संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ५०१ ते ५५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ५०१ ते ५५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ५०१ ते ५५० Translation - भाषांतर उवाच पर म व्यग्रः प्रेक्षमाणो निशाचरान्,‘ व्यर्थं तपो मे यद्युद्धे मानुषेणास्मि निर्जितः. ॥५०१॥ इदं तत्कंज ज वचो घोरं मामभ्युपस्थितम्, मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा. ॥५०२॥ देवदानव य क्षैस्तैर्गंधर्वोरगराक्षसैः अवध्यत्वं मया प्राप्तं, मानुषेभ्यो न याचितम्. ॥५०३॥अनरण्योऽपि ज गतीपतिर्मामशपत्पुरा शप्तोऽहं वेदवत्या च सेयं जनकनंदिनी. ॥५०४॥ उमा शंभोः प्रि य तमा मह्यं कैलासचालने नंदीश्वरश्चोपहासे घोरं शापं ददौ पुरा. ॥५०५॥तद्राक्षसाः ! स्म रा म्यद्य निमित्तं मद्भयस्य यत् यूयं प्रियाः सहायामे यत्नं कर्तुमिहार्हथ. ॥५०६॥महासत्त्वो म म भ्राता कुंभकर्णो विबोध्यताम्, प्रयत्नः क्रियतां दुर्गप्राकारद्वाररक्षणे. ॥५०७॥संरक्षणीया श्री रद्य प्रयत्नेन निशाचराः ! सुखं स्वपिति निश्चिंतः कुंभकर्णो विबोध्यताम्. ॥५०८॥स हि संख्ये प रा क्रांतः ककुदं सर्वरक्षसाम वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति. ॥५०९॥रामेण संग्रा म इह प्रभग्नस्य सुदारुणे भविश्यति न मे शोकः कुंभकर्णे विबोधिते. ’ ॥५१०॥भर्त्रेत्युक्ताः प्र ज ग्मुस्ते कुंभकर्णनिवेशनम् गंधमाल्यं महद्भक्ष्यमादाय रजनीचराः. ॥५११॥ ते कुंभकर्णं य त्नेन महता राक्षसोत्तमाः दिनद्वयेनायुतशः कृच्छ्रेण प्रत्यबोधयन्. ॥५१२॥ प्रबुद्धो मांस रा शीन्स भुक्त्वा नानान्नपर्वतान् सहस्रशो मद्यकुंभान् पीत्वा स्नातो घटश्रुतिः. ॥५१३॥यूपाक्षात्स स म ग्रं तत्सचिवाद्वृत्तमात्मनः प्रबोधकारणं श्रुत्वा कुंभकर्णस्तमब्रवीत्. ॥५१४॥‘ हरिसैन्यं रा ज पुत्रौ तौ चाहं रामलक्ष्मणौ जित्वा प्रथममेवाजौ ततो द्रक्ष्यामि रावणम्. ’ ॥५१५॥महोदरो न य ज्ञस्तं कुंभकर्णं तदाब्रवीत्, ‘ श्रुत्वा प्रभुवचः शत्रून्पच्छादपि विजेष्यसि. ’ ॥५१६॥स प्रतस्थेऽग्र ज स्यादौ दर्शनार्थं महातनुः कुंभकर्णः पदन्यासैः कंपयामास मेदिनीम्. ॥५१७॥बहिस्थाः कप य स्तस्य व्रजतो राजवर्त्मनि दर्शनात्कुंभकर्णस्य त्रस्ताः सर्वे पलायिताः. ॥५१८॥केचिच्छरण्यं रा जेंद्रं रागह्वं शरणं ययुः क्रममाणं महाकाशं पुरा नारायणं यथा. ॥५१९॥तथा दृष्ट्वा त म त्युग्रं रामो दशरथात्मजः कोऽयमत्युच्छ्रितः श्रीमानित्वपृच्छद्बिभीषणम्. ॥५२०॥बिभीषणस्तं श्री मंतं राघवं जगतः पतिम् प्रणम्याकथयत्तस्य नामवीर्याद्यशेषतः. ॥५२१॥ ‘ राम ! येन सु रा धेशः साक्षात्कालश्च निर्जितः ऐरावतैकदंतेन वासवो युधि ताडितः. ॥५२२॥भक्षिताश्च स म र्थेन प्रजा येन महौजसा यं दृष्ट्वा त्रिदशाः सर्वे कालोऽयमिति मोहिताः. ॥५२३॥ब्रह्मा यमाह ज नितस्त्वं हि विश्रवसा ध्रुवम् प्रजानाशाय तत्पाप ! मृतकल्पः शयिष्यसि. ॥५२४॥ब्रह्माग्रजेन य स्यार्थे प्रार्थितः सन् पुराब्रवीत्, ‘ शयिता ह्येष षण्मासमेकाहं जागरिष्यति. ’ ॥५२५॥सोऽयं राक्षस रा जस्य कुंभकर्णोऽनुजः प्रभो ! उत्थापितो बलादद्य राज्ञा योद्धुं त्वया सह. ’ ॥५२६॥रामस्तमाह, ‘ म तिमन् ! कथमेनं महाबलम् वानरा वारयिष्यंति ’ तमुवाच बिभीषणः, ॥५२७॥‘ उच्यतां मनु ज श्रेष्ठ ! वानरा माययारिणा बिभीषिकार्थं समरे यंत्रमेतत्समुच्छ्रितम्. ॥५२८॥ज्ञात्वा मायाम य मिमं सर्वे शाखामृगाः प्रभो ! ये भीता दर्शनेनास्य ते भविष्यंति निर्भयाः. ’ ॥५२९॥दशकंठानु ज वचः श्रुत्वा दाशरथिः स्वयम् आह सेनापतिं नीलं स तथाकथयत्कपीन्. ॥५३०॥‘ यंत्रं मायाम य मि ’ति श्रुत्वा सर्वे प्लवंगमाः गृहीत्वागान्नगान् हृष्ट्वा लंकाया द्वारमभ्ययुः. ॥५३१॥ कुंभकर्णः प रा भूत्या खिन्नमग्रजमब्रवीत्, ‘ राजंस्त्वया बलवता वैरमुत्पादितं कथम् ? ॥५३२॥यः शत्रुमव म त्योग्रमात्मानं नाभिरक्षति अवोप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते. ॥५३३॥पूर्वं यदुक्तं श्री मंस्ते प्रियया मेऽनुजेन चतदेव नो हितं वाक्यं यथेच्छसि तथा कुरु. ’ ॥५३४॥ क्रुद्धो राक्षस रा जस्तमुवा‘चाहं गुरुस्तवअनुशाससि किं मां त्वं ? यद्युक्तं तद्विधीयताम्. ॥५३५॥विभ्रमाद्वाथ म नसो मोहाद्वीर्याश्रयेण वायन्नाभिपन्नमधुना व्यर्था तस्य पुनः कथा. ॥५३६॥यद्यस्ति स्वाग्र ज इति स्नेहः स्वस्मिंश्च विक्रमःयदि कार्यं ममैतत्ते हृदि कार्यतमं मतम्. ॥५३७॥अस्मिन्काले तु य द्युक्तं तदिदानीं विचिंत्यताम्ममापनयजं दुःखं विक्रमेण समीकुरु. ॥५३८॥रुष्टं राक्षस रा जानं ब्रुवाणं धीरदारुणम् कुंभकर्णः शनैः श्लक्ष्णमुवाच परिसांत्वयन् ॥५३९॥‘ शृणु राजन्म म वाचः संतापेनालमुत्थितम् रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि. ॥५४०॥दैन्यं रक्षोरा ज ! चित्ते मयि जीवति मा कुरु तमहं नाशयिप्यामि यत्कृते परितप्यते. ॥५४१॥ राजन् ! कालेत्र यद्योग्यं कर्तुं स्निग्धेन बंधुना शत्रूणां कदनं पश्य क्रियमाणं मया रणे. ’ ॥५४२॥इत्युक्तवंतं ज न्यार्थं समुद्युक्तं दशाननः भूषणैर्भूषयामास कुंभकर्णं महाबलम्. ॥५४३॥कुंभकर्णः प्रि य भ्रातुः पादौ नत्वा निपीडितम् तं परिष्वज्य युद्धाय प्रतस्थे शितशूलभृत्. ॥५४४॥पादन्यासैर्ध रा मार्ता कुर्वन् नादेन वानरान् कंपयन्निर्गतोऽत्युग्रः पुराद्बहुबलैर्वृतः. ॥५४५॥ तस्य देहस्य म हतः परीणाहो धनुःशतम् उच्छ्रायः षट्शतधनुःप्रमाणः परिकीर्तितः. ॥५४६॥विलंघयित्वा श्री मान्त्स प्राकारं पर्वतोपमः निर्ययौ नगरात्तूर्णं कुंभकर्णो भयंकरः. ॥५४७॥सर्वेऽपि वान रा स्नस्तास्तमायातं सुदारुणम् दृष्ट्वा शकटचक्राक्षं सहसा विप्रदुद्रुवुः. ॥५४८॥ तानंगदः स म रतो विमुखान् यूथपान् कपीन् नीलादीनब्रवी‘द्वीरा महतीयं बिभीषिका. ’ ॥५४९॥ते तारातनु ज स्यातिप्रयत्नेन प्लवंगमाः निवृत्ता युगपज्जघ्नुस्तं शिलाशिखरद्रुमैः. ॥५५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP