संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य २०१ ते २५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य २०१ ते २५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २०१ ते २५० Translation - भाषांतर न ददौ वारि रा शिः स यदा दर्शनमुद्धतः प्रभुर्मुमोच विशिखान् विविशुस्तेंऽबुधेर्जले. ॥२०१॥व्याकुलोऽभूत्स म हता तेजसा सागरः प्रभोः मामेत्युक्त्वा समुत्पत्य सौमित्रिर्धृतवान् धनुः. ॥२०२॥ उवाच रामो ‘ ज लधेः शोषितस्येषुतेजसा परं तीरं गमिष्यंति पद्भिरेव प्लवंगमाः. ’ ॥२०३॥इत्युक्त्वा प्रल य ब्रध्नप्रभः प्रभुवरः पुन्हःब्रह्मणोऽस्त्रेण संयोज्य शरं धनुषि संदधे. ॥२०४॥ चापे विकृष्टे ज लधिः प्रक्षुब्धः प्रलये तथा पर्वतप्रतिमोग्रोर्मिर्व्यतिचक्राम योजनम्. ॥२०५॥ सर्वः प्राप्तभ य स्तेन ब्रह्मास्त्रेणाभवद्भृशम् सकंपा गिरयः कृत्स्ना, निष्प्रभोऽभूद्दिवाकरः. ॥२०६॥ सिंधुमध्याद्व रा कारो नानारत्नैर्विभूषितः उदयाद्रेरिव रविः सागरः स्वयमुत्थितः. ॥२०७॥स उपागम्य म धुरमुवाचामंत्र्य राघवम् ‘ स्वभावे तात तिष्ठंति भूतान्यहमपि प्रभो ! ॥२०८॥राजेंद्र ! राम ! श्री मंस्त्वं कुरु सेतुं मयि प्रभो ? ग्राहा न प्रहरिष्यंति जलस्तंभो न मे मतः. ॥२०९॥मत्स्वभावो न रा धीश ! यदगाधोऽहमप्लवः गाधत्वं तु विकारो मे, क्षमस्व कुरु मद्वचः. ’ ॥२१०॥तमब्रवीद्रा म भद्रः, ‘ शृणु मे वरुणालय ! अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम्. ’ ॥२११॥ प्रभुं प्रोवाच ज लधिः पापैर्दस्युभिराकुलः द्रुमकुल्याभिधो देशः शरोऽयं तत्र पात्यताम्. ’ ॥२१२॥ तस्मिन्स्थाने सा य कं तं मुमोच रघुपुंगवः तत्र व्रणोऽभवत्तोयमुत्पपात रसातलात्. ॥२१३॥व्रणः कूपः श रा ज्जातो विश्रुतः सोऽक्षयोदकः तत्स्थलं मरुकांतारमिति नाम्नाऽभवद्भुवि. ॥२१४॥ददौ वरांश्च म रवे, सुक्षीरो विविधौषधिः पशव्यश्चाल्परोगश्च स देशः स्नेहवानभूत्. ॥२१५॥ उवाच रामं ज लधि ‘ र्विश्वकर्मसुतो नलः करोतु मय्ययं सेतुं धारयिष्याम्यहं प्रभो ! ’ ॥२१६॥एवमुक्त्वा तो य राशिस्तदैवांतर्हितोऽभवत् नगैरगैर्नलः सेतुं चकार शतयोजनम्. ॥२१७॥हृष्टैः कीशैः कुं ज राभैस्तदाह्ना प्रथमेन सः रचितः सागरे सेतुर्योजनानि चतुर्दश. ॥२१८॥ प्लवंगमैरा य तः स द्वितीयाह्ना कृतत्वरैः कृतः पयोनिधौ सेतुर्योजनानि तु विंशतिः. ॥२१९॥ तृतीयेन त्व रा वद्भिर्बद्धोऽह्ना सेतुरंबुधौ योजनानि महाकायैरेकविंशतिरेव सः. ॥२२०॥ चतुर्थेनाथ म हता तैरुत्साहेन वारिधौ द्वाविंशतिर्योजनानि निर्मितः सेतुरद्भुतः ॥२२१॥ प्रतापतोऽथ श्री जानेस्तस्याह्ना पंचमेन तैः सत्रयोविंशतिः सेतुर्योजनानि विनिर्मितः. ॥२२२॥ कीशैर्धराध रा कारैः कृतः सेतुर्धराधरैःदशयोजनविस्तीर्णः शतयोजनमायतः. ॥२२३॥नलसेतुं त म मराः सिद्धगंधर्वदानवाः सीमंतमिव पाथोधौ ददृशुस्तेऽतिविस्मिताः. ॥२२४॥प्लवंगसेना ज लधिं सा तेन नलसेतुना तीर्णा त्रिभिरहोरात्रैः पुरःसरबिभीषणा. ॥२२५॥मरुतस्तन य स्कंधं राम आरुह्य सागरम् सौमित्रिरंगदस्कंधं तीर्णः सेनापुरःसरः. ॥२२६॥महर्षिभिः सु रा स्तत्र पुण्यैर्मंदाकिनीजलैः समभ्यषिंचन् द्विषतो जयस्वेत्यब्रुवन्प्रभुम्. ॥२२७॥ उत्तीर्य सिंधु म थ तां लंकां पर्वतमूर्धनि दृष्ट्वा प्रभूक्तः सुग्रीवो मोचयामास तं शुकम्. ॥२२८॥ दशाननं द्वि ज तनुः शुकः क्षिप्रमुपागतम् हसन्नुवाच तं राजा, ‘ लूनपक्षः कुतो भवान् ? ’ ॥२२९॥स शुकस्तत्र य त्पाप्तं बंधनं तर्जनं स्वयम् वाचिकं चाब्रवीद्रामागमनं सेतुबंधनम्. ॥२३०॥‘ ऋक्षवानर ज न्मानो महात्मानो महाबलाः दुर्जयाः समरे राजन्नसंख्याताः समागताः. ॥२३१॥ सीतां वाऽस्मै प्र य च्छाशु युद्धं वा राक्षसेश्वर ! पुरीप्राकारमायांति क्षिप्रमेकतरं कुरु. ’ ॥२३२॥ रावणस्तद्रि रा क्रुद्धस्तमुवाच, ‘ सुरासुराः यदि मां प्रतियुध्येरन्न प्रदास्यामि मैथिलीम्. ॥२३३॥स राघवो म म बलं नाज्ञासीदेव निस्तुलम् कपिसैन्यैः सहागत्य तेन मां योद्धुमिच्छति. ’ ॥२३४॥ दक्षावमात्यौ श्री मान्त्स प्राहिणोच्छुकसारणौ हरिरूपधरौ वीरौ प्रविष्टौ कपिवाहिनीम्. ॥२३५॥बलं तद्वान रा णां तावचिंत्यं लोमहर्षणम् नाशक्नुवातां संख्यातुममात्यौ शुकसारणौ. ॥२३६॥तौ गृहीत्वा स म तिमान्प्रतिच्छन्नावपि स्वयम् आचचक्षे राघवाय दर्शयित्वा बिभीषणः. ॥२३७॥ तौ दृष्ट्वा तं रा ज सिंहमूचतू‘रावणाज्ञया आवां बलं परिज्ञातुमागताबि’ति कातरौ. ॥२३८॥प्रहसन्सद य स्वांतस्तावुवाच रघूत्तमः ‘ कृतं कार्यं यथोक्तं चेच्छंदतः प्रतिगम्यताम्. ॥२३९॥न दृष्टं चेच्च रा वेतत्सुग्रीवस्य महद्बलम् बिभीषणो वा कार्त्स्न्येन पुनः संदर्शयिष्यति. ॥२४०॥ग्रहणं प्रपय म त्तो मा भेतव्यं खलु राक्षसौ ! बिभीषण ! सखे ! मुंच, चारौ वध्यौ न सर्वथा. ॥२४१॥वित्तेशस्यानु ज स्तत्र वक्तव्यो वचनं मम यद्बलं स्वं समाश्रित्य सीतां मे हृतवानसि. ॥२४२॥तद्रणे दर्श य श्वस्त्वं सप्राकारां सतोरणाम् लंकां चमूं च पश्यारे ! शरैर्विध्वंसितां मया. ’ ॥२४३॥इति श्रुत्वा तं ‘ ज ये’ति प्रोक्त्वा लंका ततो गतौ तौ दशाननमब्रूतामनुभूतं यदात्मना. ॥२४४॥‘ कौसल्यातन य स्तस्य तत्तुल्यो लक्ष्मणोऽनुजः बिभीषणश्च मतिमान्सुग्रीवश्चेंद्रविक्रमः. ॥२४५॥चत्वारस्ते प रा क्रांताः सप्राकारामिमां पुरीम् उत्पाढ्य संक्रामयितुं सर्वे तिष्ठंतु वानराः. ॥२४६॥लंकामेकः स म र्थोऽस्ति जेतुं तिष्ठंतु ते त्रयः राजन्नलं विरोधेन सीता रामाय दीयताम्. ’ ॥२४७॥उवाच राजा श्री मांस्तं सारणं, ‘ जानकीमहम् न प्रदास्यामि रामाय त्वं त्रस्तस्तद्ग्रहाद् ध्रुवम्. ॥२४८॥को हि नाम प रा क्रम्य रणे मां जेतुमर्हति ? स इत्युक्त्वारुरोहोच्चं प्रासादं तद्दिदृक्षया. ॥२४९॥दृष्ट्वा प्लवंग म बलं सर्वत्रार्णवसन्निभम् पप्रच्छ सारणं तेषां नामसंख्यादि रावणः. ॥२५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP