युद्धकाण्डम् - काव्य १५१ ते २००
युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
सलक्ष्मणः प्रां ज लिस्तं सुग्रीवः पुनरब्रवीत्,
‘ प्रहर्तुं त्वयि विश्वस्ते मयि वा लक्ष्मणेऽपि वा. ॥१५१॥
दशाननेना य मिह प्रभो ! संदिष्ट आगतः
जिह्मधी राक्षसो वध्यः सचिवैः सह सर्वथा. ’ ॥१५२॥
तमुवाचार्त ज नहृत्तोषदो रघुनंदनः,
‘ दुष्टोऽदुष्टोऽपि वास्त्वेष न मे कर्तुं क्षमोऽहितम्. ॥१५३॥
विशाचासुर य क्षा ये पृथिव्यां ये च राक्षसाः
अंगुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ! ॥१५४॥
श्रूयते हि पु रा व्याधः शत्रुः शरणमागतः
कपोतेनार्चितस्तात ! स्वैश्च मांसैर्निमंत्रितः. ॥१५५॥
कंडुगीताः सु म हिता गाथाः शृणु कपीश्वर ! ’
इत्युक्त्वा ताः स्वयं रामो जगौ सर्वसतां मताः. ॥१५६॥
‘ प्राणैः सहैव श्री स्त्याज्या रक्षता सुकृतं यशः
न प्रांजलिः शत्रुरपि त्रस्तः शरणमागतः. ॥१५७॥
महती हि प रा भूतिस्त्यजतः शरणागतम्
तस्मादहं करिष्यामि कंडोर्वचनमुत्तमम्. ॥१५८॥
रघोर्वंशेऽत्र म हति प्रभवो बहवोऽभवन्
ते सर्वे हि महात्मानः शरणागतपालकाः. ॥१५९॥
जगत्सु त्रिष्व ज सुतः ख्यातो दशरथः प्रभुः
तत्पुत्रोऽहं कथं त्यक्तुं शक्नुयां शरणागतम् ! ॥१६०॥
सकृत्प्रपन्ना य सखे तवास्मीति च याचते
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम. ॥१६१॥
आनयैन त्व रा वान्सन् दत्तमस्य मयाऽभयम्
बिभीषणो वा सुग्रीव ! यदि वा रावणोऽस्त्वयम्. ’ ॥१६२॥
स्तुत्वा प्लवंग म पतिः श्रीरामं जगतां पतिम्
आनयामास गगनात्समाहूय बिभीषणम्. ॥१६३॥
जहार यद्र ज स्ता दृगहल्याया महद्रजः
निपपात तयोर्मूर्ध्नो पादयोः स बिभीषणः. ॥१६४॥
उवाच सद य श्रेष्ठ ! रावणेनावमानितः
तस्यानुजोऽहं त्वामद्य शरण्यं शरणागतः. ॥१६५॥
त्यक्ता लंका रा ज धानी मित्राणि च धनानि च
भवद्गतं हि मे राज्यं जीवितं च सुखानि च. ’ ॥१६६॥
राघवो विन य ज्ञं तं सांत्वयित्वाब्रवीत्स्वयम्,
‘ आख्याहि मम तत्वेन राक्षसानां बलाबलम्. ’ ॥१६७॥
सोऽब्रवीदिति, ‘ रा जेंद्र ! वरदानात्स्वयंभुवः
अवध्यः सर्वभूनां रावणो लोकरावणः. ॥१६८॥
कुंभकर्णो म म ज्येष्ठः शक्रप्रतिबलो युधि
मणिभद्रस्य जेतास्य प्रहस्तो वाहिनीपतिः. ॥१६९॥
ज्येष्ठः सुतोऽस्य श्री मान्त्स मेघनादाभिधः प्रभो !
जातो नाम्नेंद्रजिज्जित्वा युधींद्रं सुमहाबलः. ॥१७०॥
तथा महोद रा ख्यश्च महापार्स्व्होऽप्यकंपनः
तस्योपसेनापतयो लोकपालसमा युधि. ॥१७१॥
सर्ववीरोत्त म ! स्वामिन् ! लंकायां कामरूपिणः
दशकोटिसहस्त्राणि रक्षसां संति मुख्यशः. ॥१७२॥
ये लोकपाला ज न्ये ते भग्नाः सर्वे सुरैः सह. ’
बिभीषणवचः श्रुत्वा स्वयं रघुवरोऽब्रवीत्, ॥१७३॥
‘ हत्वा रक्षोना य कं तं सप्रहस्तानुजात्मजम्
राजानं त्वां करिष्यामि सत्यमेतच्छ्टणोतु मे. ॥१७४॥
अथोऽब्रवीत्स, ‘ राजेंद्र ! राक्षसानां वधे पुरः
प्रधर्षणेऽहं साहाय्यं करिष्यामि यथाबलम्. ’ ॥१७५॥
इति ब्रुवाणं म धुरं परिष्वज्य बिभीषणम्
रामः प्रीतोऽनुजं प्रह, ‘ समुद्राज्जलमानय. ॥१७६॥
तेन त्वमाशु ज लधेर्जलेनेमं बिभीशणम
अभिषिंचाद्य राजानं रक्षसां वीरमानद ! ’ ॥१७७॥
एवमुक्तः प्र य तधीरभ्यषिंचद्बिभीषणम्
मध्ये वानरमुख्यानां राजानं राजशासनात्. ॥१७८॥
सद्यःप्रसादं ज गतां भर्तुर्दृष्ट्वा प्लवंगमाः
प्रचुक्रुशुर्महात्मानं ‘ साधु साध्वि ’ ति चाब्रुवन्. ॥१७९॥
अथाब्रवी‘त्तो य राशिं तराम कथमित्यमुम् ’
बिभीषणं वायुसूनुः सुग्रीवश्च महामतिम्. ॥१८०॥
प्रत्युवाच, स रा जायं राघवस्तेजसां निधिः
सागरं पूर्वजकृतं शरण्म गंतुमर्हति. ॥१८१॥
सगरेणाय म ब्धिर्हि खानितः सागरस्ततः
कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः. ’ ॥१८२॥
बिभीषणोक्तं श्री भर्तुः सागरस्योपवेशनम्
प्रकृत्त्या धर्मशीलस्य तद्रामस्याप्यरोचत ॥१८३॥
कुशास्तीर्णेऽम्बु रा शेः स श्रीरामो विमले तटे
संविवेश तदा साक्षाद्वेद्यामिव हुताहनः. ॥१८४॥
ततो निविष्टां म हतीं ध्वजिनीं पतिपालिताम्
अभ्येत्य दृष्ट्वा शार्दूलः प्रतिगम्य दशाननम् ॥१८५॥
कथयामस ‘ ज लधेः प्रतीरे रामलक्ष्मणौ
सीतायाः पदमायातौ, तत्सैन्यं सागरोपमम्. ॥१८६॥
दानं वा सम ! य त्नेन भेदो वाऽत्र प्रयुज्यताम्
बलं निविष्टं खं व्याप्य सर्वतो दशयोजनम्. ’ ॥१८७॥
शुकं नाम त्व्म रा युक्तं ततः संदिश्य राक्षसम्
प्राहिणोत्सामभेदार्थं सुग्रीवं प्रति रावणः. ॥१८८॥
शुको विहंग म तनुर्व्योम्नि स्थित्वा कपीश्वरम्
उवाच, ‘ त्वं मम भ्राता महाराजकुलोद्भवः ॥१८९॥
रामस्य भार्यां ज यतां वरोऽहमहरं यदि
किं तत्र तव सुग्रीव ! किष्किंधां प्रति गम्यताम्. ’ ॥१९०॥
त्यजतो मां प्रि य सखं नास्त्यर्थस्तव कश्चन
अनर्थः प्रत्युत, प्राप्तुं लंकाऽशक्या नृवानरैः. ’ ॥१९१॥
तं खमुत्प्लुत्य ज गृहुर्वानराः पीडितः शुकः
उवाच ‘ दूतान्न घ्नंति राम ! तत्साधु वार्यताम्. ’ ॥१९२॥
‘ दूतः प्राणात्य य मयं नार्हतीति ’ प्रभोर्वचः
श्रुत्वा तं मुमुचुः कीशाः श्रीशाज्ञावशवर्तिनः. ॥१९३॥
गगनस्थः स रा जानं शुकः सुग्रीवमब्रवीत्
‘ किं मया लघु वक्तव्यो रावणो लोकरावणः. ’ ॥१९४॥
वानरेंद्रस्त म वद ‘ न्नानुकंप्योऽसि मे सखा
रामस्यारिस्त्वमस्माकं वध्यो वालीव बालिश ! ॥१९५॥
त्राता न स त्वां श्री कंठो रामात् पाप ! न मुच्यसे
एतत्प्रत्युत्तरं दत्तं निवेदय दशाननम्. ’ ॥१९६॥
तदांगदस्तं रा जानमब्रवी‘देष राक्षसः
दूतश्चारोऽपि तुलितं सर्वं सैन्यमनेन नः. ॥१९७॥
लंकां रक्षोध म स्यास्य गमनं मे न रोचते,
गृह्यतां पुनरत्रायं बध्यतां वानरेश्वर ! ’ ॥१९८॥
राजाज्ञया तं ज गृहुर्विलपंतमनाथवत् !
तत्प्रार्थितोऽब्रवीद्रामो ‘ मुच्यतां दूत आगतः. ’ ॥१९९॥
कुशेषु रामो य तवाक् प्रतिशिश्ये पयोनिधेः
वरमिच्छन्निशास्तिस्र उपधाय भुजं प्रभुः ॥२००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP