां श्री मान्मां करुणोऽयं कथं गतः ?
हा कौसल्ये ! हा सुमित्रे ! हा कैकेयि ! सुतौ मृतौ ! ॥३९१॥
लक्षणानि ध रा देवैर्यान्युक्तानि शुभान्यलम्
तान्यद्य निहते रामे वितथान्येव सर्वशः. ’ ॥३९२॥
तथा रामस्य म हिषीं कृपणां बहुविह्वलाम्
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्, ॥३९३॥
‘ मा विषादं व्र ज शुभे ! भर्तायं तव जीवति
मूर्च्छितः सानुजो रामो मुखयोः श्रीः शुभानयोः. ॥३९४॥
हते पत्यावा य ताक्षि ! योधानां वदनान्यलम्
विवर्णानि भवंत्येषां न तथा, न मृताविमौ. ॥३९५॥
इदं हि राज रा जस्य विमानं पुष्पकं महत्
दिव्यं त्वां धारयेनैव यद्येतौ गतजीवितौ. ॥३९६॥
विस्रब्धा भव म द्वाक्यैरनुमानैः सुखोदयैः
अहतौ पश्य काकुत्स्थौ स्नेहादेवद्ब्रवीमि ते. ’ ॥३९७॥
एवमुक्ता त्रि ज टया सीता सुरसुतोपमा
कृतांजलिरुवाचेमामेवमस्त्विति सा सती. ॥३९८॥
सद्विवर्त्य वि य द्यानं सीता त्रिजटया सह
अशोकवनिकां भूयो राक्षसीभिः प्रवेशिता. ॥३९९॥
ततः स वीरोऽ ज कुलप्रदीपः प्रत्यबुध्यत,
भ्रातरं दीनवदनं पर्यदेवयदातुरः, ॥४००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP