संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ९५१ ते १००० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ९५१ ते १००० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ९५१ ते १००० Translation - भाषांतर अब्रुवंस्तं सु रा रामं प्रांजलिं पुरतः स्थितम्, ‘ विश्वस्य कर्तास्थात्मानं कथं त्वं नावबुध्यसे ? ॥९५१॥सीता तवेयं म हिषी साक्षाच्छ्रीर्जनकात्मजाउपेक्षसे कथं विष्णो ! पतंतीं हव्यवाहने ? ॥९५२॥अस्माभिस्त्वं त्रि ज गतां भर्ता हंतुं दशाननम्प्रार्थितो मानुषीं योनिं प्रविष्टोऽसि सनातनः. ॥९५३॥प्रभवश्चाप्य य श्च त्वं देवकार्यं कृतं त्वया सर्वे कृतार्थास्त्वद्भक्ताः शरण्यस्त्वं जनार्दन ! ’ ॥९५४॥ गृहीत्वा तां व रा रोहां मूर्तिमान् हव्यवाहनः उत्थायाभ्येत्य भगवानित्युवाच रघूत्तमम, ॥९५५॥ ‘ राम ! रामाच्छ म नसं सीतां शीतांशुजिन्मुखीम्गृहाण त्वमिमां मान्यां मान्यां बुद्धिं कुरु प्रभो !, ॥९५६॥एवमुक्त्वा रा ज मानां सीतां दाशरथेः प्रभोः स्थापयामास वामे तामंके पंकेरुहेक्षणाम्. ॥९५७॥‘ लोकापवादो य शसो नाशकोऽतस्तमागतम् परिमार्ष्टुदं दिव्यं मया विज्ञाय कारितम्. ॥९५८॥इयं विशुद्धा ज गति श्रेष्ठा भानोरिव प्रभा, न विहातुं मया शक्या कीर्तिरात्मवता यथा. ॥९५९॥सुस्निग्धानां सु य शसां नाथानां वदतां हितम् अवश्यं च मया कार्यं सर्वेषां वो वचः प्रियम्. ’ ॥९६०॥एवमुक्त्वा स रा जेंद्रः प्रियां स्वीकृतवान्मुदा. ततः शुभतरं वाक्यं व्याजहार महेश्वरः. ॥९६१॥‘ पुष्कराक्ष ! स म र्थेश ! श्यामतामरसप्रभ ! दिष्टया कृतमिदं कर्म त्वया धर्मभृतां वर ! ॥९६२॥आश्वास्य दीनां श्री मंत्स्वं भरतं भक्तमात्मनः मातॄश्च राज्यं कृत्वाथ स्वपदं गंतुमर्हसि. ॥९६३॥विमानेऽयं न रा धीशः पिता दशरथस्तव लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय. ॥९६४॥ शक्रस्य लोकं म र्त्येंद्रो गतो गतिमतां वरः सत्पुत्रेण त्वया राम ! तारितोऽयं गुरुस्तव. ’ ॥९६५॥रागह्वः सानु ज श्चक्रे नमनं पितुरात्मनः स चैनमंक आरोप्य परिष्वज्य मुदाब्रवीत्. ॥९६६॥ ‘ राम ! प्राणप्रि य ! स्वर्गः समानोऽपि सुरर्षभैः न मे बहुमतो जातु त्वां विना गुरुवत्सल ! ॥९६७॥ कैकेय्या यानि रा जीवनेत्र ! प्रोक्तानि दुष्टया तानि वाक्यानि शल्यानि स्थितानि हृदये मम. ॥९६८॥दुःखान्मुक्तोऽद्य म हतस्त्वां परिष्वज्य सानुजम् तारितोऽहं त्वया पुत्र ! सुपुत्रेण महात्मना. ’ ॥९६९॥रामः प्रोवाच ज नकं, ‘ कैकेय्या भरतस्य च प्रसादं कुरु, शापः स सपुत्रां न स्पृशेत्प्रभो ! ’ ॥९७०॥तथेत्युक्त्वा प्रि य गुणं लक्ष्मणं तां च जानकीम् समाश्वास्य, विमानेन ययौ स्वर्गं महायशाः. ॥९७१॥ततो जयंत ज नको रामं प्रांजलिरब्रवीत्,‘ अमोघं दर्शनं राम ! तवास्माकं रघूत्तम ! ॥९७२॥प्रीताः स्म, ब्रूहि य त्प्राज्यं राजेंद्र ! मनसेप्सितम्. ’ तच्छ्रुत्वा वासवं हृष्टो वचनं प्राह राघवः. ॥९७३॥‘ मम हेतोः प रा क्रांता ये गाता यमसादनम् ते सर्वे जीवितं प्राप्य समुत्तिष्ठंतु वानराः. ॥९७४॥अकाले चापि म धुराः फलमूलसमृद्धयः नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः. ’ ॥९७५॥रक्षःक्षयाप्त श्री रिंद्रः प्रत्युवाच तदा प्रभुम्, ‘ महानयं वरस्तात ! त्वयोक्तो रघुसत्तम ! ॥९७६॥मम त्वयि प रा प्रीतिस्तस्मादेतद्भविष्यति. समुत्तिष्ठंतु सर्वे ते ये हता युधि राक्षसैः. ’ ॥९७७॥ततः प्लवंग म व्रातास्ते सुप्त्वेव समुत्थिताः बभूवुर्वानरा ऋक्षाः किंन्वेतदिति विस्मिताः. ॥९७८॥राममापृच्छय ज ग्मुस्ते स्वर्गं सेंद्रा दिवौकसः. श्रीरामं प्रार्थयामास सत्कर्तुं स बिभीषणः. ॥९७९॥तमाह रामो, ‘ य दि मां राजन् ! सत्कर्तुमिच्छसिहरीन्सुग्रीवमुख्यांस्त्वं सर्वानप्यद्य सत्कुरु. ॥९८०॥स तु ताम्यति र अज्येऽपि भरतो मत्कृते सदा तं विना मे बहुमतं न स्नानं वस्त्रभूषणम्. ॥९८१॥एतत्त्वं पश्य म तिमन् ! यथा क्षिप्रं निजां पुरीम्प्रतिगच्छामि, मार्गोऽयं राजन् ! परमदुर्गमः. ’ ॥९८२॥दक्षकंठानु ज स्तं स प्रत्युवाच कृतांजलिः,‘ अह्ना त्वां प्रापयिष्यामि साकेतं पुष्पकेण तत्. ॥९८३॥अनुग्रहस्ते य द्यस्ति सदारः सानुजो वस गृहाण सत्क्रियां मत्तः, सौहृदं तव चेन्मयि. ’ ॥९८४॥तत्कौसल्यानु ज स्तस्य श्रुत्वा वाक्यं ततोऽब्रवीत्, ‘ साचिव्येन तथा प्रेम्णा पूजितोऽहं भृशं त्वया. ॥९८५॥भरतं तु प्रि य सख द्रष्टुं मे त्वरते मनः शिरसा याचतो यस्य न कृतं वचनं मया. ॥९८६॥कौसल्यां च प रा मार्तां सुमित्रां केकयात्मजाम् गुहं च सुहृदं पौरान् द्रष्टुं मेऽत्युत्सुकं मनः. ॥९८७॥अनुजानीहि म तिमन् ! मामहं सत्कृतस्त्वया उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर ! ’ ॥९८८॥स तद्विमानं श्री दस्य कामगं रावणाहृतम्, स्थापयामास सेवायां सुरतः पुरतः प्रभोः. ॥९८९॥ससैन्यं वान रा धीशं संपूज्य परया मुदा,‘ साकेतं मां नये’त्याह रामं भक्तो बिभीषणः. ॥९९०॥सोऽपि प्लवंग म पतिः सुग्रीवो मंत्रिभिः सह तथैव प्रार्थयामास प्रभुं प्राज्यदयं स्वयम्. ॥९९१॥तद्विमानं भ्रा ज मानं राजराजस्य रागह्वः ताभ्यां सह समारुह्य राजभ्यां कपिरक्षसाम् ॥९९२॥ त्रिकूटात्तां प्रि य तमामंके स्थाप्य सलक्ष्मणः प्रतस्थे सुमहातेजा लंकालंकारजित्पुरम्. ॥९९३॥कैलासशिख रा कारे त्रिकूटशिखरे स्थिताम् लंकां युद्धधरां रामो दर्शयन्नाह जानकीम्. ॥९९४॥‘ प्रिये ! पश्य त्व म स्याद्रेस्त्रिकूटस्य शिरोगताम् सुरैर्दुरासदां लंकां निर्मितां विश्वकर्मणा. ॥९९५॥इयं युद्धस्य ज गती, त्वत्कृतेऽत्र सह प्रियैः सचिवैर्भ्रातृभिः पुत्रैः सीते ! दशमुखो हतः. ॥९९६॥रावणस्य स्त्रि य स्तप्ता मंदोदर्या सह प्रिये ! विविधं भूरिकरुणं तं मृतं पर्यदेवयन् ॥९९७॥सेतुर्नलेन ज लधावेष देव्याज्ञया मम तव हेतोर्विशालाक्षि ! बद्धः पश्य सुदुष्करः. ॥९९८॥पश्य सीते ! ऽत्या य ताक्षि ! दुस्तरं वरुणालयम् जंतवो यत्र पतितं नयंत्यकरुणालयम्. ॥९९९॥इतस्त्वं रुचि रा पांगे ! मैनाकं भित्वा सागरमुत्थितम्. ॥१०००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP